________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी
फलतत्प्रयोजकयो/तुवाच्याघटकत्वे धातोः सकर्मकत्वानुपपत्तिः । अत एव जानात्यर्थरूपस्य स्फुरणस्याप्युक्तरूपत्वमेव । न त्वसत्त्वापादकाज्ञानशून्यचिद्रूपत्वम् । जानातेः सकर्मकत्वानुपपत्तेः । तादृशप्रयोजकञ्च चिति घटादिप्रत्यक्षस्थले घटाद्याकारवृत्तिजनकसामग्री। सुखादिप्रत्यक्षस्थले सुखादिजनकसामग्री । तत्पूर्वभाविताकालावच्छिन्नसुखादौ विद्यमानस्याज्ञानविषयत्वस्य सुखाद्युत्पत्तिक्षणावच्छेदेनाभावो हि तादृशसामग्रीप्रयुक्तः । इदानोमज्ञानाविषयत्वं सुखादौ चन्दनयोगादिप्रयुक्तमित्यनुभवात् । विवेचितमिदं रत्नावल्याम् । स्वातिरिक्तेति । स्वान्यचिदि त्यर्थः । चिदंशनिष्ठस्यापरोक्षत्वस्य चिदंशान्याविद्याद्यपेक्षत्याच्चिदिति विशेष्योपादानम् । आनन्दांशस्य तु स्वान्यचिदंशाधीनापरोक्षताकत्वात् न स्वप्रकाशत्वम् । न च चिदंशेऽपरोक्षतालक्षणस्यासम्भवः । तदन्यचिदप्रसिद्धेरिति वाच्यम् । स्वान्यत्वाद्यभावविशिष्टस्वनिष्ठापरोक्षत्वापेक्षणीयचित् यस्य तत्त्वं स्वप्रकाशत्वम् । स्वापरोक्षतापेक्षणीयचित् यदन्या न भवति तत्त्वमिति यावत् । स्वपदाभ्यां स्वपदयत्पदान्याञ्चैका व्यक्तिर्नाद्या । साक्षादपरोक्षात् उक्तस्वप्रकाशत्ववत् । तनिरूपितभेदेति । तदवच्छिन्नानुयोगिताकभेदेत्यर्थः । प्रतियोग्यनुयोगिनोरिव प्रतियोगितावच्छेदकानुयोगितावच्छेदकयोरपि निरूपकत्वसम्भवात् । कारणीभूतद्रव्ये परिच्छेदकतया जात्यादेः कारणत्वस्येव निरूपकीभूतप्रतियोग्यनुयोगिपरिच्छेदकधर्मस्यापि निरूपकतायाः युक्तत्वात् , साक्षात् परंपरया वा सम्बन्धिमात्रस्य निरूकत्वाच्च । अत एवोत्पत्तिवादे प्रत्यक्षपरिच्छेदे मणिकारैरुक्तम्-'यदि प्रमा अप्रमात्वासमानाधिकरणधर्मनिरूपितकार्यत्वप्रतियोगिककारणजन्या न स्यात् अप्रमास्या'दिति । अत्र हि निरूपितपदस्यावच्छिन्नार्थकत्वेनावच्छेदकस्यापि निरूपकत्वं व्यवहृतम् । नित्यपरोक्षइति । अपरोक्षत्वरूपविशेष्याभावादिति शेषः । घटादाविति । तदीयापरोक्षताया अन्यानधीनत्वाभावादिति शेषः । धर्मानिरूपितत्वात् धमानवच्छिन्नानुयोगिताकत्वात् । जीवत्वेत्यादि । 'जीवो ब्रह्म न ईशो ब्रह्म ने त्याद्यनुभवसिद्धभेदस्य शुद्धचिद्रूषब्रह्मप्रतियोगिकत्वेऽपि जीवत्वाद्युपहितब्रह्मनिष्ठत्वेन तदनुयोगिता जीवत्वादिनैवावच्छिद्यते । न तु स्वप्रकाशत्वनेत्यर्थः । ननु, 'स्वप्रकाशं ब्रह्म' 'साक्षादपरोक्षाद्ब्रह्मे'त्यादिलौकिकवैदिकसामानाधिकरण्यप्रत्ययात् स्वप्रकाशत्वविशिष्टेऽपि ब्रह्मभेद आवश्यकः । अन्यथा तत्र ब्रह्मतादात्म्यसम्बन्धानुपपत्तेरिति चेन्न । म्वप्रकाशत्वोपहिते तत्प्रतियोगिकभेदाभावेन मिथ्याभूते तत्र भागासिद्ध्यापत्तेः । स्वप्रकाशत्वोपहितानुयोगिकभेदस्य हेतावनिवेशेन स्वप्रकाशत्वोपलक्षितानुयोगिकभेदस्यैव निवेशात्तादशोपलक्षितशुद्धचैतन्यनिष्ठानुयोगि
For Private and Personal Use Only