________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र ० दे मिथ्यात्वमिथ्यात्वम् ] लघुचन्द्रिका ।
त्वरूपासत्यत्वस्यासत्त्वे तद्विरुद्धस्य 'असदेवेदमग्रआसी'दिति वाक्यादसति प्रतिपन्नतया त्वदभ्युपगतस्य सत्त्वस्यासति तात्विकतापत्तिः । सत्त्वे तस्य सतो असति सम्बन्धानुपपत्तिरित्याद्यभिप्रेत्याह-कृतमधिकेनेति । ननु, भेदः किं भिन्ने, उताभिन्न, इत्यादित्वदुक्तिरपि जातिरिति चेन्न । वैतण्डिकतामाश्रित्य वद तो मम स्थापनीयाभावेन मां प्रति जातेयाघातकत्वाभावात् । सर्वदृश्यानां खण्डनयुक्तिभिर्बाधस्य मदिष्टत्वात् । तदुक्तं खण्डने- 'अभीष्टसिद्धावपि खण्डनानामखण्डि राज्ञामिव नैवमाज्ञा । तत्तानि कस्मान्न यथावदेव सैद्धान्तिकेऽप्यध्वनि योजयध्वम् ॥ ,इति । परमतखण्डनरूपस्याभीष्टस्य सिद्धावपि खण्डनयुक्तीनां रा ज्ञामिवाज्ञा स्वातन्त्र्यं नाखण्डि नास्माभिनिराकृता । तत् तस्मात् । तानि खण्डनानि । यथावत् परमत इव सिद्धान्तसिद्धप्रक्रियायामपि । कस्मान्न योजयध्वमित्यर्थः । न चैवं ब्रह्मणोऽपि खण्डनयुक्त्या बाधापत्तिरिति वाच्यम् । ब्रह्मणोऽसंसृष्टत्वेन तर्काविषयत्वात्, सर्वसाक्षित्वेनाबाध्यत्वाच्च । यत्तु, सत्यत्वमिथ्यात्वयोस्समुच्चयोक्तिर्न युक्ता। उक्तं हि बौद्धाधिकारे - सदसत्त्वस्यैकत्र विरोधेन विधिवन्निषेधस्यायनुपपते' रिति । सत्त्वासत्त्वयोरिव तदभावयोरपि एकत्र विरोधेनासम्भव इति तदर्थ इति । तन्न । सत्त्वासत्त्वयोः परस्परात्यन्ताभावरूपत्वे हि विरोधः । तत्तु नास्त्येवेति मूल एवोक्तम् । किं चोक्तवाक्यं बौद्धमतनिराकरणपरम् । न त्वद्वैतमतनिराकरणपरम् । अ द्वैतमतस्य सर्वमतश्रेष्ठतया बौद्धाधिकार एवोक्तत्वात् । तथा हि-'न ग्राह्यभेदमवधूय धियोऽस्ति वृत्तिस्तद्वाधके बलिनि वेदनये जयश्रीः । नो चेदनित्यमिदमीदृशमेव विश्व तथ्यं तथागतमतस्य तु कोऽवकाशः ॥' इति । अस्मिन्विज्ञानवादिदूषणोपसंहाररूपे पद्ये अयमर्थः । ग्राह्यभेदं घटादिबाह्यार्थं तिरस्कृत्य घटादिरूपाकाराभिन्नरूपेण ज्ञानस्य वृत्तिसम्बन्धः क्वापि नास्ति । घटादिबहिरर्थवाधके अद्वैतब्रह्मरूपाधिष्ठानसाक्षात्कारे जाते तु बलिनि सर्वेभ्यो द्वैतवादिमतेभ्यो बलवति वेदनये वेदान्तदर्शने जयश्रीः जयोत्कर्षकाष्ठा । बौद्धमतापेक्षया तार्किकमते जयः। तदपेक्षयापि सांख्यादिमते। आत्मनोऽसङ्गत्वादिस्वीकारात् । तदपेक्षया वेदान्तिमते । द्वैतमिथ्यात्वादिस्वीकारात् । अतो जयोत्कर्षकाष्ठा । यदि तु निष्कामकर्माननुष्ठानाच्चित्तं न शुद्धं, तदा श्रवणादौ सत्यपि तादृशसाक्षात्काराभावेन विश्वमनित्यतया प्रतीयमानमपि तथ्यमेव । व्यावहारिकसत्यत्वात् । तत्रापाततस्तार्किकादिभिर्विश्वं ब्रह्मवत् परमार्थसत्यमिति वक्तुं शक्यम् । तथागतस्य बौद्धस्य तु मतस्य ज्ञानादत्यन्ताभिन्नं जगदलीकमित्येवंरूपस्य कोऽवकाश इति । किं चोदयनाचार्याणां वेदान्तदर्शन एव महती श्रद्धा । बौहाधिकार एव हि सर्वदर्शनानि निराकृत्य वेदान्तदर्शनमेव पुरस्कृतं तैः । तथा हि
For Private and Personal Use Only