SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६८ अद्वैतमञ्जरी तस्य ! कल्पिते कल्पितत्वादन्यदनावृतमित्यर्थः । अज्ञानादीत्यादि । अज्ञानाद्यपाध्यवच्छिन्नस्य प्रकाशेऽप्यशनायाद्यतीतत्वोपलक्षितपूर्णानन्दरूपेणावरणमावश्यकम् । अप्रकशादित्यर्थः । शक्तिमदविद्यति। शक्तिनाशाच्छक्तिविशिष्टरूपेणाविद्याया नाश इति भावः । उच्छेदेति । ज्ञानमज्ञानप्रयुक्तस्यैवोच्छेदकमित्येवंरूपत्वादित्यर्थः । अज्ञानप्रयुक्तत्वं चाज्ञानव्याप्यत्वम् । तच्चाज्ञाने तद्व्याप्ये अनादिदृश्ये तत्कार्थे चास्त्येव । उच्छेदश्च पूर्वोक्तो बोध्यः । यदि तु ज्ञानमेवाज्ञानस्य नाशस्तदुत्पत्तिक्षणस्य चाज्ञानप्रयुक्तदृश्याधिकरणकालपूर्वत्वाभावनियम इति स्वीक्रियते, तदा निवकिमित्यस्य निवृत्तिरित्यर्थ इति ज्ञानमज्ञानस्यैव निवृत्तिरिति नियमो बोध्यः । बदनङ्गीकारात् ज्ञानादज्ञानस्यैवेति नियमास्वीकारात् अज्ञानभिन्नस्य ज्ञानात् सूक्ष्मरूपता नेत्यस्यास्वीकारादिति यावत् । तथा चैकाज्ञानपक्षे शक्तिभेदस्य शुक्तिरूप्याद्यनुपादानत्वेऽपि शुक्त्यादिज्ञानेन रूप्यादिनिवृत्तियुज्यत एवेति भावः । शक्तिभेदस्य पल्लवाज्ञानस्य वा तदुपादानत्वपक्षे तु बाध एव सम्भवतीत्याह-शुक्तिज्ञानस्य चेति । तुलाज्ञानेति । मूलाज्ञानीयावस्थातच्छकत्यन्यतरेत्यर्थः । अनभ्युपगमादिति । उपादानमविद्यादिकम् आकाशादिरूपेण परिणमते, मिथस्संयुक्तकपालद्वयादिकं घटादिरूपेण परिणमते इत्येव स्वीक्रियते । तथा च घटादौ कपालादेः सम्बन्धो नास्ति । तस्य हि स्वीकारे घटस्येव कपालद्वयस्यापि गुरुत्वादिकं स्वकार्यानुमानादिकं कुर्यात् । तस्मात् परिणामवाद एव युक्तः । उक्तं चारम्भणाधिकरणभाष्यादौ--'द्रव्यारम्भोऽपि न सर्वत्रारम्भकसंयोगादेवे'ति । तथा चावयवसंयोगेनैव द्रव्योत्पत्तावनुभवविरोधः । शीघ्रमेव प्रभादिस्थले द्रव्यस्योत्पत्तेः । अभिव्यक्तौ प्रमातृचिदुपरागे । तदवच्छेदेनैवेति । यद्यपि शुद्धनिष्टमेव सर्वमावरणं, तथापि तदभिभवो घटाद्याकारवृत्त्या क्रियमाणो घटाद्यवच्छिन्न एव । स हि यद्यज्ञाननाशः, तदा वृत्तिज्ञानस्वरूपत्वात् घटाद्यवच्छिन्न एव । प्रत्यक्षमनोवृत्तेस्तथात्वस्येन्द्रियसन्निकर्षाधीनत्वात् । परोक्षवृत्तिप्रयुक्तस्याभिभवस्य प्रमातृमात्रनिष्ठाज्ञाननाशरूपत्वान्न घटाद्यवच्छिन्नत्वमिति वक्ष्यते । आवरणस्य शक्तिरूपत्वेऽपि तदभिमवो वृत्तिस्वरूपत्वात् तथैव । यदि तु वृत्त्यभावविशिष्टो योऽज्ञानसम्बन्धः, तदभाव एवाभिभवः। न त्वज्ञानस्य नाशः । अज्ञानस्यैकत्वेन घटादिवृत्त्या नाशासम्भवात् , तदापि घटादिवृत्त्या सम्पाद्यमानः स एवेति भावः । शक्त्यभिभवाद्वेति । शक्तिरावरणशक्तिः । तूलाज्ञानमावरणविक्षेपशक्तियुक्तं ब्रह्मज्ञानान्यज्ञाननाश्यमूलाज्ञानतादात्म्यानापन्नमज्ञानम् । अवस्थाविशेषस्तु तादृशं मूलाज्ञानतादात्म्यापन्नम् । वक्ष्यति हि 'अज्ञानावस्थायास्तदभिन्नाया' इति । एकदेशनाशस्तु वृत्तौ सत्यामज्ञानं स्वकार्याक्षमं तत्रापि For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy