SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २७० www.kobatirth.org अद्वैतमञ्जरी । Acharya Shri Kailassagarsuri Gyanmandir ले अज्ञान सम्बन्धसत्वेऽपि विषयसत्तादुक्तव्यवहारः । तदन्यकाले तु विषयासत्त्वादेव नोक्तव्यवहारः । एतस्मिन् पक्षे च प्रतिबन्धकत्वं न कल्प्यते । वृत्तिविषयवासमानाधिकरणासत्त्वापादक ज्ञानसम्बन्धाभावस्यास्तित्वव्यवहारे प्रयोजकत्वमपि तथैव बोध्यम् । अज्ञानस्य सम्बन्धस्तु सर्वत्र विषयतावच्छेदकत्वम् । तच्च घटादावेव । न सुखादाविति वृत्त्यभावेऽपि सुखादो भातीत्यादिव्यवहारः । यद्यपि ब्रह्मणि वृत्तिविरह का लेप्युक्तावच्छेदकत्वस्याभावात् 'ब्रह्म साक्षात्करोमी' ति व्यवहारापत्तेर्भानं न तद्घटितं, तथाऽपि विषयत्वतदवच्छेदकत्वयोरन्यतरदुक्तावच्छेदकत्वशब्दार्थ इति ब्रह्मणि वृत्तिविरहकाले अज्ञानविषयत्वसत्त्वेन उक्तान्यतराभावस्यासत्त्वात् उक्तान्यतरा भावविशिष्टविषयतादात्म्यापन्नसाक्षिणो विषयसाक्षात्कारत्वे दोषाभावः । अवच्छेदाभ्युपगमादिति । अज्ञानस्यैकत्वपक्षेऽपि शुद्धचिन्निष्ठा विघयता काचित् केनाप्यनवच्छिन्ना स्वीक्रियते । सैव ब्रह्मज्ञाननिवर्त्या । अन्यास्तु विषयताः शुद्धचिन्निष्ठा अपि आगन्तुकेनापि कादाचित्कप्रकाशेन घटादिनावच्छिद्यन्ते । यथा घटाद्यत्यन्ताभावस्यानादिविशेषणतासम्बन्धे परमते कालवि शेषस्यावच्छेदकत्वं तद्वदेव च तत्र न नियामकापेक्षा | अथवा कादाचित्कप्रकाशस्य घटादिकार्यस्य स्वावच्छिन्नविषयिताकत्वसम्बन्धेनाविद्यानिष्ठायामुत्पत्तौ तादात्म्यसम्बन्धेनाविद्यायाः कारणत्वात् घटादिनिष्ठाक्तविषयतावच्छेदकत्वमविद्यानियम्यमेव । अनादीश्वरादिनिष्ठं तत् केवलम् । न हेतुनियम्यम् । अथवावच्छेदाभ्युपगमादित्यस्याज्ञानविषयता घटाद्यवच्छिन्नेत्यत्र न तात्पर्यम् । किं त्वज्ञानविषये शुद्ध घटादिसम्बन्ध इत्यत्र । नचैवं सुखादौ भातीतिव्यवहारो न स्यात् । घटादौ हि वृत्त्यभावकाले तद्वारणाय वृत्त्यनवच्छेदकनिष्ठस्या - ज्ञानतादात्म्यस्योक्तव्यवहारविरोधित्वं वाच्यम् । तच्च सुखादावप्यस्तीति वाच्यम् । • सुखादावेकस्याऽविद्यावृत्तेरनादेः स्वीकारसम्भवात् प्रतिभासव्याप्यस्थितिकस्य कार्यस्व विषयित्वसम्बन्धेन तादृशवृत्तिनिष्ठोत्पत्तौ तादृशवृत्तेस्तादात्म्येन कारणत्वसम्भवात् । यदवच्छिन्नगोचरेति । यत्संश्लिष्टा यदाकारा चेत्यर्थः । तदवच्छेदेनैवावरणापसरणादिति । तस्यैवोक्ताज्ञानसम्बन्धाभाववत्त्वादित्यर्थः । आवरणमभानापादकं ग्राह्यम् । तेनापरोक्षवृत्तेः प्रमात्रवच्छेदेनावरणनिवर्तकत्वेऽपि न क्षतिः । प्रसङ्ग इति । अज्ञाननाशं प्रति ब्रह्माकारवृत्तेरेव हेतुत्वात् घटाद्याकारवृच्या नाज्ञानस्य नाशः । किं तु तदीयानां घटाद्यवच्छिन्नानां विषयतानां पलवाज्ञानानां मूलाज्ञानशक्तीनां चेति न तया मूलाज्ञाननाशप्रसङ्ग इति भावः । तदेवमेकदेश पक्षान्तर्भावेनोपान्त्यान्त्यपक्षयोः व्याख्यानं कृतम् । अथवा तयोः For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy