________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
युक्तत्वस्य वा निवेशेन । द्वितीयपक्षे च किमुक्तनाशत्वस्य ज्ञानप्रयुक्तत्वस्य च निवेशेन। तत्राह-शशेत्यादि । अवस्थितिसामान्यस्य विरहः उक्तसम्बन्धद्वयावच्छिन्नप्रतियोगिताकात्यन्ताभावप्रतियोगित्वम् । चतुर्थपक्षे तु तथा चेत्यादि नातिव्याप्तिरित्यन्तो अन्थः सङ्गच्छतेतमाम् । ननु, तत्पक्षे दृश्यसामान्यस्याध्यासिकतादात्म्यसम्बन्धेनात्यन्ताभावो ज्ञानाधीनः सम्बन्धान्तरेण वा सः । आद्ये तादात्म्यस्य भेदप्रतियोगितायामेवावच्छेदकत्वादसङ्गतिः । द्वितीये अध्यस्तसर्वसम्बन्धैरत्यन्ताभावस्य ज्ञानप्रयुक्ततया प्रतीतिविरुध्यतेति चेन्न । आध्यासिकतादात्म्यस्य विषयतायाः समवायस्य च स्थानापन्नत्वेनात्यन्ताभावप्रतियोगितायामेवावच्छेदकत्वात् भेदप्रतियोगितायाः सम्बन्धावच्छिन्नत्वे मानाभावात् । न चोक्ताभावस्य कैवल्येऽप्यनुवृत्त्यापातात् 'विद्वान्नामरूपाद्विमुक्त'इत्यादिश्रुतिविरोध इति वाच्यम् । क्षणिकत्वस्योक्तत्वात् । ननु, शुक्तिरजतादेरपि शशविषाणवदलीकत्वेनाज्ञानप्रयुक्ततत्संस्कारान्यतराभावाप्रतियोगित्वात्साध्यवैकल्यम् । तत्राह-शुक्तीत्यादि । तद्विरह इति । अत एव तस्याज्ञानप्रयुक्तत्वमिति शेषः । अत एव उक्तात्यन्ताभावस्य ज्ञानव्यापकत्वात् , ज्ञानाधीनत्वाद्वा, उक्तनाशस्य ज्ञानाधीनत्वाद्वा । स्वकार्येण स्वप्रयुक्तेन । विलीनेन संस्कारेण । वर्तमानेन स्थूलेन । सह सहितस्य । ज्ञानेन ज्ञानव्यापिका, ज्ञानाधीना वा । निवृत्तिः उक्तात्यन्ताभावः, उक्तनाशो वा । अत्रे बोध्यम्। निवृत्तेहानाधीनत्वपक्षे ज्ञानोत्पत्तिकालीनेऽप्यज्ञानतत्सम्बन्धयोनिवृत्तिस्वरूपे अखण्डधर्मरूपं ज्ञानाधीनत्वमविरुद्धम् । घटादिरूपे तत्प्रागभावनिवृत्तित्वविशिष्टे घटाद्यधीनत्ववत् । घटात्तत्रागभावो निवृत्त इति धीवत् 'तरति शोकमात्मवित्' 'सोऽविद्यापन्धि विकिरती'त्यादिप्रतीतेजानोत्पत्तिकाल एवाविद्यानिवृत्त्यनुभवाच्च । यदि च स्वोत्पत्तिक्षणावच्छिन्नायां निवृत्तौ ज्ञानाधीनत्वं न स्वीक्रियत इत्याग्रहः, तथापि घटादिजनकसामग्य एव घटादिप्रागभावनिवृत्तिजनकत्वस्वीकारादव्यवहितपूर्वत्वसम्बन्धेन घटविशिष्टत्वेनैव तस्य वाच्यत्वात्तजनकतावच्छेदकस्यापि कार्ये प्रयोजकत्वात् । घटात्तत्प्रागभावनिवृत्तिरिति प्रत्यये घटप्रयोज्यत्वं निवृत्तौ भाति । यदि चोक्तनिवृत्तिर्घट एव न तदन्या, तत्र च कपालत्वादिनैव हेतुत्वं न तु घटवत्त्वेनेति न घटस्य स्वस्मिन् प्रयोजकत्वमुच्यते, तदा घटात्तत्मागभावो निवृत्त इति व्यवहारो न मुख्यः । किं तु घटजनकात् घटप्रागभावनिवृत्तिरित्येव मुख्यो व्यवहारः । 'तरति शोक' मित्यादौ शोको नाविद्यादिकम् । किं तु दृश्यमात्रम् । आत्मविद्वा आत्मज्ञानसाधनवानिति दिक् । इतरदृश्यनिवृत्तौ तु ज्ञानसाध्यतापि सम्भवति । ज्ञानोत्पत्त्युत्तरकालीनत्वात् । उक्तसाध्यतापि ज्ञानाधीनाग्रिमसमयसम्बन्धरूपा तादृशदृश्यविरोधित्वविशिष्टे एवात्यन्ताभावे स्वीक्रियते ।
For Private and Personal Use Only