________________
Shri Mahavir Jain Aradhana Kendra
प्र० दे दृव्यत्वनिरुक्तिः । ]
www.kobatirth.org
लघुचन्द्रिका |
Acharya Shri Kailassagarsuri Gyanmandir
७७
समुद्रगतवहित्रस्थस्यार्द्रकस्य तग्राहकसकलसाधारणजनैर्दृष्टत्वाभावात् । तथा हैतमतमेव परिष्कुर्वतो मम वेदान्तदर्शनमनुपयुक्तम् । द्वैतमतविरोधि च । द्वैतखण्डनयुक्तीनां मिथ्यात्वग्राहकमानस्य च तत्र पुरस्कारात् । तथापि वहित्रमिव वेदान्तदर्शनं पुरुषधौरेयस्य परमप्रयोजनं साधयत्येवेति वेदान्तदर्शने तदन्य सर्वदर्शनेभ्य उत्कर्षः आचार्याभिप्रेत इति ॥ इति लघुचन्द्रिकायां मिथ्यात्वमिथ्यात्वनिरुक्तिः ॥
For Private and Personal Use Only
अथ दृश्यत्वनिरुक्तिः ॥ वृत्तिव्याप्यत्वं वृत्तेराकाराख्यं विषयत्वम् | वृत्तित्वं तु ' ह्रीधर्भी' रित्यादिश्रुत्या अनूद्यमानो धीत्वरूपो जातिविशेषः । न च तस्य भ्रमरूपाविद्यावृत्तिनिष्ठत्वमस्ति न वा । आद्ये उक्त श्रुतौ ' एतत्सर्वं मन एवे ' त्यस्यासङ्गतिः । अविद्यावृत्तेः मनःपरिणामत्वाभावेन मनस्तादात्म्याभावात् । अन्त्ये शुक्तिरूप्यादौ साधनवैकल्यम् । सुखादौ वृत्त्यस्वीकारेण तत्रासिद्धिश्वेति वाच्यम् । पक्षद्वयेऽप्यदोषात् । उक्तश्रुतौ मनःपरिणामरूपाया एव धियो निर्देशेन तस्या एव मनस्तादात्म्योक्तेस्सम्भवात् । उक्तश्रुतौ धीमात्रस्य निर्देशेऽपि विशेष्यविशेषणाकारवृत्तिद्वयावच्छिन्नचित्यपि धीव्यवहारात् । तस्याश्र विशेष्याकारमनोवृत्तिघटितत्वेन मन एवेति निर्देशसम्भवात् । अत एव संशयरूपविचिकित्साया अप्युक्तश्रुतौ मनस्तादात्म्योक्तेरुक्तरीत्या निर्वाहः । एककोटिकस्यापातज्ञानस्यैव विचिकित्सापदेन निर्देशात् । द्विकोटिकस्यापि निर्देशे एकधर्मिणि कोटिद्वयाकारवृत्तिद्वयावच्छिन्नचित एव विचिकित्सात्वेन तस्या एककोव्याकारमनोवृत्तिघटितत्वेन मनस्तादात्म्यसम्भवात् धीत्वस्याविद्यावृत्तावस्वीकारेऽपि न दोषः । शुक्तिरूप्यादिकं मिथ्येत्याकारकमनोवृत्तिविषयत्वमादाय शुक्तिरूप्यसुखादौ साधनसत्त्वात् । फलव्याप्यत्वं स्वाकारवृत्तिप्रतिबिंवितचितो भग्नावरणकचितो वा तादात्म्यम् । साधारणं वृत्तिव्याप्यत्वफलव्याप्यत्वयोरन्यतरवत्त्वम् । अन्यतरत्वं च तदुभयमात्रमुख्यविशेष्यकं यत् ज्ञानं तन्मुख्यविशेष्यत्वम् । तव्यक्तित्वेन ज्ञानस्य निवेशः । तेन वृत्तिव्याप्यत्वस्यैव हेतुत्वसम्भवेनान्यवैयर्थ्यामित्यपास्तम् । कदाचित् कथंचित् । चिद्विषयत्वं किञ्चित्कालावच्छिन्नमावृतानावृर्तसाधारणं चिद्विषयत्वं चित्तादात्म्यमानं हेतुः । दैशिकसम्बन्धेन हेतु - तालाभायावच्छिन्नान्तम् । कालिकसम्बन्धेन हेतुत्वे हि अविद्याद्यनादिषु भागासिद्धिः । स्वव्यवहारेत्यादिपक्षद्वयं तु मूले प्रकटीभविष्यति । नित्यातीन्द्रिये कदाचिदिन्द्रियमतिक्रान्तं घटादिकम्। नित्यं तदतिक्रान्तं तु गुरुत्वादिकम् । तत्रोक्तयोः फलव्याप्यत्वयोरभावेन भागासिद्धिः । वृत्तेरावरणभङ्गार्थत्वपक्षे भग्रावरणेत्याद्येव फलव्याप्यत्वं वाच्यम् । वृत्त्यादौ चित्प्रतिबिम्बे मानाभावात् । तथा च शुक्तिरूप्यादौ साधनवैकल्यम् । न च धर्मिज्ञानेन भग्नावरणकम्य शुक्त्याद्यवच्छिन्नचैतन्यस्य
I