SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्र ० दे दृश्यत्वनिरुक्तिः } लघुचन्द्रिका । हे स्वप्रकाशता पर्यवस्यतीति। उपहितत्वशून्यब्रह्मनिष्ठाभावप्रतियोगितारूपेण स्व प्रकाशत्वं न ज्ञायत इत्यर्थः । अस्वप्रकाशत्वज्ञानमनुपहितत्वविशिष्टविशेष्यकं नेति यावत् । तथा च स्वप्रकाशत्वाभावव्यापकाभावप्रतियोगित्वरूपायाः स्वप्रकाशत्वव्य तिरेकव्याप्तेः यदोपहितत्वामावरूपे शुद्धत्वे ज्ञानमुद्बुद्धसंस्कारो वा, तद। उक्तशुद्धत्वविशिष्टे स्वप्रकाशत्वस्याभावो न ज्ञायते । वयभावव्यापकाभावप्रतियोगित्वस्य धूमे निश्चये उबुद्धसंस्कारे वा सति धूमवति वह्नयभावज्ञानाभाववदिति ताढशव्याप्तिज्ञानस्य तादृशज्ञानाभावप्रयोजकत्वमेव स्वप्रकाशत्वविशिष्टशुद्धसाधकत्वमिति भावः । एतेन शुद्धत्वस्य हेतोब्रह्मण्यज्ञाने कथं तत्र स्वप्रकाशत्वस्यानुमितिरूपा सिद्धिरिति परास्तम् । शुद्धब्रह्मज्ञानं विनापि शुद्धत्वे तादृशव्याप्तिधीसम्भवात् । किं च 'उपहितत्वमस्वप्रकाशत्वव्यापक'मित्याकारकनिश्चये उबुद्धसंस्कारे वा सत्यपि उपहितत्वाभावविशिष्टे स्वप्रकाशत्वाभावो न ज्ञायते। 'वह्निधूमव्यापक' इत्याकारकनिश्चये उबुद्धसंस्कारे वा सति वयभावविशिष्टे धूमज्ञानाभाववत् उपहितत्वाभावरूपशुद्धत्वविशिष्टे अस्वप्रकाशत्वज्ञानासम्भवादुपहितत्वाभावरूपस्य शुद्धत्वस्याज्ञातत्वेऽपि न क्षतिः । न च उपहितत्वाभावविशिष्टे स्वप्रकाशत्वाभावो न ज्ञायत इति वाक्यजन्यज्ञाने शुद्धब्रह्मभानमावश्यकमिति वाच्यम् । उपहितत्वाभावावच्छिन्नविशेष्यतानिरूपितस्य ज्ञानप्रकारत्वस्यास्वप्रकाशत्वे उक्तवाक्ये. नाभावबोधनात् । न चोपहितत्वस्यास्वप्रकाशत्वव्यापकत्वे ज्ञातव्ये शुद्धत्वस्वप्रकाशत्वयोस्सहचारज्ञानमपेक्ष्यते । अन्यथोपहितत्वाभावववृत्तिः अस्वप्रकाशत्वमिति व्यभिचारज्ञानानुच्छेदेनोक्तव्यापकताज्ञानासम्भवादुक्तसहचारस्य च शुद्धघटितत्वेन तद्धीः शुद्धविषयिकेति वाच्यम् । शुद्धस्य वृत्त्यविषयत्वादेव तद्धटितव्यभिचाराकारवृत्त्यसम्भवात् । उपहिते शुद्धत्वभ्रमकाले तादृशव्यभिचाराशनाद्रुक्तव्यापकत्वज्ञानासम्भवेऽपि तदन्यकाले तत्सम्भवादुपहितरूपाधिकरणमादायोक्तसहचारभ्रमसम्भवाच्च । न चोपहितत्वाभावविशिष्टे स्वप्रकाशत्वाभावज्ञानं मास्तु । स्वप्रकाशत्वं शुद्धस्वरूपवृत्ति नवेति ज्ञानं तु स्यादेवेति वाच्यम्।शुद्धस्य वृत्त्यविषयत्वादेव तवृत्तित्वाभावाकारकभ्रमरूपवृत्तिसामग्य अकल्पनात् । न चैवं तादृशसामग्यकल्पनादेव शुद्धास्वप्रकाशत्वयोर्वैशिष्टयधीवारणे उक्तव्यापकताज्ञानस्योक्तधीप्रतिबन्धकस्य जनकं शुद्धं स्वप्रकाशमिति वाक्यमित्युक्तिव्यर्थेति वाच्यम् । तादृशोक्तेययमभिप्रायः । उक्तवैशिष्ट्यधियः कारणकूटाकल्पनादेव नोत्पत्तिः । तत्कल्पनेऽपि शुद्धत्वविशिष्टे तादृशधिय उक्तप्रतिबन्धकज्ञानान्नोत्पत्तिरिति । तस्मात् शुद्धत्वसत्यत्वादिविशिष्टस्य तदुपलक्षितव्यक्तिमात्रस्य वा नास्वप्रकाशत्ववैशिष्टयधीसम्भवः । यथेत्यादि । ता For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy