SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्र०दे असतस्साधकत्वाभावे बाधकम्] लघुचन्द्रिका । २३३ वहारिकाध्यासमात्राधिष्ठानमिति भावः । स्वरूपेति । दण्डादिकारणस्वरूपेत्यर्थः । उक्तयुक्तिभिस्स द्रूपस्याकारणत्वात् सद्रूपसम्बन्धिन्येव कारणत्वं त्वया वाच्यम् । तथा च सद्रूपं कारणं तवासिद्धमिति भावः । ननु, दण्डत्वादिना कारणत्वे खीकृते प्रातीतिकदण्डादेरपि घटाद्युपधायकत्वापत्तेः व्यावहारिकदण्डत्वादिनैव तत्स्वीकार्यं त्वया । तथा च हेतुतत्त्वबहिभूतेत्याद्यसङ्गतमिति चेन्न । तावतापि पारमार्थिकत्वरूपसत्त्वस्य हेतुत्वबहिनीवानपायात् । किं च न व्यावहारिकत्वघटितरूपेण कारणत्वं क्वापि स्वीक्रियते । अथ तदुक्तापत्तिः कथं वार्यत इति चेत् । सामग्रीव्याप्तिमध्ये व्यावहारिकत्वविशिष्ट पदार्थानामेव निवेशात् व्यावहारिकेण कारणतरवच्छेदकेन विशिष्टं ययावहारिकं तत्समूहस्य व्यावहारिकसम्बन्धविशिष्टो यो व्यावहारिकक्षणः, तस्माद्यावहारिकोत्तरत्वविशिष्टो यो व्यावहारिकक्षणः, तत्त्वं कार्योत्पतिव्याप्यमिति स्वीकारात् प्रातीतिकदण्डादेर्न घटाद्युपधायकत्वम् । न च प्रातीतिकघटादेरपि व्यावहारिकदण्डादितः उत्पत्तिः स्यादिति वाच्यम् । आपादकाभावात्। कार्यतावच्छेदकविशिष्टं प्रत्येव तादृशक्षणत्वस्य व्याप्यत्वादकार्यतावच्छेदकपातीतिकत्वरूपेण कार्यस्यापत्त्यसम्भवात् । न च दण्डादिकं विनापि प्रातीतिकवटाद्युत्पत्या व्यभिचार इति वाच्यम् । व्यावहारिकं प्रति मूलाविद्यायाः प्रातीतिकं प्रति पलुवाविद्यायाः परिणामिकारणत्वेन सामग्रीभेदात् । आंधया कार्यजनने दण्डादेः द्वितीयया कार्यजनने दोषादेस्सहकारित्वात् । एवं च यत्र च व्यावहारिकं साधकमित्यादि व्याख्यातं मूले । साधकस्य व्यावहारिकत्वं मूलाविद्यात्वम् । प्रातीतिकत्वं पल्लवाविद्यात्वम् । पल्लवाविद्यानङ्गीकारे तत्स्थानीयविषयावरणत्वम् । न च तथापि प्रातीतिकेनापि कार्यजननात् सामग्रीव्याप्ती सर्वत्र कथमुक्तरीत्या व्यावहारिकत्वं निवेशितमिति वाच्यम् । प्रातीतिकस्य कुत्रापि कार्ये हेतुत्वास्वीकारात् तज्ज्ञानस्यैव हेतुत्वात् । न च तद्विषयकत्वघटितरूपेण ज्ञानस्यापि प्रातीतिकत्वम् । उक्तञ्चाचार्यैः । 'ज्ञानमिथ्यात्वं विना विषयस्य मिथ्यात्वासम्भवः । स्वरूपतो बाधाभावे विषयतो बाधासम्भवादिति । "इदं रजत'मिति यत् ज्ञानं जातं, तन्मिथ्येति विषयविशिष्टज्ञानस्य मिथ्यात्वानुभवादिति वाच्यम् । तावता वृत्तिरूपस्य ज्ञानस्य स्वरूपतः प्रातीतिकत्वेऽपि चिद्रूपस्य तदभावात् । रजतादिप्रातीतिकविषयकत्वरूपेण न चितो हेतुत्वम् । किं तु रजतत्वावच्छिन्नविषयताकत्वरूपेण । तच्च न प्रातीतिकघटितम् । असद्विशिष्टचितोऽपि न प्रातीतिकत्वम् । न च भ्रमस्थले रजतादितादात्म्यस्य शुक्त्याद्यवच्छिन्नचित्युत्पद्यमानस्य विषयतात्वेन विषयता प्रातीतिकीति वाच्यम् । व्यावहारिकपूर्वसिद्धतादात्म्येनैव रजतादेरुत्पत्तेरिदमादितादात्म्यं रज For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy