________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
अज्ञातृत्वं ज्ञातृभिन्नत्वम् । अज्ञानत्वं ज्ञानमिन्नत्वम् । अनात्मत्वं आत्मभिन्नत्वम् । पक्षनिक्षिप्तस्य मिथ्यात्वं येष्वनुमेयं तदन्तर्गतस्य । अहमर्थस्य स्थूलमनोविशिष्टस्य । ननु, नाहमर्थो ज्ञाता । सुषुप्तौ तदभावेऽपि अविद्यावृत्त्यात्मकस्य सुखादिज्ञानस्य साक्षिणि दर्शनात् तत्राह-शुद्धेत्यादि । अविद्याविशिष्टस्वरूपेण सुषुप्तिस्वप्नयोरहङ्कारविशिष्टरूपेण जाग्रति ज्ञातृत्वेऽपि केवलात्मनोऽज्ञातृत्वेन तत्र व्यभिचार इति भावः । वृत्युपरक्तेति । यदाकारवृत्त्युपरक्तं चैतन्यं यत् तत् तद्विषयकज्ञानमित्यर्थः । सुखादावपि वृत्तिः स्वीक्रियते । अन्यथा सुखाद्यवच्छिन्नचित एव सुखादिज्ञानत्वे सुखादौ संस्कारासम्भवात् ज्ञानसूक्ष्मावस्थाया एव संस्कारत्वात् कार्यस्यैव सूक्ष्मावस्थास्वीकारात् । न चोक्तचिद्रूपेण चितोऽपि जन्यत्वेन तत्सूक्ष्मावस्थासम्भव इति वाच्यम् । तादृशावस्थाया हि संस्कारविधया स्मृतिकारणत्वं मुखादिविषयकत्वेन वाच्यम् । सुखादिविषयकत्वं च तस्यां सुखादितादात्म्यापनचित्परिणामरूपायां सुखादितादात्म्यम् । विद्यमानसुखादौ वृत्तेः स्वीकारे तु नोककारणत्वं कल्प्यते । वृत्तिसंस्कारस्य अनुमित्यादिवृत्तिसंस्कारसाधारणेनाकाराख्यगौणविषयतासम्बन्धेन सुखादिविशिष्टसंस्कारत्वेन कारणतायाः क्लुप्तत्वेन तयैवाविद्यमानसुखादिस्मृतिनिर्वाहादिति भावः । विशिष्टात्मनां जीवानाम् । भेदे नानात्वे । निक्षिप्तत्वादिति । तथा च तेष्वसिद्धिः। वैषयिकानन्दे चन्दनादिसंयोगजन्यमनोवृत्त्यवच्छिन्नचिति । तव्यतिरेकस्य आनन्दभेदस्य । तस्य वैषयिकानन्दस्य । आत्मत्वे आत्मस्वरूपत्वस्वीकारे । अज्ञानपक्षेत्यादि । केवलचितो अनानन्दत्वेन तत्र व्यभिचारः । केवलचिति व्यभिचारोक्त्या सत्यत्वसूचनेन वैषयिकानन्दादेः केवलचिदन्यस्यानात्मत्वसूचनेनासिद्धितादवस्थ्यं सूचितम् । मैवामिति । एवंशब्दानुक्तौ प्रथमपक्षदूषणस्यापि निषेधापत्तेः । एवंशब्देन द्वितीयतृतीयपक्षयोर्दूषणे निषेयत्वमुक्तम् । न च प्रथमपक्षेऽपि ज्ञातृत्वोपलक्षितचिद्भेदस्य हेतुत्वसम्भवात् तत्त्यागो नोचित इति वाच्यम् । यथा हि वक्ष्यमाणरीत्या ज्ञानपदजन्यधीमुख्यविशेष्यत्वरूपेण ज्ञानपदवाच्यस्य निवेशेन तद्भेदो हेतुस्सम्भवति । तथा ज्ञातृपदनन्यधीमुख्यविशेष्यत्वेन ज्ञातृपदमुख्यार्थनिवेशेन तद्भेदो हेतुर्न सम्भवति । ज्ञानानुकूलव्यापारवत्त्वेन चित इव मनसोऽपि ज्ञातृपदजन्यधीमुख्यविशेष्यत्वेनोक्तभेदस्य मनस्यसिद्धत्वात् । ज्ञानपदस्य तु वाच्यं वृत्त्यवच्छिन्नं असत्त्वापादकाज्ञानाविषयत्वप्रयोजकविशिष्टं वा चैतन्यम् । न तु चैतन्यविशिष्टवृत्त्यादिरूपम् । विशेष्य. त्वेनैव चितो ज्ञानपदात् प्रतीतेः । अत एव 'सत्यं ज्ञान' मित्यादिश्रुतौ ज्ञानपदशक्त्यैव केवलचिबोध इति वक्ष्यते मूले । न हि वाच्यविशेषणस्य शक्त्या विशेष्यत
For Private and Personal Use Only