________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे तृतीयमिथ्यात्वम्
लघुचन्द्रिका ।
ज्ञानपूर्वकालीनत्वविशिष्टे तादृशात्यन्ताभावे ज्ञानसाध्यत्वस्याप्रतीतेः । तादृशविरोधित्वञ्च तस्य नानुपपन्नम् । तत्वज्ञानस्योक्तात्यन्ताभावेतरदृश्याश्रयकालपूर्वत्वविशिष्टान्यत्वनियमात् । तादृशात्यन्ताभावस्यापि क्षणिकत्वम् । दृश्याश्रयकालपूर्वत्वविशिष्टान्यत्वनियमादिति । एवमज्ञानप्रयुक्तसाहित्यस्याज्ञाने कथनात् अज्ञानस्य निवृत्तिक्रियायां प्राधान्यलाभात् प्रथममज्ञानस्य पश्चादज्ञानप्रयुक्तस्य निवत्तिरिति सूचितम् । तत्रापि स्वसाहितस्य स्वप्रयोजकाज्ञानस्य ज्ञानप्रयुक्ता निवृत्तिरज्ञानप्रयुक्तस्य बाध इति बोध्यम् । अज्ञानप्रयुक्तस्यैव बाध्यत्वव्यवहारात् । स्वप्रयोजकाज्ञाने निवृत्तेऽपि जीवन्मुक्ते देहादिबाधाव्यवहारात् स्वसहितस्येति । प्रलयादौ घटादेनिवृत्तिरपि जीवन्मुक्तस्य नानाशरीरप्रापकप्रारब्धकर्मणाऽग्रिमकपे संसरिष्यत इन्द्रादेश्वाज्ञाननिवृत्तिसहितेति तस्यास्तं प्रति घटादिबाधत्वाभावात् ज्ञानप्रयुक्तेति । उक्तविवरणवाक्ये निवृत्तिपदमत्यन्ताभावपरमपि वक्तुं शक्यते । वक्ष्यमाणवार्तिकवाक्येन नासीदित्यादिना अविद्यातत्प्रयुक्तात्यन्ताभावस्य बोधनात् । अत एवोक्तं वासिष्ठादौ 'दृश्यं नास्तीति बोधेन मनसो दृश्यमार्जनम् । संपन्नश्चेत्तदोत्पन्ना परनिर्वाणनिति 'रिति । ननु, मनस इत्यस्य बोधेऽन्वयो मार्जने वा । आद्ये तत्वज्ञानसाध्यस्य दृश्यसामान्याभावस्य स्वेतरसर्वदृश्यविरोधित्वस्य पूर्वोक्तस्य भङ्गः । तादृशविरोधित्वे सति तादृशाभावस्य तत्कालीनमनोनिष्ठवृत्तिरूपबोधविषयत्वासम्भवात् । अत एव न द्वितीयः । उक्तात्यन्ताभावरूपस्य मार्जनस्य मनोनिष्ठत्वासम्भवात् । अथ दृश्ये तदन्वयः । तथापि तादृशबोधस्य वृत्तिरूपस्य दृश्यत्वेनोक्तदोषानपाय इति चेन्न । उक्तात्यन्ताभावस्य स्वस्ववि षयकवृत्तिभिन्नसर्वदृश्यविरोधित्वस्यैव स्वीकारात् साक्षिभास्यत्वस्वीकाराद्वा इत्याशयेनाह-वार्तिकेत्यादि । लीनेन ज्ञानकालीनसंस्काररूपलयप्रतियोगिना । तथा चाज्ञानस्य वर्तमानत्वेऽप्यतीतकार्यसहितरूपेणातीतत्वादासीदित्यस्य प्रसक्त्या नासीदिति निषेधसम्भव इति भावः । भाविकार्येत्यादि । कार्यजनकस्यादृष्टादेरत्यन्तामावानात्कार्यस्यात्यन्ताभावरूपा या निवृत्तिस्तत्सहिताज्ञाननिवृत्त्यभिप्रायकमित्यर्थः । तथा चादृष्टादिकारणसत्त्वादने भाविता यजातीयस्य कार्यस्य प्रसक्ता तज्जातीयस्यादृष्टाद्यभावात् ज्ञानप्रयुक्तादभावो न भविष्यतीत्यनेन बोध्यत इति । अन्यदिति । कारणाभावप्रयुक्तस्य कार्याभावस्य ज्ञानं विनाऽपि सत्त्वेन न बाधरूपत्वमिति स प्रकृतानुपयुक्त इत्यर्थः । नन्वेकाज्ञानपक्षे शक्तिरूप्यादेब्रह्मज्ञानं विना निवृत्त्यभावेन तत्र ज्ञाननिवर्त्यत्वस्योक्तानुमानपूर्वमग्रहण व्याप्तिग्रहासम्भवस्तत्राह-रूप्येत्यादि । वैकल्यं अग्रहः । तथा च नामाज्ञानपक्ष एवेदं बोध्यम् । वस्तुतस्तु; एकाज्ञा.
For Private and Personal Use Only