SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्र० दे दृश्यत्वानरुक्तिः] लघुचन्द्रिका । तायां उपलक्षणविधया स्वप्रकाशत्वस्यावच्छेदकत्वसम्भवेन तन्निरूपितेत्यादिमूलस्थासङ्गत्यभावात्तादृशोपलक्षितशुद्धचैतन्ये शुद्धचिद्रूपब्रह्मप्रतियोगिकभेदाभावेनादोषात् । न च ‘ब्रह्मणश्चैतन्यम् ।' 'आनन्दं ब्रह्मणो रूप'मित्यादिधीनियामकभेदमादा य दोष इति वाच्यम् । तादृशभेदस्य ज्ञानत्वादिधर्मनिरूपितत्वात् । ब्रह्मनिष्ठज्ञानत्वादिधर्मस्य चिन्मात्ररूपत्वेऽप्युपलक्षणतया धर्मान्तरस्य तादृशभेदनिरूपकत्वात् । एवं च यथाश्रुतमनादृत्य व्याख्याने च । अवेद्यत्वेत्यादि । अवेद्यत्वसमानाधिकरणं यदपरोक्षताव्यवहारयोग्यत्वं तदभावरूपमित्यर्थः । वेद्यत्वं स्वावच्छिन्नचिद्विषयकं यत् अभानापादकाज्ञानं तन्निवर्तकवृत्तिव्याप्यत्वरूपफलव्याप्यत्वम् । तच न बह्मणि । यत्रोक्तव्याप्यत्वं स्थाप्यं तस्यैव स्वपदार्थतया बह्मावच्छिन्नचिदप्रसिहेः । नापि शुक्तिरूप्यादौ । अतीतादिदशायां तस्यासत्त्वापादकाज्ञाननिवर्तकानुमित्यादिवृत्तिव्याप्यत्वेऽप्युक्ताज्ञाननिवर्तकवृत्त्यव्याप्यत्वात् । ब्रह्मणीवेत्यादि । अपरोक्षताव्यवहारयोग्यत्वमभानापादकाज्ञानाविषयत्वं तद्विशिष्टचित्तादात्म्यं चेत्यन्यतरवत्त्वम् । तत्राद्यस्य ब्रह्मणीव द्वितीयस्याविद्यादौ सत्त्वादसियादिकमित्याशयः । नोक्तान्यतरवत्त्वमपरोक्षताव्यवहारयोग्यता । किं त्वज्ञानसामान्यविरोधिमनोवृत्तिविषयतायोग्यत्वम् । अतो नोक्तदोष इत्याह-अज्ञाननिवर्तकेत्यादि । उक्तविषयताया अव्याप्यवृत्तित्वेन तदभावस्य ब्रह्मण्यपि सत्त्वात्तदीययोग्यत्वस्येत्युक्तम् । तादृशयोग्यत्वं च अभानापादकाज्ञानविषयत्वतदवच्छेदकत्वविशिष्टयोरन्यतरत्वम् । उक्तविषयत्वं ब्रह्मण्येव । उक्तविषयतावच्छेदकत्वं घटादावेव । न त्वविद्यादौ । अ तीतत्वादिदशायामपि शुक्तिरूप्यादौ नाभानापादकाज्ञानविषयतावच्छेदकत्वम् । साक्ष्यसम्बन्धादेव तदा तदभानोपपत्तेः । न चोक्तविषयतातदवच्छेदकयोरव्याप्यवत्तित्वेन तत्स्वरूपोक्तान्यतरत्वस्याप्यव्याप्यवृत्तित्वात्तदभावो ब्रह्मण्यपीति वाच्यम् । ब्रह्मतद्धटान्यतरत्वपर्यवसितस्योक्तान्यतरत्वस्य निवेशात् । अज्ञानकालवृत्तित्वमिति। अज्ञानाप्रयुक्तं सत् यत् जन्यं तदन्यत्वे सति कालसम्बन्धित्वमित्यर्थः । उक्तकालसम्बन्धित्वं ब्रह्मण्यपीति दृश्यत्वमुपात्तम् । सत्यन्तस्य तुच्छेऽपि सत्त्वात् कालमम्बन्धित्वमुक्तम् । तावन्मात्रस्य पञ्चमप्रकारेऽपि सत्त्वात् सत्यन्तमुक्तम् । अज्ञानाप्रयुक्तत्वं तु अज्ञानतल्लेशान्यतरतादात्म्यानापन्नत्वम् । तेनाज्ञाननिवृत्तौ प्रतियोगि. विधया अज्ञानस्य प्रयोजकत्वेऽपि न क्षतिः । जीवन्मुक्तभोगादिकमज्ञानानात्मकमपि तल्लेशात्मकम् ॥ ॥ इति लघुचन्द्रिकायां दृश्यत्वहेतूपपत्तिः ॥ १२ For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy