________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे आगमबाधोद्धारः]
लघुचन्द्रिका ।
शून्यवादानुपपत्तिः । बाध्यान्यूनसत्ताकविषयकत्वस्यैव बाधकत्वे प्रयोजकत्वमिति पक्षे च साक्षिणो वाधानुपपत्त्या सेति भावः । नन्वद्वैतश्रुतेः प्राबल्येऽपि कर्मवाक्यवत् व्यावहारिकप्रामाण्यमस्तु । तत्राह-वैदिकतात्पर्येति । वेदमहातात्पर्येत्यर्थः । तथात्वे तात्त्विकत्वे । नन्वेवं विश्वसत्वेऽपि तात्त्विकत्वमस्तु । तच्छुतेरुपपत्तिरूपतात्पर्यलिङ्गसद्भावात् । 'आपश्च न प्रमिणन्ती'ति प्रामाणिकत्वं तन्न मोघमित्यर्थक्रियाकारित्वं चोपपत्तिर्हि वाक्यशेषे तत्राप्यस्ति । तत्राह-सत्त्वश्रुतीति । अन्यपरत्वात् स्तुतिपरत्वात् । मन्मते ब्रह्ममात्रपरमतात्पर्यकत्वात् परमते स्तुतिद्वारा वादिविप्रतिपत्तिनिरासद्वारा वा प्रवृत्तिनिवृत्तिपरमतात्पर्यकत्वात् चकारान्मानान्तरप्राप्तिविरोधाभ्यां विश्वसत्त्वे न तात्पर्यम् । तद्विरुद्धति । प्रत्यक्षतदनुवादादिश्रुतिविरुद्धेत्यर्थः। प्रत्यक्षमाप्तानुवादिसत्त्वश्रुतीति । प्रत्यक्षं च तत्प्राप्तानुवादिसत्त्वश्रुतिश्वेत्युभयेत्यर्थः । प्रत्यक्षापेक्षया बलवत्त्वमागमत्वादिनोक्तश्रुत्यपेक्षयाप्युक्तं, तथापि दूषणान्तरनिराचिकीर्षया श्रुत्यपेक्षया पुनराह-प्राप्तेति । अतत्परा स्वार्थपरत्वशून्या विश्वसत्त्वादिश्रुतिः । गुणवादः स्वार्थपरश्रुतिशेषस्वार्थबोधहेतुः । 'डिति चेतीति । इन्लक्षणगुणवृद्ध्योनिषेधोऽयम् । 'किति चेति विहिता वृद्धिस्तु नेग्लक्षणा । इग्लक्षणत्वं हि इक्पदमुच्चार्य विहितत्वम् । तथा च भिन्नविषयत्वादत्र सामान्यविशेपन्यायोक्तिः परस्य भ्रान्त्यैवेति बोध्यम् । सावकाशखेत्यादि । सावकाशत्वादिकं बलवैपरीत्यं निरवकाशत्वादिकं वलमिति व्युत्क्रमेणान्वयः । वादिनः वादिनोऽपि । तत्प्रतिपादकति । जगतः सदसदन्यत्वपरेत्यर्थः । यतः अनीश्वरम् ईश्वरोपादानशून्यं अतोऽसत्यं सत्योपादानशून्यम् । अतश्च बाधावधिरूपप्रतिष्ठाशून्यमिति ये माध्यमिका वदन्ति, तन्निन्दया सत्योपादानकं सत्यज्ञानबाध्यं चेत्युक्तस्मृतावुक्तम् । शास्त्रदर्पणोक्तामधिकरणरचनामाह-~-तथा हीत्यादि । वदतः प्रतिपादयतः । समन्वयस्य प्रथमाध्यायस्य । तकपीज्यत्वात् तर्कविरुद्धरूपात् । तथा हि-न सत्। बा. धयोग्यत्वात् । नासत् । कालसम्बन्धात् । न सदसत् । विरोधात् । न चानुभयतत्त्वकं तात्त्विकत्वेन सदसद्भेदयोरभाववत् । ताभ्यां निर्वचनासम्भवात् । विमतं सत्त्वेन प्रतीत्यर्हम् । तेन तुच्छे न बाधासिद्धी । चरमसाध्ययोस्तु विषयत्वेनैव पक्षता। तुच्छेऽपि हेतुसाध्यसत्त्वात् । न शून्यत्वमिति । ब्रह्म न बाध्यम् । बाधायोग्यत्वात् । इत्यत्र तात्पर्यम् । निरवधित्वेति । बाध्याधिकसत्ताकवस्त्वविषयकत्वेत्यर्थः । बाधित इत्यादि । वस्तूनामपह्नवो बाधः । मानर्बाधितः । मानानामबाधितविषयकत्वरूपप्रामाण्यस्यौत्सर्गिकत्वात् मानविषये बाधासम्भव इति भावः । ननु, बाधकप्रमाणवलाद्वस्तुग्राहकमानानां व्यावहारिकमानतास्तु । तत्राह-व्यावहारिके
For Private and Personal Use Only