________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
२२६
www.kobatirth.org अद्वैतमञ्जरी ।
त्यादि । अनाश्रित्य बाधकधीविषयत्वेनास्वीकृत्य । यत् यद्वाधकधीविषयः, तत् तदपेक्षया अधिकसत्ताकम् । अन्यथा समबलत्वेन बाध्यवाधकत्वव्यवस्थानुपपत्तेः । अतस्तात्त्विकस्य धीरेव व्यावहारिकस्य बाधिकेति भावः । अथ वा अनाश्रित्य साक्षित्वेनास्वीकृत्य । साक्षिणो बाधे तस्य साक्षी अन्यो वाच्यः तस्याप्यन्य इत्यनवस्था । साक्ष्यन्तरास्वीकारे निस्साक्षिकबाधानुपपत्तिः । तदुक्तम्- 'अप्रत्यक्षप्रकाशस्य नार्थदृष्टिः प्रसिध्यति ।' इति। अप्रकाशमानप्रकाशेन नार्थसिद्धिरित्यर्थः । उपाधीति। बाध्यत्वादेः स्वप्नधर्मस्य ब्रह्मादावभावप्रदर्शनेन स्वप्नादौ निश्चितसाध्यव्यापकत्वं ब्रहणि साधनाव्यापकत्वं च दर्शितमिति भावः । विमता नीलाद्यनुभवरूपा धीः । ज्ञानव्यतिरिक्तालम्बना । न स्वात्यन्तविलक्षणविषयिका नानुभवत्वशून्यविषयिकेति यावत् । खस्वरूपसमानसत्ताकविषयतादात्म्ययुक्तेति वार्थः । विज्ञानवादिना हि ज्ञानतद्विषयप्रमात्रादीनामत्यन्ताभेदेऽपि कल्पितभेदेन प्रमाणप्रमातृप्रमेयप्रमितिभेद इत्युच्यते । अनीलादिव्यावृत्युपहितं ज्ञानं प्रमेयम् । तत्प्रकाशनोपहितं प्रमितिः । तब्यक्त्युपहितं प्रमाणम् । तदाश्रयत्वोपहितं प्रमातृ । उक्तं च भामतीकल्पतर्वादावेवम् । तथा च ज्ञानविषयतत्तादात्म्यानामेकजातीयसत्ता विज्ञानवादे स्वीक्रियते । औपनिषदमते नीलादितादात्म्यमनुभवनिष्ठमपि नानुभवसमानसत्ताकमिति न सिद्धसाधनम् । धीत्वात् अनुभवत्वात् । स्वप्नधीवत् अनुभवविषयकस्वाप्नधीवत् । औपनिषदमते शुद्धस्यानुभवस्य स्वाप्ने अवच्छिन्नानुभवे विषयतारूपतादात्म्यसत्त्वान्न साध्यवैकल्यम् । न चोक्तानुभवविषयस्य जडस्वानुभवत्वशून्यत्वात् बाध इति विज्ञानमात्रविषयके अननुभवाविषयकत्वसत्त्वात् सिद्धसाधनं तदवस्थमिति वाच्यम् । तवानुभवाविषयकत्वावच्छेदेनानुभवाविषयकत्वासत्त्वात् औपनिषदं प्रत्यनुभवत्वाश्रयविषयकत्वस्यैव साध्यत्वाद्वा । नीलादिरूपो योऽननुभवस्तद्विषयकत्वावच्छेदेनानुभवविषयकत्वस्यास्तिकैरस्वीकारान्न सिद्धसाधनम् । योगाचारेण तु, एकव्यक्तेरेवानुभवत्वनीलत्वादि
खीकारात् नीलत्वाद्याश्रयविषयकत्वावच्छेदेनैवानुभवविषयकत्वं स्वीक्रियत इति न बाधः । एवं नीलाद्यनुभवः स्वसमसत्ताकनीलस्वादिसंसर्गयुक्तः । अनुभवत्वात् । यो यद्विषयकानुभवः सः तवृत्त्यसाधारणधर्मस्य स्वसमानसत्ताकसंसर्गवान् । यथाऽनुभवविषयकानुभवोऽनुभवत्वस्य स्वसमसत्ताकसंसर्गवानिति सामान्यतो व्याप्तिः । बुध्यार्थस्य सहेक्षणादित्यादेस्तर्कप्रदर्शनपरत्वमाह-न हीत्यादि । ननु, तुच्छस्य ज्ञानत्वशून्यस्यापि ज्ञानविषयत्वाव्यभिचारः । तत्राह-न ज्ञानातिरिक्तं सदिति। ज्ञानत्वशून्यं न सत् । न तुच्छविलक्षणमित्यर्थः । तथा च तुच्छविलक्षणविषयकज्ञानत्वमेवानुभवत्वम् । तुच्छज्ञानं तु विकल्पः । नानुभव इति नानुभवत्वं व्यभि
For Private and Personal Use Only