SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२२ अद्वैतमञ्जरी । न पृथक्त्वेन च मत्वा मच्यते इति नोक्तश्रुत्यर्थः । किं तु तत्त्वमतेः पूर्व प्रेरकत्वेन पृथक्त्वेन च उपलभ्यमानमखण्डात्मरूपं मत्वा मुच्यत इत्यर्थ इति भावेनाह-मतेरित्यादि । प्रेरकत्वादिरूपेण मत्वेत्यर्थकत्वेऽपि न क्षतिरित्याशयेनाह-सगुणेति । गुणान्तरयुक्तेत्यर्थः । एकधेत्यादि । केवलार्थकैकपदेन शुद्धब्रह्मण उक्तत्वात् तत्स्वरूपविषयरूपप्रकारो धाप्रत्ययेनोच्यते। तथा च शुद्धब्रह्मविषयकमेव ज्ञानं मोक्षहेतुः । न प्रेरकत्वादिविशिष्टस्य ज्ञानमित्यर्थः । इत्यादीत्यादिपदेन 'शिवमद्वैत चतुथं मन्यन्ते' 'सोऽयमात्मा स विज्ञेय'इत्यादिश्रुतिसङ्ग्रहः । ननु, सङ्ख्यावाचकादेकशब्दाद्धाप्रत्ययविधानात् केवलार्थकशब्दादुत्तरः सोऽसाधुरिति चेन्न । कैवल्यस्यापि गौणैकत्वरूपत्वेन गौणसङ्ख्यात्वात् । 'पशुना यजेते'त्यादौहि पश्वन्तरराहित्यरूपमेकत्वमेकवचनार्थः । अन्यथा पशुद्वयस्यापि प्रत्येकं मुख्यैकत्वसङ्ख्यासत्त्वेनैकवचनेन छागान्तरस्यानिवारणात् 'एकमेवाद्वितीय'मित्यादावेकपदेन 'येन जातानि जीवन्ती' त्यादावेकवचनेन च कैवल्यमेव बोध्यते । 'एका जातिः जातेान' मित्यादौ च न मु. ख्यैकत्वस्य बोधसम्भवः । किं तु कैवल्यस्यैव । किं च कैवल्यस्यैव सर्वत्रैकपदैकवचनप्रतिपाद्यत्वसम्भवेन न मुख्यैकत्वस्य तत्र भानम् । तथा च कैवल्यरूपैकत्वादिवाचकादेव धाप्रत्ययोऽनुशिष्टः । अत एव प्रेरकज्ञानस्य साक्षान्मोक्षाहेतुत्वादेव । जोषेति । ब्रह्मलोकावच्छिन्नप्रीतिविशेषेत्यर्थः । तथा च मत्वा प्रीतस्सन् ततस्ताहशप्रीतिसमाप्तौ । तेन मननेन । तत्त्वसाक्षात्कारद्वारा मुच्यत इत्यर्थः । तथेति । शुद्धज्ञानस्य मोक्षहेतुत्वोक्ते रित्यर्थः । उत्तरत्र 'उद्गीतमेतत्परमं तु ब्रह्म तस्मिंस्त्रयं स्वप्रतिष्ठाक्षरं च । अत्रान्तरं वेदविदो विदित्वा लीना' इत्यादिवाक्ये प्रेरितारं च मत्वामुच्यत' इति यदुक्तमेतद्गीतमात्रम् । न तु मुक्तस्साक्षात्कारणबोधकम् । परमं शुद्धं तु ब्रह्म वेदविदो विदित्वा वेदान्तवाक्यस्य तात्पर्यज्ञानद्वारा साक्षात्कृत्य । शुद्धबमणि लीना उपाधिमात्रोच्छेदेनैकीभूता योनिमुक्ता जन्महीना भवन्तीति साक्षान्मु. क्तिकारणोक्तिरित्यर्थः । कीदृशं परमम् । तत्राह-तस्मिन् परमे त्रयं स्थूला सूक्ष्मा च समष्टिरपञ्चीकृतभूतानि स्वप्रतिष्ठमनादि अक्षरमव्याकृतं चेत्येतानि सन्ति । अत्र एतेषु । अन्तर मधिष्ठानम् । श्वेताश्वतरीयोक्तवाक्यं प्रथमाध्याये द्वितीयाध्यायेऽपि तदात्मतत्त्वमित्यादिवाक्यं तादृशमित्याशयेनाह-तदात्मेति । वीतशोक इति । यदात्मतत्त्तेन तु ब्रह्मतत्त्वं दीपोपमेनेह युक्तः प्रपश्येदिति शेषः । तथा च युक्तः त्रिरुन्नतमित्यादिना पूर्वोक्तयोगविशिष्टरसन् दीपोपमेन स्वप्रकाशेन येनात्मनस्तत्त्वेनानारोपितरूपेणाभिन्नं ब्रह्मतत्त्वं प्रपश्येत्, तत्तु तदखण्डमेव प्रकर्षेण श्रवणाद्युत्तरं सम्यग्वेदान्तवाक्यनेक्षित्वा एकः द्वितीयशून्यः । कृतार्थो भवते तदेव ब्रह्म प्राप्नो For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy