SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org लघुचन्द्रिका । प्रदे आगमवाघोद्धारः ] २२३ ति । 'भू प्राप्ता'विति स्मृतेः । एतेन निष्प्रपञ्चमुखस्य सप्रपञ्चसुखादुत्कृष्टत्वन सप्रपञ्चमुखबोधकस्य विश्वसत्त्वबोधकवाक्यस्य निष्प्रपञ्चवाक्यशेषतावर्णनेन। निरस्तमित्यत्र हेत्वन्तरमप्याह-भावेत्यादि । श्रुतेरेवेति । विश्वसत्त्वाभावबोधकत्वनेति शेषः । विश्वगतसत्त्वे सद्रूपब्रह्मसम्बन्धस्य प्राप्तत्वेन तस्यापि नेति नेती'त्यादिश्रुत्या निषेधात्तत्र विश्वसत्त्वश्रुत्यपेक्षा । विश्वसत्त्वाभावत्वप्रकारकज्ञाने विश्वसत्त्वज्ञानस्य हेतुत्वादिति भावः । न तु सत्त्वश्रुतेरिति । ननु, सत्त्वं मिथ्यात्वाभाव एव । तथा च विश्वस्मिन्मिथ्यात्वाभावबोधं प्रति विश्वविथ्यात्वबोधस्य हेतुत्वान्मिथ्यात्वबोधिकां नेतीत्यादिश्रुतिं सत्त्वश्रुतिरपेक्षत एवोत चेन्न । विश्वसत्त्वस्य दृथिवीसत्त्वजलसत्त्वादिरूपस्य निषेधं ब्रह्मणि 'नेती'त्यादिश्रुतिः वोधयतीत्यवश्यं वाच्यम् । ब्रह्माण प्राप्तस्य सर्वस्य ब्रह्मणि तया निषेधबोधनात् । तथा च तावतैव प्रपञ्चस्य मिथ्यात्वलाभेन प्रपञ्चे ब्रह्मनिष्ठात्यन्ताभावप्रतियोगित्वबोधने तस्यास्तात्पर्ये मानाभावः । न च तस्या विश्वसत्त्वाभावस्य ब्रह्मणि बोधने न तात्पर्यम् । किंतु प्रपञ्चम्य ब्रह्मणि निषेध इत्येव कि न स्यादिति वाच्यम् । विश्वसत्त्वस्यापि प्रपश्चान्तर्गतत्वेन तनिषेधे तात्पर्यस्यावश्यकत्वात् । तथा च 'नेती'त्यादिश्रुत्या विश्वसत्त्वाभाव एव बोध्यते । ब्रह्मणि न घटादेरभाव इति घटादौ ब्रह्मनिष्ठात्यन्ताभावप्रतियोगित्वाबोधकत्वेन न सा सत्त्वश्रुत्यापेक्ष्यते । ननु, त्वन्मते 'नेती'त्यादिश्रुतेर्विश्वसत्त्वाभाव एव तात्पर्य युक्तम् । मन्मते तु तस्याश्शून्यतः प्राप्तानुवादित्वस्वीकारेण सर्वमिथ्यात्वानुवादकत्वात् सत्त्वश्रुत्यपेक्षणीयत्वम् । तत्राह-अन्यथेति। 'नेती'त्यादिश्रुतेम्सत्त्वश्रुत्यपेक्षणीयत्व इत्यर्थः । नेतीत्यादिश्रुतर्विश्वसत्त्वाभावांशे सत्त्वश्रुत्यपेक्षा सत्त्वश्रुतेमिथ्यात्वाभावघटितसत्त्वांशे 'नेती' त्यादिश्रुत्यपेक्षेत्यन्योन्याश्रयः । तस्माद्विश्वसत्त्वस्य प्रत्यक्षादिना ज्ञातत्वात् सत्त्वश्रुतिरनुवादः । विश्वसत्त्वाभावस्य तु शून्यवाद्यभिज्ञं प्रति प्राप्तत्वेऽपि सर्वान् प्रत्यप्राप्तत्वेन 'नेती'त्यादिश्रुति नुवादः । ननु, सत्त्वस्यापि सत्त्वाभावाभावत्वेन तद्हेऽपि नेतीत्यादिश्रुत्यपेक्षास्तीति चेन्न । उक्तरूपेण ग्रहे तदपेक्षणेऽपि सत्यतारूपेण ग्रहे तदनपेक्षणात् । तदिदमुक्तं भावग्रहो निरपेक्षत्वात् नाभावग्रहमपेक्षत इति । प्रतियोगितावच्छेदकरूपेण आहे नाभावग्रहापेक्षेति भावः । नाग्नीषोमीयेति । रागप्राप्तनिषेधबोधकत्वेनैव 'न हिंस्यादिति वाक्योपपत्तौ तत्र शास्त्रवाधकत्वस्यविकल्पापादकस्यान्याय्यत्वादग्नीषोमीयहिंसाद्यन्यहिंसानिषेधे तत्तात्पर्यकल्पनान्न तेनाग्नीषोमीयवाक्यमपेक्ष्यत इति भावः । न्यूनेति । न्यूनविषयकस्यैवापवादकत्वम् । तदविषये उत्सर्गप्रवृत्तिसम्भवात् । समेति । अन्यूनेत्यर्थः । रहितत्वेनेति । यथा पटादेस्सत्त्वं प्रत्यक्षप्राप्तं,तथा धर्मादेरनु For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy