________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
२३०
www.kobatirth.org अद्वैतमञ्जरी।
विंबात्मनेति । औपाधिकपरिच्छेदशून्यत्वे सति उपाध्यन्तर्गतत्वरूपेणा, रोपितधर्मेण विशिष्टत्वं प्रतिबिंबत्वम् । तादृशधर्मशून्यत्वे सति उपाधिसन्निहित बिंबत्वम् । सत्यन्तं घटाकाशे घटरूपोपाधिसमानपरिमाणे अतिव्याप्तिवारणाय । अपे क्षणीय एवेति । तथा च कारणत्वस्याभावेऽपि तदवच्छेदकत्वात् ज्ञानरूपं का. यं प्रति प्रयोजकत्वरूपं साधकत्वमिति भावः । धर्ममात्रेति । जपापुष्पधर्ममात्रेत्यर्थः । लोहितिमेति । आत्मनः कर्तृत्वादिकं दार्टान्तिकम् । पञ्चपादिकति । तथा च तन्मतमालम्ब्योक्तम्। तेन वाचस्पतिमते लौहित्यं प्रतिबिंबो धर्मारोपम्य धारोपव्याप्यत्वेऽपि धर्मप्रतिबिंबस्य न धर्मिप्रतिबिंबनियम इत्युक्तावपि न दोषः । ननु,कर्तृ. त्वादेमनोधर्मस्यात्मनि संसर्ग आरोप्यते । न तु स्वरूपम् । 'इदं रजत'मित्यादौ रजतत्वादेश्शुद्धम्यारोपे तस्य व्यावहारिकरजतादावविद्यमानस्यैवोत्पत्तेवांच्यत्वेन व्यावहारिकरजतवृत्तिरजतत्वादिप्रकारकप्रवृत्त्यादिकार्यम्य भ्रमाधीनस्यानुपपत्तेः। तथा च दृष्टान्तेऽपि लौहित्यसंसगस्थैवारोपोक्तिसम्भवात् कथं लौहित्यस्वरूपमिथ्यात्वसाधकत्वं पञ्चपादिकाया इति चेदुच्यते । संसर्गारोपमात्रेण न प्रतिबिंबत्वम्। किं त्वन्तरैकदेशावच्छिन्नसंसर्गारोपेण। लौहित्यस्य तु स्फटिके व्याप्यवृत्तित्वात् नोक्तारोप इति न प्रतिबिंबत्वम् । किं तु संसृष्टरूपेण मिथ्यात्वमिति भावः । ध्वनिसाहित्यं दै
श्रियध्वनिसाहित्यम् । नासत्वात् नारोपितत्वात् । शङ्काविति । ' विषमिदमिति भ्रमस्य भयविशेषोत्पादकस्य विशेष्येत्यर्थः । अवच्छेदकस्य उपाधेः । अवच्छिन्नस्य तदुपहितस्य । उपलक्षणत्वात् उपलक्षणत्वापातात् । अनुष्ठानेति । यद्यपि मैत्रावरुणरूपदण्डी नात्र वाक्ये विधीयते । 'मैत्रावरुणः प्रेष्यति चान्वाहे' ति वचनप्राप्तत्वात्, तथापि दण्डस्यात्रावश्यं विधिः । तस्य चोपलक्षणत्वे प्रैषानुवचने साधनतया तद्विधानेऽपि कदाचित् सत्तामात्रेण तस्य साधनत्वसम्भवेनोद्देश्यानुवचनकालव्याप्यं च तद्धारणं नानुष्ठीयेत । यद्यपि हि तस्यावलम्वनरूपदृष्टद्वारा प्रैषानुवचने साधनता, तथापि तत्पूर्वसत्तामात्रेणापि तत्सम्भवात् तत्कालसत्ता दण्डस्य न लभ्यते । विशेषणत्वस्वीकारे तु अनुवचनकर्मकभावनायां साधनतयान्वितस्य दण्डस्य विशेष्यीभूतभावनान्वयिन्यनुवचने समानकालीनत्वसम्बन्धेनान्वयादनुवचनकालीनदण्डस्य साधनतालाभः । यथा 'पक्ता दण्डी'त्यादौ पाकादौ समानकालीनतासम्बन्धेन दण्डाद्यन्वयः । वस्तुतस्तु, दण्डस्य पदार्थैकदेशत्वेन भावनायामन्वयासम्भवादेव विशेषणत्वं स्वीक्रियते । विशेषणत्वे हि दण्डिनो भावनायां साधनत्वेनान्वयात्तद्विशेषणतापन्नस्य दण्डस्यापि भावनायां साधनत्वेनान्वयसम्भवः । तत्र भावनायां दण्डिनः साधनतया प्राप्तत्वेऽपि दण्डस्याप्राप्तत्वात्तत्रैव विधिता
For Private and Personal Use Only