SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९२ अद्वैतमञ्जरी । विषये सम्बन्धत्वम् । समूहालम्बनज्ञानविषये सर्वत्रेच्छाया विषयत्वप्रसङ्गात् । तथापि खजनकतावच्छेदकं ज्ञानीयविषयत्वमिच्छायास्सम्बन्धः । घटत्वप्रकारकवटविशेष्यकज्ञानत्वेन तादृशज्ञानविशिष्टेच्छां प्रति हेतुत्वस्वीकारात् । अथवा ज्ञानोपाधिकस्य ज्ञानोपाध्यविद्याप्रयुक्तस्य । ज्ञान इवेच्छादावपि विषयसम्बन्धम्य दुर्वचत्वात् । तत्राकाराख्यो विषयसम्बन्ध आविद्यक इति भावः । मुतरामिति । ज्ञानस्वरूपस्य सत्यत्वात्तद्गतो विषयसम्बन्धः कथंचित् सत्य उच्येत । इच्छादिस्वरूपस्य तु मिथ्यात्वात्तद्गतस्स कथमपि न सत्यो वक्तुं शक्य इति भावः । आनन्दाप्रकाशे आनन्दसम्बन्धिनः प्रकाशस्याभावे । न त्वानन्दस्येति । तथा च मोक्षे आनन्दसम्बन्धिप्रकाशाभाव इष्टः । पुमर्थत्वमपि पूर्णानन्दावरणविरोधिवृत्तिविशिष्टत्वरूपेणैव । तदपि तदा नास्त्येव । किं तु तादृशवृत्तिकाल एव । तावतैव तदुद्देशेन श्रवणादौ प्रवृत्तिसम्भवः । न च, तदेत्युक्तिरसंगता । परममुक्तात्मनि कालासम्बन्धादिति वाच्यम् । इदानी कल्पितेन कालेन तदेति व्यवहारादिति भावः । ननु, तथापि परममुक्तात्मनि ज्ञानत्वाभावेनाज्ञानत्वहेतोर्व्यभिचारस्तत्राह-प्रकाशत्वमिति। ज्ञानत्वोपलक्षितस्वरूपत्वमित्यर्थः। तादृशात्मनो ज्ञानत्वोपलक्षितत्वमावश्यकम् । व्यवहारकाले तस्यैव सर्वदृश्यभासकत्वेन सर्वज्ञेयोपलक्षितत्वादित्याशयेनाहअर्थोपलक्षितप्रकाशत्वं वेति । सर्वज्ञेयोपलक्षितत्वं वेत्यर्थः । ज्ञानत्वेति । ज्ञानत्वोपलक्षितस्वरूपत्वेत्यर्थः । तादृशात्मा ज्ञानत्वोपलक्षित इति यावत् । तथाच तद्भेदस्य हेतोस्तत्राभावान्न व्यभिचार इति मावः। ज्ञातुरभावादिति। तदा ज्ञातुरभावादित्यर्थः । तत् मुक्तात्मरूपम् । ज्ञानं ज्ञानत्वोपलक्षितस्वरूपम् । न हीत्यादि । कर्तृत्वस्य सकलकारकप्रयोक्तृत्वरूपस्वातन्त्र्यविशिष्टकारकत्वरूपत्वात् कारकत्वस्य च क्रियानिमित्तत्वरूपत्वात् कर्तृनिरपेक्षक्रियास्वरूपं न सम्भवतीति भावः । न चंति । ज्ञानत्वविशिष्टस्य सादित्वेऽपि ज्ञानत्वोपलक्षितस्येति शेषः । क्रियारूपत्वेति । कारकनिमित्तकक्रियारूपत्वेत्यर्थः । अर्थानक्षत्वे स्वविषयानपेक्षत्वे । तन्निरूप्यत्वेति । स्वविषयविशिष्टरूपेणैव प्रकाशमानत्वेत्यर्थः । ज्ञातृज्ञेयनिरूप्यत्वं ज्ञातृज्ञेयविशिष्टरूपेणैव प्रकाशमानत्वम् । तथा च ज्ञेयज्ञात्रविशेषितशुद्धचिपेणाप्यसंप्रज्ञातसमाधौ मोक्षे चात्मनः प्रकाशमानत्वात् न ज्ञानत्वोपलक्षितस्वरूपत्वमिति भावः । विवरणविरोध इति । वृत्त्यवच्छिन्नस्यासत्त्वावरणयत्किञ्चिदज्ञानाविषयत्वप्रयोनकविशिष्टस्य वा चैतन्यस्य ज्ञानपदार्थस्य ज्ञातृज्ञेयाद्यघटितत्वेऽपि ज्ञातृज्ञेयनिरूप्यं ज्ञानस्वरूपमिति ज्ञापनाय ज्ञातुरर्थेत्युक्तं विवरण इति भावः । जातेः शुद्धजातेः । व्यक्तिनिरूप्यत्वेऽपि कदाचियक्तिसंसृष्टरूपेणैव प्रकाशमानत्वेऽपि। For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy