________________
Shri Mahavir Jain Aradhana Kendra
प्र०दे प्रतिकर्मव्यवस्था ]
www.kobatirth.org
लघुचन्द्रिका |
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२६९
वृत्तिकाला भावविशिष्टमज्ञानं भानविरोधीत्युपान्त्यपक्षः । वृत्त्युत्पत्तिक्षणोत्तरवृत्तिकालाभावविशिष्टमज्ञानं भानविरोधीत्यन्त्यपक्षः । अत एव यथा प्रतिभटागमनक्षण एवं भोरुभटापसरणं, तथा वृत्त्युत्पत्तिक्षण एवावरणाभिभवः । यथा च हस्तसंयोगोत्पत्त्युत्तरं कटस्य वेष्टनं, तथा वृत्त्युत्पत्तिक्षणोत्तरवृत्तिकाले आवरणाभिभव इत्याशयेन दृष्टान्तो युज्यते । अत एव च नानाज्ञानपक्षे शक्तः ज्ञाननाश्यत्वपक्षे वा वृत्त्यावरणस्याभिनवो वृत्तिरेव वा स इति पक्षद्वयं बोध्यम् । वक्ष्यमाणरीत्या चरमपक्षाभ्यां भिन्न एव वा एकदेशनाशपक्षो बोध्यः । एकाकारं एकाज्ञानस्वरूपम् । यथा घटादिरूपावस्थास्वनुगतमप्यज्ञानं घटादिनाशेऽपि न नश्यति तथा अज्ञानरूपनानावस्थासु अनुगतमज्ञानं तासां नाशेऽपि न नश्यति । एतावांस्तु विशेषः । यत् घटाद्यवस्थानादिरज्ञानोच्छेदं विना नोच्छिद्यते । अज्ञानरूपावस्था तु स्वानुगताज्ञानवदनादिः तदुच्छेदं विनाप्यच्छिद्यते च । न चाज्ञानत्वादेव तासां ज्ञाननाश्यत्वसम्भवात्तत्र मूलाज्ञानतादात्म्यस्वीकारो व्यर्थ इति वाच्यम् ।' अजामेकां ' ' अज्ञानेनावृतं ज्ञानमित्यादिश्रुतिस्मृतिप्वावारकस्यैकस्वरूपाभिन्नत्वप्रत्ययात् ' अज्ञातः पटः '' अज्ञातो घटः' इत्याद्यनुगतप्रतीतिषु तथाप्रत्ययाच्चेति भावः अनीदृक्त्वात् । अज्ञानत्वशून्यत्वात् । प्रागभावान्तरनिबन्धनमिति । 'अज्ञातो मे घट' इत्यादिप्रत्यक्षधीस्तत्पुरुषीयज्ञानाविषयवृत्तित्वविशिष्टं तत्पुरुषीयज्ञानस्य संसर्गाभावमवगाहत इति परैः स्वीक्रियते । तत्र यथा तत्पुरुषीयकिञ्चिज्ज्ञानविषये घटे तादृशप्रत्यक्षाभावो विषयविधया तादृशप्रत्यक्ष कारणीभूतस्य तादृशाभावस्याभावात्, तथा मन्मते वृत्तिज्ञानमेकाज्ञाननिवर्तकं अन्याज्ञानप्रयुक्तस्य 'बटो न भातो'ति व्यवहारस्यानुत्पत्तौ प्रयोजकम् | तत्त्वञ्च तादृशव्यवहारं प्रति घटाकारवृत्तेः प्रतिबन्धकत्वाद्वृत्तिविषयत्वाभावकालोपहित एव । घटे आवृतत्वस्वीकारात् । वृत्त्यविषयत्वविशिष्टं यदज्ञानं, तदभावविशिष्टचितो मानत्वस्वीकारेण वृत्तिकाले तस्याः घटादौ सवाद्वा । सर्वथापि तादृशव्यवहाररूपकार्यानुत्पत्तिव्याप्यार्थकं प्रतिबन्धकपदं वृत्तावस्मदीयैः प्रयुज्यते इति समुदायार्थः । प्रतिबन्धकपदेन प्रतिबध्नातीत्यनेन । प्रतिबन्धकतायां 'घटो भाती'त्यादि व्यवहारोत्पत्तिप्रयोजकाभावप्रतियोगितायाम् । सा च भातीत्यादिव्यवहारे वृत्त्यभावविशिष्टसम्बन्धस्य प्रतिबन्धकत्वाद्वा वक्ष्यमा - रीत्या वा बोध्या । अत्रेदं बोध्यम् । वृत्त्यनवच्छेदकत्वसमानाधिकरणो यो ऽज्ञानसम्बन्धः, तस्य भातीतिव्यवहारे प्रतिबन्धकत्वात् घटादौ वृत्त्यवच्छेदकत्वकाले तथा व्यवहारः । अथवोक्तसम्बन्धाभावाश्रयतादात्म्यापन्ना चिदेव भानम् । तेनोक्तका -