________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र० दे पञ्चममिथ्यात्वम् । ]
लघुचन्द्रिका ।
बोधस्याहार्यत्वेन शाब्दधीत्वानुपपत्तेः नोक्तवाक्यादुक्तबोधः । द्वितीयोऽर्थ उच्यते । सत्त्वं नासत्कारणप्रयुक्तम् । सत्त्वविशिष्टे कार्ये असतः कारणत्वं नेति यावत् । विरोधात् असतोऽर्थक्रियारूपकार्यकारणत्वे स्वीकृते असत्त्वव्याघातात् । तथा च 'तस्मादसतस्सज्जायत' इत्यस्य यस्मादिदमग्रे नासीन्नवाने सदात्मकं तस्मात् प्रलये विद्यमानात् सत आद्यकार्यरूपं सन्न जायत इत्यर्थः । अग्रे इत्यस्यानुषङ्गेण प्रलये विद्य. मानादिति लब्धम् । तेनेदानी सतस्सदुत्पत्तावपि न बाधः । कथमसत इत्यादेरपि सतस्सन्न जायत इति कथं सद्रूपस्यैकस्य सर्वकार्यात्मकतया प्रत्ययेन ततस्तज्जायत एवेत्यर्थः। 'नन्वभावस्य निरुपाख्यत्वादपि न जगत्कारणत्व'मिति पञ्चपादिकावाक्यं विवर णे व्याख्यातम् । 'न च निरुपाख्योपादानता जगतः । सदन्वया' दिति तत्त्वदीपने च तदवतारितम् । 'निरुपाख्यकारणतावादिनं प्रति निरुपाख्यत्वादिति हेत्वसङ्गतेराहन च निरुपाख्यतेत्यादी ति। तथा च निरुपाख्यकारणवादी बौद्ध इति तत्त्वदीपने स्पष्टमिति चेन्न । उक्ततत्त्वदीपनवाक्यस्य यदि निरुपाख्यकारणं बौद्धो वदेत्, त. दा तं प्रति निरुपाख्यत्वहेत्वसम्भवादाहेत्यर्थकत्वात् । अन्यथा ह्यसतः कारणत्वेऽ र्थक्रियाकारित्वरूपसत्त्वापत्त्या विरोधः । अत एव 'नासतोऽदृष्टत्वा' दिति सूत्रे भामतीकल्पतर्वोबौद्धमते असन्न कारणमिति स्पष्टमिति भावः । ननु, तथापि सत्त्वेन असद्धीवादिनं प्रति किं मिथ्यात्वं वाच्यम् । तत्राह-अतो नातिव्याप्तिरिति । यतोऽसतस्सत्त्वेन न धीः । अतः प्रातीतिकस्यापि सत्तादात्म्यरूपसत्त्वस्यासत्यभावेन व्यावहारिकस्य तस्य सुतरामभावेन च स्वनिष्ठसत्त्वावच्छिन्नप्रकारतानिवेशासम्भवानातिव्याप्तिरित्यर्थः । यद्वा अतः स्वनिष्ठसत्त्वात्। ल्यब्लोपे पञ्चमीयम् । तथा च स्वनिष्ठसत्त्वं पुरस्कृत्यातिव्याप्त्यभावोऽस्तीत्यर्थः ।
इति लघुचन्द्रिकायां चतुर्थमिथ्यात्वनिरूपणम् ॥ दोषासहकृतेत्यादि। दोषविधया ज्ञाने निमित्तकारणमविद्या। तादृशकारणतानिरूपकं तत्त्वमस्यादिवेदान्तवाक्याजन्यज्ञानं । तस्य बोधस्य भ्रमत्वात् । नतूक्तवाक्यजन्यज्ञानम् । प्रमात्वात्। ननु, शुद्धब्रह्मणो वृत्त्यविषयत्वपक्षे तस्य ज्ञानस्य स्वविषयत्वोपहितब्रह्मविषयकत्वादुक्तब्रह्मणश्च मिथ्यात्वात् कथं तस्य प्रमात्वमिति चेदुच्यते । अबाधितस्य वृत्तिविषयत्वोपहितं रूपं यस्य ज्ञानस्य विषयः तत्त्वं प्रमात्वम् । यद्यपि घटादिकं वृत्तिविषयत्वानुपहितमपि वृत्तिविषयः । तथापि 'सर्वस्य ज्ञानस्य स्वविषयत्वो पहितमपि विषयः घटाद्याकारवृत्तिश्चामिथ्ये ' ति भ्रमकाले घटादेः सत्यत्वं जानतां घयद्याकारवृत्तेः प्रमात्वव्यवहारो जायत एव । तथा चोक्ताविद्यादोषनिष्ठोक्तकारणतानिरूपकान्यधीविषयो यस्तदन्यत्वं मिथ्यात्वम् । ज्ञानकारणादिनिवेशे प्रयो
For Private and Personal Use Only