________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पदे असतस्साधकत्वाभावे बाधकम् ] लघुचन्द्रिका ।
.
२३१
त्पर्यम् । कृचिदिति । सहकारिलाभस्थले । जनकत्वेति । उपधायकत्वेत्यर्थः । कार्यमात्रस्य कर्तृजन्यत्वेन कर्तृज्ञानादिजन्यत्वं कुलालादेर्घटाद्यालोचनद्वारेव घटादिहेतुत्वात् । स्वस्वव्यापारान्यतरेति । पूर्ववृत्तिन एव कारणत्वम् । तच्च साक्षादिव परम्परयापि सम्भवति । 'गोमयैः पचती त्यादिलौकिके 'तुषपक्का भवन्तीति वैदिके च प्रयोगे कारणकारणेऽपि तावहारात् । अथ तत्र प्रयोजकत्वमेव व्यवह्रियने । न कारणत्वम् । तथापि मागादेस्स्वर्गादौ कारणत्वमावश्यकम् । इष्टकारणत्वमेव हि विधिना बोध्यते । नेष्टकारणकारणत्वमपि । शक्तिद्वयकल्पने गौरवात् । तथा च कार्याव्यवहितपूर्वक्षणवृत्ति यत् स्वस्वकार्ययोरन्यतरत' तत्सम्बन्धित्वमेव कारणत्वम् । स्वकार्यत्वं च स्वाधिकरणक्षणाव्यवहितोत्तरक्षणवृत्तित्वमिति नानवस्थादिकम् । तस्मादिीत । तस्य कारणत्वे तव्यापारसत्त्वापत्तिरिति भावः । कारणत्वं परिणामित्वम् । जडत्वेति । जडत्वमात्रेत्यर्थः । कार्यस्य चित्परिणामत्वे चिद्रूपता स्यात् । न तु जडत्वमात्रमिति भावः । ननु, प्रतिबिम्बादेः लिङ्गविधया किम्बानुमित्यादिकारणत्वं वाच्यम् । तच्च न युक्तम् । अतीतानागतधूमादेरिव तस्यापि कारणत्वस्य हातुमुचितत्वात् । अन्यथा गौरवात् । तत्राह-न हीति । क्वचित् अतीतलिङ्गादिस्थले । मुख्येति । प्रतिबिम्बादिरूपलिङ्गज्ञानमनुमितिकारणमित्याकारके प्रत्यक्षादिरूपे कारणताग्राहके ज्ञाने लिङ्गस्य विशेषणत्वसम्भवेन तत्रापि कारणताग्राहकत्वम् । विशिष्टे प्रवृत्तस्य प्रमाणस्य हि विशेषणेऽपि प्रवृत्तिरोत्सर्गिकत्वेन मुख्या। अतीतधूमादिस्थले तु बाधादेव न सा । तथा चोक्तगौरवं प्रामाणिकमिति भावः । सङ्कति । तस्यादोषत्वे तु ज्ञान इव विषयेऽप्येकस्य वैजात्यस्य सिद्ध्यापत्तेः विषयस्य हेतुत्वसिद्धिः । न च व्यावहारिकसुवर्णज्ञानसाधारण्येन कारणत्वस्य सुवर्णेऽपि स्वीकारे व्यावहारिकसुवर्णादज्ञातादपि सुखविशेष उत्पद्येतेति वाच्यम् । तावतापि तादृशवैजात्यस्य स्वाप्नप्रातीतिकसुवर्णे व्यावहारिकसुवर्णज्ञाने च वृत्तौ बाधकाभावात् । अन्यदति । अतीतानागतादेर्यदा ज्ञानं, तदा सूक्ष्मावस्थारूपेण सत्तावश्यं वाच्या । अन्यथा तस्य प्रमाणविषयत्वासम्भवादिति पूर्वमुक्ते कालान्तरे सत्त्वात् तस्य ज्ञानमुपपद्यते इत्याशङ्कायामन्यदेत्यादिकं खण्डन उक्तम् । तस्यायमर्थः । पाटच्चरश्चोरः । यामिकः तद्वारणाय जाग्रत्पुरुषः । प्रमाया अतीतादिविषये विषयित्वासम्भवः । अलीके सम्बन्धासम्भवात् । कालान्तरसत्त्वं तु एतत्कालीनज्ञानेन सम्बन्धेन प्रयोजकम्।सम्बन्धिनोरेकक्षणवृत्तित्वस्य सम्बन्धे प्रयोजकत्वमित्यस्य संयोगादिस्थले दृष्टत्वादिति।तदिदंरूपान्तरेण सत्त्वेऽपितुल्यम्।यद्रूपोपहितस्य हि कारणत्वं तद्रूपोपहितस्य सत्त्वमपेक्षितम्।अन्यथा कार्याव्यवहितपूर्वक्षणसम्बन्धस्यासत्य
For Private and Personal Use Only