SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अद्वैतमञ्जरी । जनाभावात् । इदं तु बोध्यम् । एतस्य लक्षणत्वे वृत्त्युपहितब्रह्मभिन्नं ब्रह्मालीकभिन्नं लक्ष्यम् । अन्यथा वृत्त्युपहितब्रह्मण्यव्याप्त्यापत्तेः । एवमनुमाने एतस्य साध्यत्वे ताह. शब्रह्मालीकाविषयकवृत्तिविषयत्वादिरूपमेव दृश्यत्वं हेतुः । अन्यथाव्यभिचारापत्तेः । ननु, घटाद्याकारवृत्तावविद्याया दोषविधया निमित्तकारणत्वे मानाभावस्तत्राह-तेनेत्यादि । स्वभादिवदिति ।घटादेरिति शेषः । प्रमाणसिद्धेति । दोषनिष्ठकारणतानिरूपकान्यधीविषयेत्यर्थः । तथा च स्वाप्नघटादेरिव व्यावहारिकप्रपञ्चस्य ‘विद्वान्नामरूपाद्विमुक्त 'इत्यादिश्रुत्या ब्रह्मज्ञानबाध्यत्वबोधनेन तदाकारवृत्तेर्धमत्वात् तत्राविद्यायाः कामकर्मणोश्च दोषविधया निमित्तकास्णत्वमावश्यकम् । विक्षेपशक्त्यंशेन विपरीतकार्यहेतुत्वेन आवरणशक्त्यंशेन वास्तवरूपे 'अस्तिभाती'तिधीप्रतिबन्धकत्वेन चाविद्यायाः पित्तादिदोषवन्निनिमित्तकारणत्वौचित्यात् । 'यद्विशेषयो' रि ति न्यायेन पित्तादिदोषरूपेण परिणताविद्यायाः पित्तत्वादिविशेषरूपेणेवा विद्यात्वरूपसामान्यरूपेण भ्रमत्वावच्छिन्नं प्रति हेतुत्वसन्भवादविद्यादोषरूपसामान्यकारणसत्त्वेऽपि प्रातिभासिकभ्रमेष्वन्वयव्यतिरेकाभ्यां पित्तादिदोषविशेषाणां व्यावहारिकभ्रमेष्विन्द्रियसान्निकर्षादीनां दोषविधया हेतुत्वात् । किं च वाचस्पतिमते अविद्यायाः कार्यमात्रे नोपादानत्वं । किं तु प्रमातृनिष्ठदोषविधया निमित्तकारणत्वमित्यस्य कल्पतर्वादौ निर्णीतत्वात्तन्मते मिथ्यात्वमीदशं सम्भवत्येव । तन्मत एवेदं लक्षणमिति, ब्रह्मणि च नातिव्याप्तिरिति मूले स्पष्टम् । विवरणादिमते शुद्ध ब्रह्मण एव दोषाजन्यवृत्तिविषयत्वेन तत्रानतिव्याप्तेः । किं चाविद्याया उपादानत्वमेव । न तु दोषविधया निमित्तत्वमित्याग्रहेऽपि घटादिज्ञानेप्विन्द्रियसन्निकर्षादीनामेव दोषविधया कारणत्वात्तेषां दोषजन्यत्वात् प्रकृते नानुपपत्तिः । न च भ्रमत्वघटितधर्मावच्छिन्नं प्रति निमित्तकारणत्वमेव दोषविधया कारणत्वम् । इन्द्रियसन्निकर्षादौ न तदिति वाच्यम् । एकभ्रमे हि यस्य दोषस्य कारणता तस्य तद्व्यक्तित्वावच्छिन्नं प्रत्येव सा । न तु तद्भमत्वावच्छिन्नं प्रति । गौरवात् । न चैवं दोषजन्यत्वेन भ्रमत्वस्यानुमानं न स्यादिति वाच्यम् । भूमजनकत्वरूपदोषत्वेन यानिश्चितं तज्जन्यत्वमेव हि भूमत्वस्यानुमापकम् । न तु वस्तुगत्या यो भ्रमजनकस्तजन्यत्वम् । न चेन्द्रियसन्निकर्षादिजन्यत्वानामनन्तानां प्रातिस्विकरूपेण निवेशे दुर्जेयता स्यादिति वाच्यम् । भूमाजनकजन्यधीविषयान्यत्वं मिथ्यात्वमिति सुज्ञेयताप्रकारस्य सत्त्वात् । भूमत्वस्यापि जातिविशेषरूपत्वेन भ्रमविषयघटितत्वनिबन्धनदुर्विज्ञेयत्वस्याभावाच्च । ननु, दोषासहकृतेत्यादिरूपं प्रमाणसिद्धत्वं कुतो निवे. शितम् । अबाध्यविषयकधीविषयत्वरूपस्यापि तस्य सम्भवात् । तत्राह-प्र... १. 'भ्रमजनकाजन्य'ति पाठान्तरम् । For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy