________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
प्र०दे असतस्साधकत्वम्]
लघुचन्द्रिका । .
२२७
चारीति भावः । बाधेनेति । सहार्थे तृतीया । ज्ञानादत्यन्तभेदस्यार्थेषूपलम्भात् ज्ञानज्ञेययोरभेदानुमानं बाधितार्थकं बाध्यत्वादुगाधियुक्तं चेत्यर्थः । उपायोत । यथा प्रभा रूपग्रहे उपायभूता तद्विषयीभूतापि न रूपं, तथा ज्ञाने उपायभूतो विषयो ज्ञानग्रहे विषयीभूतोऽपि न ज्ञानम् । विषयोपरागेणैव ज्ञानग्रहाद्विषयस्य ज्ञानोपायता । अथ वा उपायो ज्ञानग्रहस्य विषयग्राहकतानियामकं ज्ञानविषयत्वम्। तस्य भावेन विषये विद्यमानत्वेन । सर्वथापि सहोपलम्भो नोक्तसाध्यसाधक इति भा. वः । ननु, ज्ञानेनैव सर्वव्यवहारोपपत्तेः ज्ञानान्यविषयकल्पने गौरवम् । तत्राह-सारूप्येत्यादि । अपिशब्दः काकाक्षिवदुभयत्रान्वेति । स्थूलार्थभङ्गेऽपि सारूप्यतो ज्ञानतदर्थयोरत्यन्तभेदः सौत्रान्तिकस्येव तव योगाचारस्यापि आवश्यकत्वेन तुल्यः । सौत्रान्तिको ह्यवयविखण्डनादियुक्तिभिस्स्थूलार्थं खण्डयित्वा परमाणुसमूहमेव ज्ञानादत्यन्तभिन्नमर्थमङ्गीकृतवान् । अन्यथा ज्ञाने विषयस्य प्रतिबिम्बरूपसारूप्यानुपपत्तेः। त्वयापि स्थूलार्थ खण्डयता तथाङ्गीकार्यम् । अन्यथा विषयात्मकरूपस्य तादात्म्यरूपं यत्त्वदभ्युपगतं ज्ञाने विषयस्य सारूप्यं, तदनुपपत्तेः । ज्ञानविषययोरभेदे तादात्म्यानुपपत्तेः । न हि ज्ञानं ज्ञानमिति तादात्म्यधीस्सम्भवति । न च तयोः कल्पितभेदस्वीकारेण नोक्तानुपपत्तिरिति वाच्यम् । भेदस्येव तादात्म्यस्यापि कल्पितत्वस्यौचित्यात् । अन्यथा ज्ञानस्योत्पत्तिविनाशकल्पने गौरवात् । संसर्गखण्डनयुक्त्या ज्ञाने नीलादितादात्म्यस्य बाधात् । न चौपनिषदानां मते विषयाणामुत्पत्तिनाशकल्पनेन मया साम्यमिति वाच्यम् । अनादिविषयकज्ञानस्थले तव ज्ञानोत्पत्यादिगौरवात् । तेषां विषयस्याप्युत्पत्त्यकल्पनात् । बाध्यत्वाद्युपाधीति । स्वनधी ध्येति तत्र साध्यव्यापकता । जाग्रद्धीरबाध्येति तत्र साधनाव्यापकतेति भावः । ननु, मिथ्यात्वानुमाने मानसिद्धस्यैव पक्षत्वामिग्राहकमानबाधः । तत्राहधर्माति । धमिग्राहकमाने व्यावहारिकप्रामाण्यमुपजीव्यम् । तच्च मिथ्यात्वानुमानेन नापसार्यते। यच्चापसार्यते, तत् तात्त्विकमामाण्यं नोपजीव्यमित्यादि पूर्वमुक्तम् ॥
इति लघुचन्द्रिकायां विश्वमिथ्यात्वे आगमादिबाधस्योद्धारः ।। परस्परेति । मिथ्यात्वसाधकानां प्रतिज्ञादीनामनुमितेश्च मिथो व्याघातः । प्रतिज्ञया मिथ्यात्वस्य हेतुवाक्यादिना हेतुत्वादेश्चाबाध्यत्वलाभः । प्रतिज्ञाद्यधीनया मिथ्यात्वानुमित्या च मिथ्यात्वहेतुत्वादिदृश्यमात्रस्य मिथ्यात्वरूपबाध्यत्वलाभइति व्याघातात् । एवं पक्षादौ तद्विशेषणीभूतधर्माणामभावस्य मिथ्यात्वानुमित्यादिविषयीकरणादाश्रयासिद्ध्यादिकम् । तथा चोक्तव्याघातादिमत्त्वेन मिथ्यात्वसाधकं दुर्बलमिति भावः । प्रतिज्ञादिना मिथ्यात्वादेरबाध्यत्वं लभ्यत इति यदुक्तं,
For Private and Personal Use Only