________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७२
अद्वैतमञ्जरी ।
षयस्थमनोभागावच्छिन्ना चित्तु प्रमितिरिति शेषः । विषयीभूतचिति आवरणाभिभवस्य फलस्य विषयगतमनोभागसम्बन्धाव्यवहितोत्तरक्षण एव सम्पत्त्या तदवच्छिनचिदेव क्रियारूपा प्रमितिः । तस्यास्तु प्रमातृव्यापाराविष्टेनोक्तमध्यभागेन सम्पत्त्योक्तमध्यभागावच्छिन्ना चित् प्रमाणम् । कर्तृव्यापारेण हि नमनोन्नमनादिनाविष्टं कुठारादिकं भिदादिक्रियानिप्पादकं करणं भवति । तादृशकरणं प्रति देहावच्छिन्नप्रयत्नेन देहावच्छिन्नभागम्य प्रेरकत्वात् प्रमासाधनसकलकारकेषु स्वतन्त्रत्वाच्च तदवच्छिन्ना चित् प्रमात्री । केवलस्योक्तभागस्याचेतनत्वात् । केवलचितोऽपि निर्व्यापारत्वात् कर्तृत्वासम्भवात् मिथस्तादात्म्यं प्राप्तस्य तदुभयस्य प्रमातृत्वम् । तस्य च तादशेनैव चिदात्मकेन स्वव्यापारेण प्रमारूपेण विषयं व्याप्नुयामहमितीच्छया तादृशव्यापाररूपेण विषयसंश्लिष्टपरिणामप्राप्तेस्तस्या अपि विषयशरीरमध्यस्थतादृशपरिणामप्राप्तिद्वारकत्वात् । प्रमितिप्रमाणयोरपि चिदचिढ़ात्वम् । न हि चैत्रकुठारछिदानामिव प्रमात्रादीनां मिथोऽत्यन्तभिन्नत्वम् । अपि तु प्रमामुद्दिश्यैव प्रमातुः प्रयत्नोदयात् प्रमायाश्च प्रमातृपरिणामरूपत्वेन चिद. चिद्रपत्वमेव । ननु चक्षुरादीनामपि प्रमाणत्वसम्भवात् तदनुक्त्या न्यूनतापत्तिरिति चेन्न। प्रत्यक्षप्रमामात्रे प्रमाणादिकं प्रकते विवक्षितम् । तच्चोक्तमेव । चक्षुरादिकं तु तद्विशेषे प्रमाणम् । तथा च तदनुक्तिन दोषः । किञ्चान्तःकरणवृत्तीत्यनेन चक्षुरादिद्वारेत्यनेन चक्षुरादिकमपि प्रमाणमित्युक्तमेव । मनो हि चक्षुरादिनैक्यं प्राप्तमेव विषयसंश्लिष्टरूपेण परिणमते । तथापि त्रयाणामौपाधिकभेदसत्त्वेऽपि । यदीयेति । यत्प्रमातृसम्बन्धीत्यर्थः । तथा च प्रमातुरुपरागाथैव वृत्तिन साक्षिण इति नैकप्रमातृवृत्त्या अपरप्रमातृप्रत्यक्षता घटादेरिति भावः। यत्प्रकाशकं यदवच्छिन्नम्।यत्तमातृचैतन्येति। यत्प्रमातृमनोवृत्त्यवच्छिन्नचैतन्येत्यर्थः। जानाति साक्षात्करोति।अन्यम् अस्वच्छमन्यम्। तेन स्वच्छस्य मुखादेवृत्ति विनैव प्रत्यक्षत्वेऽपि न दोषः। अन्यः अन्यजीवः। तेनेशस्य चक्षुरादिद्वारकवृत्ति विनैव सकलदृश्यप्रत्यक्षवत्त्वेऽपि न दोषः । तदवच्छेदेन तद्विषयावच्छेदेन । अज्ञाननिवृत्त्या अनभिव्यक्तिनिवृत्त्या । तेन वृत्तेः प्रमातृचिदुपरागार्थत्वपक्षस्यापि संग्रहः । अनुपरागस्याप्यनभिव्यक्तित्वात् निवृत्त्या भासमानं निवृत्त्यभिन्नस्य भासमानत्वस्याश्रयः । फलमिति । वृत्तेरेवावरणनाशत्वात् प्रमात्रुपरागत्वाच्च फलत्वात्तद्विशिष्टरूपेण घटादिचैतन्यं फलम् । न च फलत्वं क्रियारूपवृत्तेरनुपपन्नमिति वाच्यम् । घटादिसंयोगोपधायकक्रियोपहितरूपेण वृत्तेः क्रियात्वं तादृशसंयोगोपहितरूपेण फलत्वमिति स्वीकारात् । तादृशरूपयोः पौर्वापर्यात् फलव्याप्यं फलभास्यम् । ननु, परोक्षवृत्तिस्थलेऽप्यावरणं
For Private and Personal Use Only