________________
Shri Mahavir Jain Aradhana Kendra
•
प्र • दे तृतीयमिथ्यात्वम् ]
www.kobatirth.org
लघुचन्द्रिका |
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
६१
योगित्वयोः ः सम्भवात् । सकलदृश्यत्वेन हि तत्र प्रतियोगित्वम् । चरमतत्वज्ञानाश्रयवत्क्षणव्यक्तित्वेनानुयोगित्वम् । 'घटाभावे स नास्ती' त्यादिप्रत्ययबलेनाश्रमवामिनां मते घटाभावादिप्रतियोग्यनुयोगिकस्यात्यन्ताभावस्येव 'ज्ञानात् सर्वदृश्यं नष्टमित्यादिप्रत्ययवलेन सर्वदृश्यप्रतियोगिकस्य चरमक्षणानुयोगिकस्य ध्वंसत्वस्य सम्भवात् । तदा ज्ञानप्रयुक्तावस्थितीत्यादेर्ज्ञानाधीनो यः स्वस्वीयसंस्कारोभयस्य नाशस्तत्प्रतियोगित्वमर्थः । उत्तरज्ञाननाश्यत्वमादाय पूर्वज्ञाने सिद्धसाधनात् संस्कारनिवेशः । स्मृतिनाश्यसंस्कारकत्वमादायानुभवे सिद्धसाधनात् स्वेत्यस्य निवेशः । संस्कारस्य स्मृत्यनाश्यत्वे तु न तन्निवेश्यम् । अवस्थितिचेत्यादि । अवस्थितिपदार्थ: उभयरूप इत्यर्थः । ननु, मुद्गरपातादिनाऽपि घटतत्संस्कार योनीशसम्भवेन नोक्तनाशो ज्ञानप्रयुक्तः । तत्राह - तथाचेत्यादि । विरहपदे नाशपरे । विरहाभावादिति । तथाचोक्तश्रुत्यादिसिद्धो दण्डाद्यनाश्यो घटादिसंस्कारः प्रलयादिनिष्ठ आवश्यक इति भावः । सः स्वरूपसंस्कारो भयनाशः । ज्ञानप्रयुक्त एवेति स्वरूपनाशात्मकसंस्कारप्रतियोगिकस्य नाशस्यापि स्वरूपनाशत्वेनोभयप्रतियोगिकनाशो ज्ञानप्रयुक्त एवेति नातीतघटाद्यव्याप्तिरिति भावः । अथवा ज्ञानप्रयुक्तावस्थितीत्यादेरयमर्थः । अज्ञानप्रयुक्ततत्संस्कारान्यतरस्य पूर्वोसम्बन्धद्वयेन योऽत्यन्ताभावो ज्ञानाधीनस्तत्प्रतियोगित्वं ज्ञाननिवर्त्यत्वमिति पूर्वमते नाशस्येव एतन्मतेऽत्यन्ताभावस्य ज्ञानसमानकालीनस्याऽपि ज्ञानाधीनत्वम् । 'तत्वज्ञानादज्ञानप्रयुक्तमुच्छिद्यते सर्वदृश्यमुच्छिद्यते' इति प्रत्ययात् । ननूक्तात्यन्ताभावस्याविद्यकत्वेन तस्याप्युक्तात्यन्ताभावो ज्ञानाधीनो वाच्यः । एवं तस्यापीत्यनवस्थेति चेन्न । पूर्वमते एकस्यैव स्वस्वेतरनाशत्ववदेतन्मतेऽप्येकस्यैव स्वस्वे - तरोक्तात्यन्ताभावत्वस्य सम्भवात् । ननु प्रलयादावुक्तात्यन्ताभावस्य ब्रह्मज्ञानं विनाऽपि सत्त्वेन न स तत्प्रयुक्तस्तत्राह – तथाचेत्यादि । मुद्गरपातेन ब्रह्मज्ञानान्येन । ज्ञानप्रयुक्तः ज्ञानाधीनः । अथवा ज्ञानप्रयुक्तो ज्ञानाधीनः योऽवस्थितिसामान्यस्य स्वात्मकसामान्यस्याभावः तत्प्रतियोगित्वं ज्ञाननिवर्त्यत्वम् । स्वात्मकञ्च स्वसमसत्ताकं ग्राह्यम् । तच्च स्वस्वीय संस्काररूपस्वीयपरिणामादिरूपमेव । न तु ब्रह्म । ज्ञानेन हि अज्ञानतत्परिणामसामान्यस्यात्यन्ताभावः स्वोत्पत्तिद्वितीयक्षणावच्छिन्नस्साच्यते । साध्यता च तत्र क्षेमसाधरणी । स चाभावः स्वान्यसर्वदृश्यविरोधी क्षणिक इति व्याख्या । तदेतद्व्याख्याचतुष्टयं दर्शितम् । अत एव यथाश्रुतस्य ज्ञाननिवर्त्यत्वस्यासाध्यत्वादेव । तद्वदेव पूर्वज्ञानस्योत्तरज्ञाननाश्यत्व इव । ननूक्तसम्बन्धद्वयेन कस्य चिद्येोऽत्यन्ताभावः तत्प्रतियोगित्वमेवास्तु । किं उक्तान्यतराभावस्याज्ञानप्र
I