________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२४
अद्वैतमञ्जरी ।
मानादिना प्राप्तम् । न हि प्रमाया भ्रमस्य च ज्ञानस्योत्पत्तिकाले तत्र सद्विषयकत्वरूपं प्रामाण्यमावयोमते तद्राहकेण न गृह्यते । स्वतः प्रामाण्याभ्युपगमात् । तथा च धीविषयस्य सर्वस्य सत्त्वप्राप्त्या तदनुवादिकैव विश्वसत्त्वश्रुतिः सममिव्याहतविध्यपेक्षितस्तुतिमात्रपरेति भावः । अत एव निषेधवाक्यशेषत्वादेव । धर्मादीति । यद्यपि धर्मादेरप्यनुमानादिना सत्त्वं प्राप्तं, तथापि न प्राप्तमिति परेणोक्तत्वात् तदनुसृत्यैवमुक्तम् । अथवा ननु, स्वतः प्रामाण्यादुक्तरीत्या विश्वसत्त्वं ज्ञानग्राहकेण प्राप्तं यत्, तत् व्यावहारिकमेव । श्रुत्या तु तात्त्विकं तत् प्रतिपाद्यते । तथा च सा नानुवादः । तत्राह----अत एवेत्यादि। धर्मादीत्यादिपदेन प्रत्यक्षप्राप्तघटादेस्सङ्ग्रहः । एवकारोऽपिकारश्च स्थानव्यत्ययेन योज्यः । तथा च प्रत्यक्षप्राप्तघटादेस्तदन्यधर्मादेश्वोपस्थापनद्वारा निषेधवाक्यशेषत्वादपि वाक्यसाफल्यं भवत्येवेत्यर्थः । तथा च व्यावहारिकसत्त्वोपस्थापनेनापि साफल्यसम्भवे तात्त्विकसत्त्वतात्पर्यकल्पनं व्यर्थम् । अन्यथा 'यजमानः प्रस्तर'इत्यादेरपि तात्त्विकाभेदपरत्वापत्तेः । मानान्तरसिद्धार्थानुवादेन वाक्यस्यान्यशेषत्वेनोपपत्तावद्वैत श्रुतिबाधो न युक्त इति तु सममिति भावः । 'विश्वं सत्यमित्या दिशुतोर्मथ्यात्वश्रुत्यबाधकत्वे स्थिते मिथ्यात्वानुमानाबाधकत्वमपीत्याह-अत इति । दशाविशेषे परलोकानङ्गीकर्तृवादिविप्रतिपत्त्या स्वर्गादौ सत्यतासन्देहदशायां यद्यपि स्वप्नादिविषयमिव मिथ्यात्वसत्यत्वाभ्यां सन्दिग्धमपि स्वर्गादिकमुद्दिश्य प्रवृत्त्यादिकं सम्भवत्येव, तथापि तत् . 'अलीकं न वे'ति सन्देहे तदसम्भवादलीकवैलक्षण्यज्ञानाय श्रुत्या सत्तादात्म्यरूपं सत्त्वमुच्यते । तच्च व्यावहारिकम् । व्यवहारकाले प्रपञ्चस्याबाधादिति भावः । प्रयोजनवत्त्वादिति । तथा च स्वार्थानुवादरूपत्वेऽपि समुदायद्वित्वसम्पादनरूपप्रयोजनवत्त्वाद्विद्वद्वाक्यं यथा स्वार्थपरं, तथोक्तप्रयोजनसत्त्वाद्विश्वसत्त्ववाक्यमिति भावः । श्रुतिविरोधादिति । व्यावहारिकसत्त्वपरत्वे सम्भवति मानान्तरासिद्धाबाध्यत्वपरत्वकल्पने गौरवादित्यपि बोध्यम् । दृढभ्रान्तीति । श्रुतिजन्यभ्रान्तेर्मानान्तरप्राप्तार्थकत्वेन संवादात् भ्रमत्वज्ञानाविषयत्वरूपं दृढत्वमित्यर्थः । अत्यन्तापामाण्येति । उक्तदृढभ्रान्तिजनकत्वव्यवहारेत्यर्थः । प्रतिपादनवत् प्रतिपादनस्य 'यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति । समृद्धिं तत्र जानीया'दिति श्रुतेः पश्यतीत्यन्तभागस्येव । मिथ्यात्वश्रुतेः एकमेवाद्वितीयमित्यादिश्रुतेः । समानविभक्तिकनानानामरूपत्वेनेति शेषः । अग्रहीत्वा चेति । चकारात् ब्रह्मणस्सा. क्षित्वेन बाधानुपपत्तेरिति हेत्वन्तरस्य समुच्चयः । तथा च बाध्याधिकसत्ताकविषयकत्वं बाधकत्वे प्रयोजकमिति पक्षे तात्त्विकविषयकज्ञानस्यैव वाधकत्वात्
For Private and Personal Use Only