________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्र०दे प्रतिकूलतर्कनिराकरणम् ] लघुचन्द्रिका |
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२७३
1
नष्टमित्यनुभवात् परोक्षभ्रमोच्छेददर्शनाच्चावरणभङ्गस्य वाच्यत्वात् । तत्रापरोक्षभ्र. मस्योच्छेदः स्यात् । पर्वते वह्नि जानामी 'तिवत् 'पर्वते वह्नि साक्षात्करोमी' ति व्यवहारः स्यात् । तत्राह - यन्निष्ठेत्यादि । निष्ठा संश्लिष्टा । तन्निष्ठं तदवच्छिन्नाश्रयताक म् । तदाकारं तदवच्छिन्नविषयताकम् । अज्ञानमनभिव्यक्तिम् । स्फुरति मानाश्रयः । आदिपदात् 'वटं साक्षात्करोमी' त्यादिसङ्ग्रहः । मे इति । प्रमातृविशेषनिरूपितत्वं षष्ठ्यर्थः । तस्य च स्फुरणघटके अज्ञाने अन्वयः इदमेव असत्त्वापादकाज्ञानमेव । अभानापादकत्वमसत्त्वापादकत्वं च जातिविशेषौ । प्रमात्रवच्छिनेति । विषयनिष्ठवयादि जनकत्वादसत्त्वापादकस्याप्यज्ञानस्य विषयनिष्ठत्वं वक्तुमुचितम् । अन्यथा हृदादिचित्सम्बन्धरूपविशेष्यताया वहयादिचित्सम्बन्धरूपत्रकारतावच्छिन्नत्वासम्भवात् । न हि दूरस्थयोरवच्छेद्यावच्छेदकत्वं सम्भवति । अमानापादकस्याप्यज्ञानस्य प्रमात्रवच्छिन्नत्वे प्रमाणाभावः । प्रमातृविशेषस्य तु निरूपकत्वमेवाज्ञाने सम्बन्धः । अन्यथा 'ब्रह्म मे न स्फुरती' त्यादौ का गतिः । न हि मूलाज्ञानं प्रमात्रवच्छिन्नम् । तथा च द्विविधमप्यज्ञानं विषयेणैवावच्छिन्नं न प्रमात्रेति युक्तं पश्यामः । सिद्धान्तबिन्दुटीकायामधिकं विवेचितमस्माभिः । सा - क्षादेवेति । अवच्छेदकतारूप इत्यर्थः । परम्परेति । अम्युपेत्य वादोऽयम् । आकाराख्यविषयतायास्साक्षात्सम्बन्धस्याचार्यैरेव स्थलान्तरे उक्तत्वात् ॥
॥ इति लघुचन्द्रिकायां प्रतिकर्मव्यवस्था ॥
स्वरूपेण ज्ञातले सति विशेषेणाज्ञातत्वस्येति । ज्ञातत्वे सत्यज्ञातत्वमेव प्रयोजकम् । ज्ञातस्याज्ञातत्वं च न विरुध्यते । स्वरूपविशेषरूपाभ्यां ज्ञातत्वाज्ञातत्वसम्भवादित्याशयेनोभयरूपोक्तिः । यद्यपि सद्रूपपूर्णानन्दरूपयोर्न न्यूनाधिकवृत्तिकत्वरूपस्सामान्यविशेषभावः, तथापि भ्रमे भासमानाभासमानत्वरूपो बोध्यः । तत्रा ज्ञातेति । यद्यपि स्थाणुत्वमन्यत्र ज्ञातमपि स्थाणावज्ञातमित्यज्ञातविशेषवत्त्वमक्षतं, तथापि भ्रमधर्मिणि ज्ञातविशेषस्यान्यत्राज्ञातत्वेऽपि भ्रमानुत्पत्तेस्तत्राज्ञातेत्यवश्यं वाच्यम् । तथा च गौरवमिति भावः । स्वप्रकाशत्वेन ज्ञानात् स्वप्रकाशचिद्रूपज्ञानात् । पूर्णानन्दत्वादिना चाज्ञानात् पूर्णानन्दसत्यादिस्वरूपाज्ञानाच्च । उपपन्नमिति । यद्यप्युक्तरूपद्वयमकें, तथापि तयोराविद्यकानादिभेदः स्वीक्रियते । 'पूर्णानन्दो नास्ति न भाति चिद्रपमस्ति भाती 'ति व्यवहारात । तथा च रजतादिभ्रमेषु शुक्त्या - द्यवच्छिन्नभिव जगद्भ्रमेऽनवच्छिन्नमेवाज्ञातत्वं प्रयोजकमिति भावः । वस्तुतस्तु विचारतस्तु | सुलभमिति । अज्ञातस्वरूपत्वमेव भ्रमे प्रयोजकम् । न त्वज्ञातविशेषवत्त्वम् । 'सोऽय'मित्यादिभ्रमे तथा दर्शनात् । शुक्तिरूप्यादिभ्रमे प्रयोजकस्याज्ञात
३५