SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २३४ www.kobatirth.org अद्वैतमञ्जरी । Acharya Shri Kailassagarsuri Gyanmandir ताद्यवच्छिन्नचिति ज्ञायमानं न विषयता । सांसर्गिकविषयताश्रयत्वात् । न हि विषयविषयतयोरभेदः परैः स्वीक्रियते । तथा चेदमादेर्विषयतापि भ्रमात् पर्वसिद्धा । तथा संसर्गरूपमुक्ततादात्म्यमपि पूर्वसिद्धसांसर्गिक विषयतासम्बन्धेन जायत इति विषयतामात्रं व्यावहारिकम् । न हि ज्ञानं तद्विषयताचारोप्यते इति परैः स्वीकियते । किं तु विशेषणं विशेष्यविशेषणयोस्संसर्गश्च । द्वयोरपि बाधानुभवात् । तस्मात् प्रातीतिकं न कारणम् । यद्वा यादृशकार्यं प्रति शक्तिर्यत्र तिष्ठति, तत्तस्य कारणम् । शक्तेरेव कारणतारूपत्वात् । प्रातीतिके दण्डादौ व न घटादेरशक्तिः । यस्य च शक्तिः प्रातीतिके, तत्तस्माज्जायत एव । तथा च व्यावहारिकत्वस्य उतरीत्या न व्याप्तौ निवेशः । न चैवमपि व्यावहारिकत्वस्य कारणतास्ववच्छेदकत्वकरूपने गौरवमिति वाच्यम् । कारणे वस्तुगत्या येन रूपेण सम्बन्धेन च यत्कार्योत्पत्तिपूर्वक्षणे कार्याधिकरणे यत् सम्बद्धं तद्रूपसम्बन्धाभ्यां तादृशसम्बद्धत्वविशिष्टेष्वेव तच्छक्तेस्वीकारात् । विशिष्टस्य च केवलातिरिक्तत्वेनानतिप्रसङ्गात् । व्याप्तेरिव शक्तेरवच्छिन्नत्वे स्वरूपसम्बन्धरूपे मानाभावात् । अनयोः कल्पयोर्द्धतीयस्यैव मूलानुसारित्वेऽपि प्रथमः परपराभवे प्रभुरेव । द्विष्ठेति । एकानुयोगिकापर प्रतियोगिकेत्यर्थः । कश्चिद्विषयताविशेषरूपः । विशेषेति । व्यावृत्तीत्यर्थः । ननु उक्तरूपयोर्न व्यावर्तकता । आद्यस्याननुगतत्वात् । द्वितीयस्य सर्पत्वावच्छिन्नस्य विशेष्यत्वस्य प्रकारत्वस्य वा सकलेषु सर्पज्ञानेष्वभावात् । किञ्च प्रत्यक्षे व्यावर्त्तकज्ञाने तयोर्विषयघटितरूपेणैव भानात्तेनैव रूपेण व्यावर्त्तकत्वमुचितम् । तत्राह – किश्चेति । धर्म्यन्तरसम्बन्धमनपेक्ष्य विलक्षणं स्वविषयसम्बन्धान्येन वैलक्षण्येन युक्तम् । तेन विषयतामादाय न सिद्धसाधनादिकम् । शक्त्यन्येत्यपि विशेषणं वैलक्षण्ये देयम् । तज्जनकेति । असर्पज्ञानजनकेत्यर्थः । विलक्षणेति । भिन्नेत्यर्थः । असर्पज्ञानावृत्तिजन्यताश्रयत्वादिति पर्यवसितो हेतुः । सर्पज्ञानत्वादेर्जन्यतावच्छेदकत्वे गौरवात् तदन्यदखण्डवैलक्षण्यं विना जन्यताया अवच्छिन्नत्वानुपपत्तिरनुकूलतर्कः । स्याताभिति । चैत्रादिसम्बन्धत्वादेर्गुरुत्वात्तदन्यदखण्डवैलक्षण्यं जन्यजनकतावच्छेदकं कल्प्यत इत्युक्तौ सर्पज्ञानेऽपि तथेति भावः । सर्वज्ञानेति । सर्वसर्पज्ञानेत्यर्थः । जातिरूपः जातिपदेन तान्त्रिकैर्व्यवहार्यः । मांनाभावादिति । सर्पज्ञानमात्रवृत्तिकारणत्वादेरवच्छिन्नत्वस्य स्वरूपसम्बन्धरूपस्यावश्यकत्वे अवच्छेदकत्वाख्यविषयताविशेषसम्बन्धेन सर्पत्वादिजात्यैव तत्सम्भवः । वस्तुतस्तु तादृशावच्छिन्नत्वे मानाभावः । अत एव स्थूलसर्पत्वादिगुरुधर्मस्यावच्छेदकत्वे गौरवात्तदवच्छिन्नविषयताकज्ञानमात्रवृत्तिकारणताद्यवच्छेदकत्वेनाखण्ड For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy