SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदे प्रतिकर्मव्यवस्था लघुचन्द्रिका । २७१ पक्षयोः उपपादनं पूर्वमेव कृत्वा · ननु, चैतन्यस्य निरवयवत्वा'दित्यादिनोक्तपक्षाभ्यां भिन्नत्वेन स्वीकृत्य एकदेशनाशपक्ष उपपाद्यते । तत्र यदवच्छिन्नेत्यादेरयमर्थः । यत्कालावच्छेदेन घटादौ मनोवृत्तिः, तत्कालावच्छेदेन नाज्ञानविषयतावच्छेदकत्वम् । किं तु तदन्यकालावच्छेदेन । तथा चास्मिन् पक्षे अज्ञानविषयतानवच्छेदकत्वविशिष्टघटादेस्तादात्म्यविशिष्टा चिदेव घटादेर्भानम् । अस्तित्वं त्व. सत्त्वापादकाज्ञानघटितमिति लाघवम् । यत्तु शुक्त्यादिज्ञानस्याज्ञानशक्तिनाशकत्वमयुक्तम् । शक्तेभ्रमोपादानत्वे अज्ञानत्वापत्तेः । भ्रमानुपादानत्वे तन्निवृत्तावपि भ्रमानिवृत्त्यापत्तेः । शक्त्यन्यस्याज्ञानम्य वैयर्थ्याच्चेति, तन्न । भ्रमोपादानत्वेऽपि हि शक्ते ज्ञानत्वम् । तादृशशक्तिमत्त्वस्यैवाज्ञानलक्षणत्वात् । अत एव न तम्या वैयर्थ्यम् । कार्यप्रयोजकशक्तिमत्त्वं विना कारणत्वासम्भवात् । अथ वा शक्तिोंपादानम् । किं तु तद्वदज्ञानम् । शक्तिर्हि मीमांसकमते कारणतैव । न तु कारणम् । तन्मात्रस्य निवृत्त्यापि रूप्यादिनिवृनिस्सम्भवत्येव । शक्तिविशिष्टरूपस्योपादानस्य नाशात् । यदपि नानाज्ञानपक्षे अज्ञानीयनानाशक्तिपक्षे च शुक्त्यादिज्ञानेन किञ्चिदज्ञानस्य शक्तेश्च नाशः । अज्ञानस्य शक्त्यन्तरस्य च कार्यक्षमतया अवस्थानं न युक्तम् । सर्वत्राज्ञाने शक्तौ च कार्याक्षमत्वस्थ वक्तुं शक्यत्वा. देकाज्ञानपक्षस्यैव युक्तत्वादिति। तदपि न युक्तम् । 'ज्ञानादज्ञानं नष्ट'मितिप्रत्ययस्य बाधस्य चोपपादनाय नानाज्ञानशक्तिपक्षयोरपि युक्तत्वात् । अधिष्ठानचैतन्यामिति । जीवचैतन्यस्य भासकत्वपक्षेऽपि तस्याधिष्ठानीभूतचित्स्वरूपकत्वादयमुपसंहारो युक्तः । अत एव प्रकाशकं तावदधिष्ठानचैतन्यमेवेत्यादिपूर्वग्रन्थः यथाश्रुतोऽपि रम्य एव । एवञ्च जीवस्य सर्वगतत्वनगदुपादानत्वयोः स्वीकारपक्षे जीवस्यैव भासकत्वं पूर्वोक्तं न विरुध्यत इति बोध्यम् । ननु, एकजीववादे जी. वस्य जगदुपादानत्वादावरणभङ्गार्थव घटादौ वृत्तिः । तथा चैकस्य प्रमातुः तादृशवृत्तिकाले अपरस्यापि घटादिकमपरोक्षं स्यात् । एवमेको जीवोऽसङ्गः स. वंगतो ब्रह्मैव जगदुपादानमितिपक्षे साक्षिचिदुपरागाथैव सा । तथा चोक्तापत्तिः । साक्षिणः सर्वान् प्रमातॄन् प्रत्यविशिष्टत्वेन घटादिचित्युपरक्तत्वादित्यत आह-तदयमित्यादि । प्रमेयचैतन्यमिति । जीवचैतन्यस्य मासकत्वपक्षेऽपि तद्भास्यं घटाद्यवच्छिन्नं चैतन्यम्।मनोवृत्तेस्तदाकारत्वात्। घटादेस्तु तदवच्छेदकत्वस्यैव स्वीकारात्।घटादिकं तु तादृशेन प्रमेयचिता भास्यते । अत एव तत् स्वयं भासमानं सत् खाध्यस्तं घटाद्यपि भासयतीति मूले अग्रे वक्ष्यते। अन्तःकरणेति । देहावच्छिन्नमनोभागेत्यर्थः । अन्तःकरणवृत्तीति । देहविषययोर्मध्यस्थमनोमागेत्यर्थः । प्रमाणामिति । वि. For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy