________________
Shri Mahavir Jain Aradhana Kendra
७६
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
1
तत्रोक्तं - ' अस्तु तर्हि शून्यतैव परमनिर्वाणमिति चेन्न । सा हि यद्यसिद्धा । कथं तदवशेषं विश्वं । परतश्चेत् सिद्धा । परोऽभ्युपगन्तव्यः । स च परो यदि संवृतिरेव विश्वशून्यतयोर्न कश्चिद्विशेषः । कथं तदप्यवशिष्येत । असंवृतिश्चेत् परः परतएव सिद्धानवस्था । स्वयमसिद्धा चेत् कथं शून्यत्वमपि साधयेत् । स्वतस्सिद्ध वेदायातोऽसि मा - र्गेण । तथाहि - स्वतस्सिद्धतया तदनुभवरूपं शून्यत्वादेव न तस्य कालावच्छेद इति नित्यम् । अत एव न तस्य देशावच्छेद इति व्यापकम् । अत एव निर्द्धर्मकमिति विचारास्टष्टम् । तस्य धर्मधर्मिभावमुपादाय प्रवृत्तेः । अत एव तस्य विशेषाभाव इत्यद्वैतम् । प्रपञ्चस्यापारमार्थिकत्वादेव निष्प्रतियोगिकमिति विधिरूपम् | अविचारितप्रपचाक्षेपात्तु शून्यमिति व्यवहारः । तथापि प्रपञ्चशून्यस्यानुभवमात्रस्य प्रपञ्चेन कः सम्बन्धः । येनायं प्रकाशत इति चेत् वस्तुतो न कश्चित् । संवृत्या तु गगनगन्धर्वनगरोराधाराधेयभाव इव विषयविषयिभावः । स च यथा नैयायिकैः समर्थयिष्यते तथैव । वेद्यनिष्ठस्त्वसावस्मिन् दर्शन इति विशेषः । अविद्यैव हि तथा तथा विवर्तते । यथानुभवीयतया व्यवह्नियते । तत्तन्मायोपनीतोपाधिभेदाच्चानुभूतिरपि भिन्नेव व्यवहारपथमवतरति । गगनमिव स्वप्नदृष्टवट कटाहकोटर कुटीकोटिभिः । तदास्तां तावत् । किमा कवणिजो वहित्रचिन्तयेति । तस्मादनुभकयवस्थितावनात्मापि स्फुरतीत्यवर्जनीयमिति प्रविश वा अनिर्वचनीयख्यातिकुक्षिं तिष्ठ वा मतिकर्दममपहाय न्यायानुसारेण नीलादीनां पारमार्थिकत्वे' इत्याद्युक्तवाक्यानां संक्षेपेण व्याख्यानम् | संवृतिः भ्रमः । शून्यत्वात् असङ्गत्वात् । तस्य विचारस्य । निष्प्रतियोगिकं प्रपञ्चप्रतियोगिकत्वस्य स्वनिष्ठस्य मिथ्यात्वेन तच्छ्रन्यम् । विधिरूपं निर्विकल्पकधीवेद्यम् | अविचारितप्रपञ्चाक्षेपात् । यतः प्रपञ्चोऽविचारसहः, अतस्तस्य श्रुत्यादिना निषेधः प्रकाशते । प्रकाशसम्बद्धः । संवृत्या अविद्यया । विषयविषयिभावः विषयिप्रतियोगिकं विषयत्वं नैयायिकैः मादृशैः समर्थयिष्यते । प्रकाशस्य सतः तदीयतामात्रनिबन्धनः स्वभावविशेषो विषयतेत्यादिना निरूपयिष्यते । तथा तादृशः । तार्किकमते तादात्म्यान्यसम्बन्धरूपोऽपि वेदान्तिदर्शने तादात्म्यरूपस्ताकिंकसम्मतविषयतात्वविशेष्यतात्वादिविशेषयुक्त इति भावः । वेद्यनिष्ठः वस्तुनिष्ठः । न तु वित्तिनिष्ठः । वित्तितादात्म्यस्य वित्तिभिन्नेष्वेव कल्पितत्वात् । वित्तेः स्वप्रकाशत्वेन वित्तिविषयत्वासम्भवाच्च । वित्तेस्तादात्म्यरूपा विषयतापि वित्तिभिन्नेष्वेव । न तु वित्ताविति भावः । अस्मिन्दशंने वेदान्तिदर्शने । तत्तन्मायेति मूलाविद्या पडवाविद्येत्यर्थः । मायोपनीततत्तदुपाधोनां भेदादिति वा योजना बोद्ध्या । वहित्रेति महानौकेत्यर्थः । यथा शूर्पादिपात्रे आर्द्रकाणि स्थापयित्वा विक्रीणतो वणिजो वहित्रमनुपयुक्तम् । प्रत्युत कार्यविरोधि |
I
For Private and Personal Use Only