________________
www.kobatirth.org
प्र०दें जडत्वनिरुक्तिः ] लघुचन्द्रिका |
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
९१
या वोधो व्युत्पत्तिसिद्धः । पारपशुरित्यादितः पश्वादिभिन्नत्वेन पशुत्वादेर्बोधापत्तेः । वृत्त्यवच्छिन्नत्वं च वृत्तिसुखादिनिष्ठप्रतिबिंबप्रयोजकं यत् मनोमायान्यतरावच्छिन्नचैतन्यं तदात्मकत्वम् । सुखादौ वृत्तेरभावेऽपि तस्यैव स्वच्छत्वेन प्रतिबिंबवत्वम् । तत्र वृत्तेश्चिदुपरागार्थत्वपक्षे स्वाश्रयवृत्तिविषयत्वसम्बन्धेन चित्प्रतिबिंबविशिष्टत्वरूपं ज्ञानक्रियायाः फलमादाय घटादिविषयस्य तत्कर्मता । वस्तुतस्तु, प्रतिबिंबप्रयोजकत्वरूपेणैव वृत्त्यादिनिष्ठप्रतिबिंबप्रयोजकस्य जानातिवाच्ये निवेशः । न तु वृत्तिसुखादेरपि निवेशः । तथा च घटादेरपि वृत्त्युपहितरूपेण साक्षात्सम्बन्धेनैव जलाद्युपहितरूपेण पाषाणादेरिव प्रतिबिम्बवत्त्वसम्भवः । ईशो जानातीत्यत्रेशस्य जगदनुपादानत्वपक्षे मनोवच्छिन्नचित्तादात्म्याभावात् मायानिवेशः । साक्षिणरशुद्धचिद्रूपस्यैवाधिष्ठानत्वेन ज्ञानत्वादुक्तान्यतरावच्छिन्नचिदात्मकचितो ज्ञानत्वमुक्तम् । वृत्तेरावणभङ्गार्थत्वपक्षे त्वसत्त्वापादकाज्ञानाविषयत्वरूपतत्फलमादाय तस्य तत्कर्मतेति पक्षभेदेनोक्तफलघटितं ज्ञाधातुवाच्यं बोध्यम् । 'घर्ट जानामि' इत्यादौ घटाद्यवच्छिन्नस्याज्ञानविषयत्वाभावस्य धीः । 'ब्रह्म जानामी' त्यादौ च ब्रह्मनिष्ठस्याज्ञानविषयत्वाभावस्य धीः । न चाज्ञानविषयत्वसामान्याभावघटितस्य वाच्यत्वे उक्तविशेषाभावबोधनानुपपत्तिरिति वाच्यम् । अज्ञानविषयत्वेऽभावादौ च खण्डशक्तिस्वीकारात् । प्रतिकर्मव्यवस्थायामधिकं वक्ष्यते । अर्थोपलक्षितमकाशस्येति । वृत्त्यादिरूपढश्योपलक्षितचित इत्यर्थः । ज्ञानत्वेन अज्ञानत्वरूपहेतुमविष्टज्ञानपदलक्ष्यचित्स्वरूपत्वेन । मोक्षदशायामिति । मोक्षो दशा स्वरूपं यस्यास्तस्यां शुद्धचितीत्यर्थः । तदनपायात् तादृशचित्स्वरूपत्वानपायात् । तथा च कृच्यवच्छिन्नस्याज्ञानविशेषा वियत्वप्रयोजकविशिष्टस्य वा चैतन्यस्य ज्ञानपदवाच्यत्वे Sपि ज्ञानपद जन्यतीविषयत्वरूपेण शुद्धचित एव भेदः प्रकृते हेतुरिति भावः । अत्र शुद्धचितीत्यनुक्त्वा मोक्षस्वरूपत्वेन शुद्धचितो निर्देशात् 'विद्वान्नामरूपाद्विमुक्त' इत्यादिश्रुतिसिद्धशुद्धचिद्रूपस्य प्रत्याख्यातुमशक्यलया तद्वेदस्य हैतुत्वसम्भव इति सूचितम् । पुनस्तमेवार्थं युक्त्या दृढीकर्तुमाक्षिपति । नचाभाव इत्यादिना । स्वाभाविकत्वात् अनारोपितत्वात् । यथा गगने नैस्यमारोपितं न तथा ज्ञाने सविषयकत्वमारोपितम् । अतो ज्ञानसमसत्ताकं तत् । तथा च सर्वदृश्योच्छेदे मोक्षे ज्ञानत्वोपलक्षितस्त्वरूपसत्वासम्भवात् तद्भेदस्य हेतुत्वासम्भव इति भावः । ज्ञानोपाधिकस्य ज्ञानीयस्य । जनकज्ञानीयविषयत्वमिच्छादेर्विषयेषु सम्बन्धः ! ज्ञानविषययोस्तादात्म्येष्वेव विषयतात्वस्य क्लृप्ततया ज्ञानीयतादात्म्यमेव सः । यद्यपि स्वजनकज्ञानीयतादात्म्यत्वेन तादात्म्यस्य नेच्छाया