________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे आगमबाधोद्धारः]
लघुचन्द्रिका ।
२२१
श्यकत्वात् सप्रपपञ्चश्रुतेरतथात्वेन तदपेक्षया निष्प्रपञ्चश्रुतेर्बलवत्त्वात्तदुपकारकानुवादत्वं तस्यास्स्वीक्रियत इति भावः । निष्प्रपञ्चता सुषुप्तिकालीना न पुरुपार्थः न स्वतःप्रयोजनम् । तथा च सुषुप्तौ सुखस्य भासमानस्याभावात्पुरुषार्थ एव न । जाग्रदाद्यपेक्षयोत्कर्षस्तु दूरापेत इति भावः । सुषुप्तावपीत्यपिशब्दो हेतौ । तेन न च वाच्यमित्यत्र हेतुलाभः । स्पुरणेति । अनावृतचिदित्यर्थः । तदानीं माभूवमिति नेत्याकारेच्छानुदयेन साक्षिसुखमावृतमिति भावः । मुग्धे मूर्छावस्थरूपे मूढे । आवृत इति यावत् । साक्षिणीति शेषः । अर्धसम्पत्तिः सुषुप्तेरर्धम्। ज्ञानेन्द्रियाणामुपरमेऽपि कर्मेन्द्रियाणामनुपरमेण सम्पूर्णसुषुप्त्यभावात् । कर्मेन्द्रियानुपरमश्च हस्तादिचेष्टापरिशेषात् इति व्याससूत्रार्थः । कालीनेति । कालीनत्वेन श्रुतिबोधितेत्यर्थः । निष्पपञ्चतायामिति । प्रमितेनेति शेषः । 'सुषुप्तिकाले सकले विलीने तमोऽभिभूतस्सुखरूपमेति' । 'आनन्दभुक्चेतोमुखः प्राज्ञः' । 'पुनश्च जन्मान्तरकर्मयोगात् । ततस्तु जातं सकलं विचित्रमित्यादिश्रुतिभिस्सुषुप्तौ प्रपञ्चलयस्य तदुत्तरं प्रपञ्चोत्पत्तेश्वोक्तत्वात् । 'सुखमहमस्खाप्समिति सुषुप्त्युत्तरस्मृतेश्च सुषुप्तौ संस्काराविद्याद्यन्यप्रपञ्चशून्यत्वरूपा निष्प्रपञ्चता प्रमितेति भावः । निप्प्रपञ्चसुखं मासमानं सुषुप्तौ साधयित्वा तस्य जाग्रदादिसुखाद्युत्कर्षे मानमाहतथा चेति । द्वितीयात् आनात्मज्ञानात् । भयं 'दुःखसाधनमिदमिति धीप्रयुक्तो वृत्तिविशेषः । तथा चानात्ममात्रस्य दुःखसाधनत्वेन लोकानामनुभूयमानत्वात् तस्य च श्रुत्यानुवादाजाप्रदादिकाले च दुःखसाधनानां सुषप्तिकालीनाज्ञानाद्यपेक्षया बाहुल्यात् सुषुप्तिसुखं जाग्रदादिसुखापेक्षया अर्थादुत्कृष्टमिति भावः । सप्रपञ्चता जाअत्स्वप्नसुखम् । पुरुषार्थः सुषुप्तिसुखतुल्यपुरुषार्थः । दुःखसाधनत्वेन दुःखोपधायकक्रियाकूटविशिष्टत्वेन विषयाप्राप्त्यादिमूलककालान्तरीयदुःखप्रयोजकरागजनकानुभवविषयत्वेन च। पुरुषार्थत्वायोगात् सुषुप्तिमुखतुल्यपुरुषार्थत्वायोगात् । अवि
कीति । येषां विवेकाभावेन जाग्रत्स्वप्नसुखे उक्तदुःखसाधनत्वाग्रहः' तेषां तत्र द्वेषाभावादिच्छायां सत्यां विषयाप्राप्तेरेकाकित्वे तयोरभावः । तदनुवादिका चोक्तश्रुतिः । न तु तावता सौषुप्तसुखतुल्यता तस्येति भावः । सप्रपञ्चता सप्रपञ्चजाअदादिमुखम् । पुरुषार्थः सौषुप्तसुखादुत्कृष्टपुरुषार्थः । यथा निष्प्रपञ्चसुखरूपब्रह्मसाक्षात्कारो मुक्तिसाधनं त्वयोच्यते, तथा प्रेरकत्वादिप्रपञ्चयुक्तब्रह्मसाक्षात्कारो मन्मते मुक्तिसाधनम् । तथा च स्त्रीपुत्रादिद्वितीयज्ञानस्यैव दुःखहेतुत्वं द्वितीयादित्यादिश्रुत्या अनूदितम् । न त्वनात्मधीमात्रस्य । तथा च प्रेरकत्वादिविशिष्टेश्वरादिसाधारणसप्रपञ्चवाक्यमात्रं कथं निष्प्रपञ्चवाक्योपकारकमिति भावः । प्रेरकत्वे
For Private and Personal Use Only