SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३२ अद्वैतमञ्जरी । सम्भवेन कारणत्वासस्भवात्।त्वन्मते हि मिथ्यात्वस्यालीकत्वरूपत्वं स्वीकृत्य मिथ्याभूतस्यन कारणत्वमित्युच्यत इति भावः । न चेति । भ्रमो यद्यबाधितः स्यात् , तदा अबाधितविषयकः स्यादित्यत्रेति शेषः । दोषादीत्यादिपदादविद्या गृह्यते । तथा चाविद्यापरिणामत्वादिना भ्रमस्य मिथ्यात्वं बाधावतारकाले विषय इव ज्ञायते । दोषस्य स्वविशिष्टं प्रति कारणत्वम् । दोपविशिष्टत्वं च दोपाश्रयशक्त्याद्यवच्छिन्नचित्तादाम्यम् । तच्चाविद्यापरिणामत्वेन रजतादितदाकाराविद्यावृत्त्योरविशिष्टमिति भावः । अनभ्युपगमादिति । वस्तुतः तुच्छज्ञानादेस्तुच्छोपहिलरूपेण तुच्छत्वेऽपि न क्षतिः। न हि तेन रूपेण तस्य कारणत्वादिकं त्वयापि स्वीक्रियते । किं तु जातिविशेषरूपे. ण । प्रातीतिकस्य तु कालसम्बन्धादिनोत्कर्षादिना च तन्मया स्वीक्रियत इति बोध्यम् । न चैवं मिथ्यात्वस्य तुच्छवैलक्षण्यघटितत्वेन तद्धियोऽपि तुच्छत्वापत्तिरिति वाच्यम् । तुच्छवैलक्षण्यादेः कालसम्बन्धत्वादिना मिथ्यात्वादिघटकत्वात् । पूर्वसम्बन्धनियमे अनन्यथासिद्धत्वे सति कार्याव्यवहितपूर्वक्षणावच्छिन्नकार्यसामानाधिकरण्याश्रयस्यान्योन्याभावस्य प्रतियोगितानवच्छेदकत्वे । सिद्धान्ते दण्डादिमत्यपि दण्डादेरत्यन्ताभावस्वीकारादत्यन्ताभावाप्रतियोगित्वं त्यक्त्वान्योन्याभावादिकमुक्तम्। हेतुतत्त्वं हेतुता । तबहिर्भूतं तदघटकम् । तादृशे ये सत्त्वासत्त्वे तत्कथा वृधेत्यर्थः । यदि कारणस्य सत्तासम्बन्धोऽपेक्ष्यते, तदा सोऽस्त्येव कल्पितः।कल्पिते अकल्पितस्तुसम्बन्धोऽलीकः । परं तु स नापेक्षित इत्याशयेन कथा वृधेत्युक्तम् । कारणस्य सज्ञानियमे साधकाभावमुक्त्वा बाधकमाह । अन्तरित्यादि-अन्तर्भावितसत्त्वं सत्ताविशिष्टं सत्ता तदाश्रयश्चेति यावत् । यदि तदुभयं कारणं, तदा सत्तानाश्रयः कारणमिति सिद्धम् । न हि सत्तायां सत्तान्तरमस्ति । न वा सैव सत्ता । आद्ये द्वितीयादिसत्ताया अपि स्वप्रत्यक्षादिकारणत्वसिद्धये सत्तान्तरस्वीकारादनवस्था । नानासत्तास्वीकारेण सत्ताकारानुगतधीलंघने जातिमात्रलोपापत्तिश्च । यदि च अन्तर्भावितसत्त्वं न कारणं सत्ता न कारणम् । किं तु सत्तोपलक्षितं कारणं, तथापि सत्ताभावकाले अतीततादशारूपे दण्डादेः कारणत्वादसत् कारणमिति सिद्धम् । अथ सत्ता कारणताश्रये न विशेषणम् । नाप्युपलक्षणम् । किं तु उपा. धिः । यदा यदा यत्र कारणत्वं, तदावश्यं तत्र सत्तेति यावत् । तथापि सत्यरूः पादन्यत् कारणमित्यागतम् । न हि सत्तासम्वन्धि दण्डादिकं सद्रूपम् । ब्रह्मणः सद्रूपताया आवश्यकत्वेन तत्सम्बन्धादेव तत्र सद्रूपताप्रत्ययसम्भवात् श्रुत्यादिवाध्यत्वाच्च । न चैवमित्यादि । कारणत्वस्थले अधिष्ठानत्वमादाय पूर्वोक्तदोष इत्यभिमानः । स्वरूपत इति । सद्रूपमेवावच्छिन्नानवच्छिन्नरूपेण प्रातीतिकव्या For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy