________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२८
अद्वैतमञ्जरी
तत् प्रतिज्ञादेस्तद्वोधकत्वाद्वा, तद्बोधकत्वान्यथानुपपत्तेर्वा । नान्त्यः । व्यवहारकालाबाध्यबोधकत्वेनैव तदुपपत्तेरित्याह- मिथ्यात्वेति । नाद्य इत्याह-प्रतिक्षेति । अप्रतिपादनादिति । तद्वाचकपदाभावादिति शेषः । नन्वेवमप्याश्रयासिध्यादिकं स्थितमेव । न च मिथ्यात्वानुमितेः पूर्वमाश्रयासिच्याद्यनिश्चयात्तस्या उ. त्पत्तौ बाधकाभाव इति वाच्यम्। कार्योत्पत्तिकाले बाधबुद्ध्यभावस्यापेक्षणीयत्वेन मि थ्यात्वानुमितेः दृश्यमात्रे तदाश्रयनिष्ठात्यन्ताभावप्रतियोगित्वरूपमिथ्यात्वप्रकारिकाया उत्पत्त्यसम्भवात् । प्रतिज्ञादिजन्यबोधेन तस्याः पूर्वमप्याश्रयासियादिबोधना. चेति चेन्न । व्याहत्यभावादित्यनेनैवाश्रयासियादिकृतव्याहत्यभावस्याप्युक्तत्वात् । तथा हि-अनुमित्या प्रतिज्ञादिजन्यबोधेन वा पक्षतावच्छेदकविशिष्टे मिथ्यात्वं बोध्यते । न च तावता आश्रयासिद्ध्यादिधीः । पक्षविशेषणतावच्छेदकादिविशिष्टे पक्षादिनिष्ठात्यन्ताभावप्रतियोगित्वज्ञानस्यैवाश्रयासिझ्यादिनिश्चयत्वात् । यथा 'आकाशीयकुसुमं नीलगन्धवत् । शुक्लरसवत्त्वा'दित्यादौ कुसुमादिनिष्ठात्यन्ताभावप्रतियोगित्वस्याकाशीयत्वादौ ज्ञानस्य । पृथिवी मिथ्येत्यादिविशेषानुमानेषु तु नाश्रयासिद्ध्यादेः शङ्कापि। किं च प्रतियोगिव्यधिकरणाभावस्याश्रयासिद्ध्यादिघटकत्वान्मिथ्यात्वे च तस्याघटकत्वान्न कोऽपि दोषः । ननु, स्वतः प्रामाण्यबलात् धीमात्रस्य तद्राहकेणाबाध्यविषयकज्ञानत्वरूपं प्रामाण्यं गृह्यत इति चेन्न । त्रिकालाबाध्यत्वादिघटितप्रामाण्यस्य स्वतस्त्वासम्भवेन मिथ्यात्वेन यदज्ञातं, तद्विषयकज्ञानत्वरूपप्रामाण्यस्यैव स्वतस्त्वात् । न हि ज्ञानग्राहकेण साक्षिणा स्वासम्बद्धं कालादिकं गृह्यते । अज्ञातत्त्वं तु स्वसम्बन्धत्वात् गृह्यत एव । तद्विशेषणतया मिथ्यात्वमपि गृह्यते । तदुक्तं विवरणे । 'ज्ञाततया अज्ञाततया वा सर्व साक्षिभास्य'मिति । साधकत्वेति । सिद्धिजनकत्वेत्यर्थः । ननु, सत्यत्वरूपं सत्त्वं न साधकताघटकम् । किं तु धीविषयत्वादि । तत्राह-न तु धीति । धीमात्रं धीत्वविशिष्टम् । साधकताप्रयोजकं साधकताबटकसत्त्वरूपम् । तादृग्वुद्धीति । व्यावहारिकसत्त्वेन धीरेव तादृशीति भावः । उक्तमेतत् खण्डने । 'कथं पुनरसतः कारणत्वमवसेयम् । प्राक्सत्वनियमानभ्युपगमात् । असत्त्वस्य सर्वासत्तविशेषादिति चेन्न । इदमस्मात् प्राक् सदिति बुद्ध्या विशेषात् यादृश्या त्रिचतुरकक्ष्याबाधानवबोधे विश्रान्तया वस्तुसतानिश्चयस्ते, तादृश्यैव कारणतानिश्चयो ममापी'ति । आत्मनो गौरत्व इति । पारलौकिकफलार्थकानुष्ठानायापेक्षितेन देहात्मनोंर्भेदनिश्चयेनात्मगौरत्वादेर्व्यवहारकालबाध्यत्वात्तत्र व्यवहारकालाबाध्यसत्त्वधीर्नेति भावः । नल्यादीति । नैल्यादिसाधकताप्रसङ्गेत्यर्थः । सत्त्वमेवेत्येवकारेण पारमार्थिकसत्त्वमेव प्रयोजकमिति
For Private and Personal Use Only