SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अद्वैतमञ्जरी त्वस्य विशेषावच्छिन्नत्वेनाज्ञातविशेषवत्त्वं प्रयोजकमिति न नियमः । विशेषस्य हि शुक्तित्वादेर्जडत्वेनाज्ञातत्वाभावात् । अथापि यदि तवाज्ञातविशेषवत्त्वमपेक्ष्यते, तदा तदस्त्येव प्रकृते इति भावः । करिपतसामान्यविशेषाणां स्वरूपेण मिथ्याभूतानां घटकपालादिसामान्यधर्माणाम् । प्रवाहानादित्वादिति । तथा च कपालादिसामान्ये घटादेरध्यासेऽपि घटादिसामान्ये न कपालादेरध्यासः । किं तु स्वावयवे तस्यापि स्वावयवे इति तत्तत्सामान्यानां प्रवाहानादित्वान्नान्योन्याश्रयः । नन्वा काशादेरध्यासे सत्त्वानन्दत्वादिकमेव सामान्यधर्मः । 'सदाकाश'मित्यादिभ्र मोदयात् । तथा च सत्त्वादीनामपि संसृष्टरूपेण ब्रह्मधर्मतया कल्पितत्वात्तदध्यासे आकाशादिकमेव सामान्यमित्यन्योन्याश्रयः । तत्राह-सत्त्वेति । स. त्वानन्दत्वादिसामान्यधर्मस्यानादिसंसर्ग एव ब्रह्मणि स्वीक्रियते इति नान्योन्याश्रयशङ्का । तस्य सादित्वस्वीकारेऽप्यज्ञानविषयत्वमेव तदध्यासे सामान्यम् । नाकाशादिः । तच्चानाद्येवेति न तदध्यासे अन्यसामान्यापेक्षेति भावः । व्यक्तिभेदेनेति । वस्तुतस्तु, भ्रमे भासमानत्वमेव सामान्यत्वम् । न तु नानाव्यक्तिवृत्तित्वम्। एकमात्रवृत्तिधर्मविशिष्टेऽपि धर्मिण्यारोपात् । कथमिति । 'इदं रजत मिति भ्रमे तादृशसंस्कारस्य सादृश्यादिविशिष्टधर्मिज्ञानोबुद्धस्य यथा हेतुत्वं, तथा सदाकाश' मित्यादिभ्रमे ताशसंस्कारस्यापीति भावः । ननु, सद्रूपं नाधिष्ठानम् । अध्यसनीयानुविद्धत्वेनाप्रतीयमानत्वात्तत्राह-न हीति । नन्वध्यसनीयापेक्षया अधिकसत्ताको योऽज्ञातविशेषः, तद्वत्त्वमधिष्ठानत्वे तन्त्रम् । रूप्यादौ तथादर्शनात्तत्राह-यद्वति । न तु विशेषाज्ञानं न त्वधिष्ठानवृत्तितादृशविशेषस्याज्ञानम् । 'नायं स'इत्यादिभ्रमे शु. व्यक्तिमात्राज्ञानस्यैव हेतुत्वेन तदधिष्ठाने तादृशज्ञानस्याहेतुत्वादिति शेषः । प्रधानपदेन यदि कालान्तरे देशान्तरे वा विद्यमानमध्यस्तजातीयमुच्यते । तत्राह-अत्रा. पीति । यदि तु तादृशं सत्त्वमुच्यते, तताह-अध्यासो हीति । विपरीते भ्रमजन्यसाधारणेन संस्कारत्वेन हेतुत्वे । हेतुः प्रयोजकम् । न तु तत् न तु प्रमाघटकतया अधिष्ठानं प्रयोजकम् । शून्येति । तथा चाधिष्ठानप्रमाया हेतुत्वेन अधिष्ठानं यथा सत्यमपेक्ष्यते, तथा प्रमाजन्यसंस्कारस्य हेतुत्वेन प्रधानमपि सत्यमिति भावः । भ्रमाहेतुत्वे भ्रमाप्रयोजकत्वे । अज्ञानद्वारा अज्ञातत्वोपहितरूपेण । हेतुत्वेन उपादानत्वेन । अज्ञानकल्पितत्वेन अज्ञानप्रयुक्ततायोग्यत्वेन अस्वप्रकाशत्वेनेति यावत् । तथा च जडस्य प्रकशाप्रसक्त्या नाज्ञातत्वमिति भावः । भ्रमावाधकत्वेति । व्यावहारिकभ्रमाबाधकत्वेत्यर्थः । ननु, मिथ्याविषयकमप्युतभ्रमबाधकमस्तु । तत्राह-जगतीति । विरुद्धं व्यावृत्तरूपम् । तत्त्वं बाध्यापेक्षया For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy