________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे आगमबाधोद्धारः]
लघुचन्द्रिका ।
२१९
नुवादेन विद्वद्वाक्यसिद्धसमुदाये द्वित्वसम्पादनस्य द्वित्वबोधस्य फलवाक्याधीनस्य शक्यत्वादिति । वस्तुतस्तु तत्रापि न स्वार्थपरत्वम् । तद्धि खार्थप्रमापकत्वम् । प्र. मा च विद्वद्वाक्येन स्वार्थत्रिके न जन्यते। किं तु तद्बोधोत्तरं समुदायद्वयप्रमा मानान्तरेणैव । तथा च 'धूमोऽस्तीति वाक्यस्येव परम्परया प्रमोपयोगेऽप्यनुवादकत्वमस्त्येव । किं तु तत् सप्रयोजनम् । विश्वसत्त्वानुवादकत्वं तु निष्प्रयोजनम् । वादिविप्रतिपत्तिनिरासस्तु न प्रयोजनम् । विश्वसत्त्वस्य प्रत्यक्षसिद्धत्वात् । यदि त्वन्यतोऽसिद्धप्रयोजनवती या अबाधितविषयकधीः प्रमा तज्जननानुकूलशक्तिरेव तात्पयमित्युच्यते, तदा ‘अर्थेऽनुपलब्धे तत् प्रमाण मिति जैमिन्युक्तावनुपलब्धपदस्य लाक्षणिकत्वापत्तिरिति भावः । एतदभिप्रायं सप्रयोजनानुवादाभिप्रायम् । याथार्थ्य अबाधितार्थकत्वम् । यथाशब्दस्य सत्यार्थकत्वात् । सः शब्दार्थः स एव शब्दप्रमेयः । मुख्यतया शब्दप्रमेय इति यावत् । तेन तात्पर्याविषयस्यापि देवताविग्रहादेर्वाचस्पतिमते शब्दप्रमेयत्वेऽपि न दोषः । न तत्रेति । येन ज्ञानेन यस्यार्थस्य सिद्धिः विपरीतज्ञानानुत्पत्तियोग्यत्वरूपा, तत्रार्थे तत् ज्ञानं प्रमा । उक्तयोग्यत्वं च अज्ञाननिवृत्तिरूपम् । तच्चाप्राप्त एवार्थे ज्ञानाधीनम् । न प्राप्तार्थे । अतथाभूतस्यापि प्रमात्वे इच्छाद्वेषादेरपि प्रमात्वापत्तिरिति भावः । अयमनुवादः 'विश्वं सत्यं' 'इदं सर्वं यदयमात्मे' त्याद्यनुवादः । स्तुत्यर्थः स्तुतिधीद्वारः । इत्यादिवत् । इत्यादिविध्यर्थकजुहोतीत्यंश इव । अप्राप्तेत्यादि । विश्वं सत्यमिति देवा अपि न प्रमिणन्तीत्येवं निषेधस्याप्राप्तस्य प्राप्त्यर्थत्वादित्यर्थः । तथा चान्यविधानायैवायमनुवादः । अप्राप्तप्रापणस्यैव विधानत्वादिति भावः । स्वप्नाध्याये स्वप्नफलस्याज्ञातस्य ज्ञापनपरग्रन्थे । ज्ञानेति । भ्रमेत्यर्थः । निषेध्यतया मि. थ्यात्वेनास्यानुवादस्य नेहनानेत्यादिवाक्यैकवाक्यतापन्नस्य 'इदं सर्वं यदयमात्मे त्याधनुवादस्य सर्वपदेन सर्वनाम्ना सत्यष्टथिवीत्वादिना पृथिव्यादेरनुवादान्निषेधार्थत्वसम्भवः । पूर्वोक्तमन्त्रगतस्य विश्वं सत्यमित्यस्य त विध्येकवाक्यत्वात् न नेहनानेत्यादिनिषेधार्थत्वमिति ध्येयम् । न तात्त्विकत्वमिति । विधानायानुवाद्यस्य ज्ञानमात्रमपेक्ष्यते । न तु तात्त्विकत्वमित्यर्थः । सामान्यतो दृश्यमात्रस्याधिकरणे ब. ह्मणि निषेध्यसमर्पणे ब्रह्मरुपाधिकरणनिष्टतया आकाशादिबोधने किञ्चनेति सर्वनाम्नः ब्रह्मनिष्ठाकाशत्वादिनैव बोधकत्वम् । विशिष्य 'विश्वं सत्यन्न प्रभिणन्ती' त्यादिरूपेण निषेधे विशिष्य घटाद्यधिकरणे यत्र निषेधः तत्रैव प्रतियोगिप्रसक्तेरपेक्षणात् विश्वं सत्य'मित्यादिवाक्येनैव सेति भावः । वाक्यान्तरापेक्षा वाक्यान्तरापेक्षानियमः । प्रसङ्ग इति । तत्र रागेणैव प्रतियोगिप्रसक्तौ प्रकृतेऽपि तथेति
For Private and Personal Use Only