________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे असतः साधकत्वम् ]
लघुचन्द्रिका ।
२२९
नियमो व्यवच्छिद्यते । न तु प्रातीतिकसत्त्वस्य प्रयोजकत्वम् । तस्याग्रे वक्ष्यमाणत्वात् । तत्त्वावेदकेत्यत्र तत्त्वं व्यवहारकालाबाध्यमबाध्यं वा । आद्ये आह-सत्वेनेति । व्यावहारिकसत्त्वनेत्यर्थः । प्रमाणेति । व्यावहारिकप्रमाणेत्यर्थः । द्वितीये आह-एकेति । मिथ्यात्वेत्यर्थः । अंशान्तरेति । मिथ्यात्वघटकस्यात्यन्ताभावस्य तात्त्विकत्वे तदंशे तत्त्वावेदकत्वम् । तस्य व्यावहारिकत्वे परमतात्पर्येण ब्रह्मांशे तदित्यर्थः । अज्ञानादिसाधक इति । अज्ञानादिघटितेनाज्ञानादिज्ञानत्वेन रूपेणाज्ञानादिविषयकेच्छाद्वेषादिकार्यजनक इत्यर्थः । यथा श्रुते त्वसङ्गतिः। अज्ञानसाधकत्वं हि अज्ञाननिश्चयत्वम् । न तु क्वचित्कार्थे जनकत्वम् । ननु, व्यावहारिकसत्त्वमेव प्रयोजकमिति यदुक्तं, तन्न युक्तम् । प्रातीतिकादपि विषयसम्बन्धात् सुखविशेषरूपकार्योत्पत्तेदृष्टत्वात् । अथालीकस्य व्यावृत्तये एवकारः । न तु प्रातीतिकस्येवि वाच्यम् । तथापि स्वाप्नयागादिना व्यावहारिकवर्गादिकं स्यात् । तत्राह
-यत्र चेत्यादि । यत्र कार्ये । साधकं कारणम् । व्यावहारिकं व्यवहारसिद्ध प्रामाणिकमिति यावत् । कारणता यत्कार्य प्रति प्रमाणसिद्धो यस्येत्यर्थः । तत्र तव्यावहारिकमिति । तस्मात्कारणात्तत्कार्योत्पत्तिः प्रामाणिकीत्यर्थः । प्रातीतिकमप्रामाणिकम् । तथैव अप्रामाणिकमेव । कारणतायां प्रमाणाभावे कार्योत्पत्तावपि स इत्यर्थः । न तु व्यावहारिकम् । न तु व्यावहारिकमेव कारणं कार्यमिति वा नियम इत्यर्थः । यादृशयोः कार्यकारणत्वं प्रामाणिकं, तादृशयोरुत्पत्तितत्प्रयोजकत्वम् । न तु व्यावहारिकत्वाद्यन्तीवेन नियम इति भावः । ननु, व्यवहारकालाबाध्यत्वस्य प्रयोजकत्वं न कारणतावच्छेदकत्वम्। तद्रूपेण कारणतायां मानाभावात् तव्याप्यरूपेणैव कार्यकारणत्वविशेषाणां स्वीकारेण निर्वाहात् । नापि कारणताव्याप्यत्वम् । प्रातीतिकस्येवालीकस्य कारणत्वाप्रतिक्षेपात् । नापि कारणताव्यापकत्वम् । प्रातीतिकस्यापि कारणत्वात् । अत एवालीकान्यत्वस्य प्रयोजकत्वमपि दुर्वचमिति चेत् । अत्रोच्यते । तुच्छवैलक्षण्यस्य कार्यप्रयोजकत्वं यत्र चेत्यादिनन्थेन लब्धम् । अलीकवैलक्षण्यं च कालसम्बन्धरु पम् । तस्य च कारणतानवच्छेदकत्वेऽपि कार्योत्पत्तिप्रयोजकत्वमस्त्येव । कार्यवदेशावच्छेदेन कार्याव्यवहितपूर्वकालसम्बन्धस्य कारणनिष्ठस्य कार्योत्पत्तिनियामकत्वात् । ननु, 'सत्यत्वं न च सामान्यं मृषार्थपरमार्थयोः । विरोधात् न हि सिमत्वं सामान्यं सिमवृक्षयो' रित्यादीनि तर्कचरणीयानि भट्टवाक्यानि ब्रह्मप्रपञ्चप्रातीतिकसाधारणं त्वदभ्युपगतं तुच्छवैलक्षण्यरूपसामान्यधर्म न सहन्ते । तत्राह-भट्टेत्यादि।व्याख्यास्यन्ते इति । परमसत्यत्वस्य मृषार्थनिष्ठतोक्तवचनेन निषिद्धा। न तु तुच्छवैलक्षण्यादेरित्यादि वक्ष्यत इत्यर्थः ।
इति लघुचन्द्रिकायां असतः साधकत्वम् ॥
For Private and Personal Use Only