________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
पर्यन्तप्राचीनतार्किकैस्स्वीकृतत्वेनाभावावच्छेदकत्वाद्यघटितत्वात् स्वसामानाधिकरण्या वच्छेदकघटत्वकत्वरूपस्य घटकारणत्वस्य दण्डादौ व्यवहार उपपद्यत एवेति दिक् । समानसत्ताकयोर्भावाभावयोर्विरोधे स्वीकृतेऽपि न क्षतिः । मिथ्यात्वघटकामावस्याधिष्ठानस्वरूपत्वेन प्रतियोगिभिन्नसत्ताकत्वादिति पूर्वोक्तं स्मारयति । विषमेत्यादि। सत्त्वेनेति । सत्त्वावच्छिन्नम्वप्रकारतानिरूपितधीविशेष्यताव्यापकात्यन्ताभावकत्वं वाच्यमित्यर्थः । सदेवेत्यादि । 'सदेवेत्यादि' श्रुत्या यत्र यत्प्रकारकबोधो जन्यते, तत्र तदभावप्रकारकधीरसदेवेत्यादिना बोच्यते । उक्तं हि छान्दोग्यभाष्ये'असतः पदानभिधेयत्वेऽपि नज्युक्तवाक्यस्य तदयुक्तवाक्यार्थविरोधिधीजनकत्वमानुभाविक' मिति । तत्रायं भावः । 'सदेवे'त्यादिवाक्यं बौहानां तार्किकादीनां च मतनिरासार्थम् । बौद्धमते हि सुषुप्ताविव प्रलये सतोऽभावात् कारणं विनैव सुषुप्त्युत्तरजागराद्यक्षण इव सृष्ट्यारम्भकाले आद्यकार्योत्पत्तिः । यद्यत् अर्थक्रियाकारित्वरूपस्य सत्त्वस्याश्रयः तस्य सर्वस्य क्षणिकत्वेन सृष्ट्यारम्भक्षण उत्पत्तिः कारणं विनैव वाच्या। तत्पूर्व क्षणिकस्यार्थक्रियाकारिणोऽभावात् । तथा च सृष्ट्यारम्भकाल एव जागराद्यक्षण इव विनापि कारणं कार्यमुत्पद्यत इति स्वीक्रियते । तदुक्तं पञ्चपाद्याम्'अकस्मादेव जागरादावहमिति धीदर्शना' दिति । विवरणेऽप्युक्तम्- 'सुषुप्ते विज्ञानलेशस्याप्यभावादिति । तार्किकादिमते तुं प्रलये सदात्मकमपि जगत्कारणं यदासीत् , तन्नाद्वितीयम् । गुणादिरूपद्वितीयविशिष्टस्वभावत्वात् । तयोर्मतयोनिरासाय 'सदेवेत्यादि' श्रुतिः । इदं जगत् । अग्रे प्रलये । अव्याकृतावस्थमद्वितीयसद्रूपकारणात्मकमासीदिति बोधयति । 'असदेवे'त्यादि वाक्यं तु इदं जगत् प्रलये नासीत् , न वा सदात्मकम् । किं त्विदानीमेवार्थक्रियाकारित्वेन सदिति बोधयति । नन्वसदिति समासान्तर्गतं नञ्पदं सद्भिन्नस्यैव बोधकम् । नत्वग्रे सत्त्वादेरभावबोधकमिति चेन्न । 'अमानोनाः प्रतिषेधवाचका' इत्यनुशासनात् अकारस्य प्रकते नविकारत्वाभावेनासदित्यस्यासमासत्वात् । अत एव मूले न त्यस्याकारेणेत्यर्थः । ननु, 'कथं नु खलु सोम्यैवं स्यात् कथमसतः सज्जायते'त्युत्तरवाक्येनासतः कारणात् सतः कार्यस्य बौद्धस्वीकृतोत्पत्तेनिराकरणादसदवेत्यादिपूर्ववाक्येनासत्कारणात्मकतया प्रलये जगतः सत्त्वमुच्यते । कार्याणां हि ध्वंसरूपा सूक्ष्मावस्था प्रलयकालव्यापकत्वादक्षणि कत्वेनास्ति । सृष्ट्यारम्भसमये स्थूलकार्यरूपेण परिणमते । तेनासदात्मकत्वं जगतो नानुपपन्नम् । भिन्नकालीनयोरपि तयोस्तादात्म्यम् । 'तद्धेदं तीव्याकृतमासीत्' इति श्रुत्याप्युक्तमेव । अत एव 'तस्मादसतः सजायत' इत्युत्तरवाक्यं तथैव बोधयति। तत्राह-न त्वसतस्सत्त्वं विरोधादिति । अघटो घट इति बोधस्येवासदासीदिति
For Private and Personal Use Only