________________
Shri Mahavir Jain Aradhana Kendra
२२०
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
भावः । सतीति । रागमूलप्रत्यक्षादिनेवोक्तवाक्येनापि सा सम्भवतीति भावः । यद्यपि स्तुत्यर्थकत्वमपि सम्भवति, तथापि तस्य पूर्वमेवोचत्वादत्र विधानार्थानुवादत्वपक्षस्य परेणाशङ्कितत्वात्तदेवोक्तम् । ननु, सत्यत्वासत्यत्वयोरेकत्रासम्भवेऽपि क्वचिद्दृश्ये सत्यत्वं क्वचिच्चासत्यत्वं बोध्यताम् । तत्राह — षोडशीत्यादि । अलौकिकस्य प्रत्यक्षाद्यविषयस्य । आपश्च न प्रमिणन्ति व्यापनशीला देवा अपि यथार्थतया जानन्तीति तदन्यपरत्वस्य तस्योक्तवाक्यस्य स्तुतिपरताया उक्तत्वात् । न प्रमिणन्तीति योजनया न हिंसन्तीत्यर्थधीद्वारा स्तुतिपरत्वस्योक्तत्वादित्यर्थः । अनुवादलिङ्गति । यच्छब्दरूपलिङ्गेत्यर्थः । कल्पनादिति । यच्छन्दादिलिङ्गरहिते विश्वसत्वानुवादे यच्छन्दादिरूपलिङ्गस्य कल्पनादित्यर्थः । सर्वशाखा प्रत्ययन्यायेन यच्छब्दादिकमुपसंह्रियते । वस्तुतस्तु, 'न तौ पशौ करोतीत्यादेः निषेधार्थानुवादत्वेsपि यच्छब्दाद्यभावात् तादृशानुवादत्वं यच्छब्दादिकं विनापि कल्प्यते इति भावः । अनुसारेण बलवत्त्वानुरोधेन । एकवाक्यताम् उक्तवाक्यैकवाक्यताम् । मैत्रेयीब्राह्मणे -' इदं सर्वं यदयमात्मे' त्युक्त्वा 'यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्ये' दित्याद्युक्तम् । तत्रैवकारेणात्मान्यसर्व दृश्यनिषेधात् केन कमित्याक्षेपार्थक किंशब्देनापि तथा निषेधात्तदर्थमिदं सर्वमित्यादिवाक्यं प्रतियोगिप्रसञ्जकतयोपयुज्यत इति भावः । ' इदं सर्वं यदय' मित्यादौ बाधायां सामानाधिकरण्यस्वीकारे 'इदं सर्वं य' दित्यस्यैव दृश्याभाववद्बोधकत्वेन निषेधरूपत्वान्नानुवादत्वमिति । इत्यादीनीत्युक्तः स यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवत्यसङ्गो हायं पुरुष' इत्यादौ पश्यत्याद्यन्तवाक्यानां निषेधार्थानुवादत्वं लभ्यते । निष्प्रपञ्चवाक्यस्य बलवत्त्वे प्रयोजकमाह - निष्प्रपञ्श्चतायाः पुरुषार्थत्वदर्शनादिति । जाग्रत्स्वप्नसुखापेक्षया जाग्रत्स्वप्नरूपप्रपञ्चशून्यसौषुप्तसुखस्य पुरुषैरुत्कृष्टत्वेन व्यवहारदर्शनादित्यर्थः । सुषुप्तौ भासमानं सुखं यद्यपि जाग्रत्स्यनयोरपि भाति 'मा भूवमिति न किं तु भूयास 'मित्यस्या अन्येच्छानधीनेच्छायास्तयोरात्मन्युत्पत्तेः सुखभिन्ने तस्या असम्भवात्, तथापि 'कष्टं कर्मे 'ति लोकानुभवात् जाग्रत्स्वप्नयोः स्थूलसूक्ष्मदेहक्रियाभिर्दुः खोत्पत्तेर्विषयसुखानामपि तादृशदुःखमिश्रितत्वात् दुःखान्तरहेतुत्वाच्च जाग्रदादिसुखापेक्षया सुषुप्तिसुखमुत्कृष्टम् । लोकेत्वविवेकात् तथा न ज्ञायते । तदुक्तमाचार्यैः कष्टं कर्मेत्यनुभवो लोकानामिति । उक्तं च वार्त्तिकामृतेन तदस्ति सुखं लोके यन्न दुःखकरं भवेत् । विषयप्राप्तिवि - च्छेदक्षयेष्वसुखकृद्यत इति । तथा च जाग्रदादिसुखात् सुषुप्तिसुखमिव सुखमात्रात् निष्प्रपञ्चं मुक्तिसुखसुत्कृष्टम् । अतस्तस्य साक्षात्कारप्रयोजके निष्प्रपञ्चवाक्यार्थज्ञाने परमप्रयोजनवत्त्वात् अज्ञातविषयकत्वाच्च निष्प्रपञ्चश्रुतस्तात्पर्यस्याव
1
For Private and Personal Use Only