________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र० प्रतिकूलतर्कनिराकरणम् ] लघुचन्द्रिका ।
२७६ ऽधिकसत्ताकम् । उपदर्शयता विषयी कुर्वता । एवकारः शेषः । ननु, आचार्यरेव द्वितीयमिथ्यात्वविवेचने स्वाप्ननिषेधस्य स्वाप्नबाधकत्वमुक्तम् । सत्यम् । तत्र बाधकत्वं भ्रमत्वज्ञापकत्वम् । न तूच्छेदकत्वमित्यस्माभिर्व्याख्यातम् ! तथा च स्वाप्नस्य गजाधभावस्य स्वाप्नगजादिसमसत्ताकत्वेन अन्यूनसत्ताकाभावघटितं मिथ्यात्वं ज्ञापयन्निषेधो बाधक इत्युच्यत इति बोध्यम् । न चेति। तत्कल्पीयज्ञानजन्यसंस्कारस्य पूर्वमभावात् इति शेषः । पानादाविति । इष्टसाधनत्वस्मृत्यसम्भवेनेति शेषः । कार्यानुमेयेत्यादि । यतः कार्यलिङ्गैकगम्यः संस्कारः, अतः कार्यात् पूर्व तदप्र. तीतेः तत्सत्त्वे मानाभावादित्यर्थः । प्रतीत्यभावेऽपीति । ननु, संस्कारकल्पनागौरवात् अध्यस्तत्वमाकाशादेस्त्यक्तुं युक्तमिति चेन्न । तत्तज्ज्ञाननाशस्यैव संस्कारत्वेन त्वयापि संस्कारस्य पूर्वानुभूतविषयकस्यावश्यं वाच्यत्वेनागौरवात् । प्रपञ्चान्तरविषयतति । उक्तनिषेधप्रतियोगित्वेन प्रपञ्चान्तरविषयतेत्यर्थः । निरुपाधिकेड पीति । न च 'पीतरशङ्ख' इत्यादौ चक्षुषा सहितस्य पित्तद्रव्यस्य शङ्खादौ संसर्गात्तदीयपीतत्वमनुभूयमानमारोप्यत इति जपासंयुक्तस्फटिकादौ लौहित्यादिधीवदौपाधिकाध्यास एवायमिति वाच्यम् । पित्तद्रव्यस्य शङ्खादिसंयोगे पुरुषान्तरेण तस्य तद्गतपीतरूपस्य वा ग्रहणापत्तेः पुरुषान्तरं प्रति तदयोग्यत्वकल्पने गौरवापत्तेश्च । चक्षुर्गोलकस्थपित्तद्रव्यस्यैव स्मर्यमाणपीतिमभ्रमजनकत्वादादिपदग्राह्ये रजतपात्रादौ स्थिते जलादौ नैल्यभ्रमे सोपाधिकत्वस्य शङ्कितुमशक्यत्वात् । न हि तत्र स्वसमीपवर्तिनि स्वधर्मसंक्रामकस्योपाधिपदार्थस्य सम्भवोऽस्ति । प्रागवगतमिति । प्रधानसम्बन्धितया यत् कदाचिदवगतं, तस्यैव सादृश्यस्य शुक्लत्वादेानस्य सम्बन्धिज्ञानविधया प्रधानसंस्कारोबोधद्वारा भ्रमहेतुत्वात् प्रागवगतत्वमावश्यकम् । अध्याससमये अध्यासोत्पत्त्यव्यवहितपूर्वक्षणे । प्रागेव अध्यासोत्पत्त्यव्यवहितपूर्वक्षण एव । संशायकत्वादिति। प्रधानस्य लौहित्यादिमत्तया अधिष्ठानस्य च स्फटिकादेलौंहित्याद्यभाववत्तया ज्ञानात्तदुभयवृत्तित्वेन द्रव्यत्वादिज्ञानस्य साधारणधर्मवद्धर्मिज्ञानविधया संशयहेतुत्वादित्यर्थः। तथा च संशयसामग्यां सत्यां न निश्चयरूपो भ्रम इति भावः। सादृश्यं सादृश्यादिधीः । उद्बोधेन शक्त्युत्पादनेन । अथ वा न स्वतो भ्रमकारणमिति । सादृश्यधीत्वेन भ्रममात्रे न कारणमित्यर्थः । संस्कारोबोधनेन संस्कारसहकारित्वेन । सामग्रीति । क्वाचित्कभ्रमसामग्रीत्यर्थः । एवं च संस्कारसहकारिविशेषत्वमेवोद्बोधकत्वमिति स्वीकारेऽपि न क्षतिः । प्रणिधानसूत्र इ. ति । गौतमीयन्यायपञ्चाध्यायीतृतीयाध्यायद्वितीयाह्निकस्थे 'प्रणिधाननिबन्धाभ्यासलिङ्गलक्षणसादृश्यपरिग्रहाश्रयाश्रितसम्बन्धानन्तर्यवियोगैककार्यविरोधातिशयप्राप्ति
For Private and Personal Use Only