SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६० अद्वैतमञ्जरी साक्षिणः प्रतिबिम्बरूपोपरागाभावादुपरागाथैव सर्वत्र वृत्तिः प्रथमपक्षे इति भावः । अभेदाभिव्यक्त्यर्थेति । मनोऽनवच्छेदप्रयुक्तं भेदं विषयावच्छिन्नब्रह्मचैतन्यनिष्ठमनोवृत्तिर्नाशयति । स्वत एव मनोऽवच्छिन्नस्य सुखाद्यवच्छिन्नब्रह्मचैतन्यस्य तु सुखादिभासनाय न वृत्त्यपेक्षा । मनोऽवच्छिन्नस्यापि ब्रह्मणो धर्मादेश्वावृतत्वादेव न भानम् । अत एव ब्रह्मणि वृत्तिर्न जीवाभेदाभिव्यक्त्यर्था । किं त्वावरणाभिभवार्था । उक्तञ्च सिद्धान्तबिन्दौ--'जीवस्य जगदुपादानत्वे आवरणाभिभवार्था । ब्रह्मणस्तत्त्वे तु आवरणाभिभवार्था प्रमातृचिदुपरागार्था चेति । ब्रह्मण्यावरणाभिभवार्था अन्यत्र प्रमात्रुपरागार्थेति द्वितीयकल्पार्थः । नन्वभेदार्थेत्येव वक्तुमुचितम् । लाघवात् । किमित्यभेदाभिव्यक्त्यर्थेत्युक्तम् । उच्यते । रूपाद्याकारवृत्त्या रसाद्यवच्छिन्नचिति प्रमात्रभेदेऽपि ‘मया रसस्साक्षाक्रियत' इति व्यवहाररूपाभेदाभिव्यक्त्यभावात् । (यदाकारा वृत्तिस्तदवच्छिन्नचितस्तत्साक्षात्कारत्वेन व्यवहारः। पूर्वोक्ततदीयसंश्लेषविशिष्टवृत्त्यवच्छिन्नचित एव तत्साक्षात्कारत्वात् इति ज्ञापनाया)भिव्यक्तीत्युक्तम् । शुद्धं ब्रह्म न जगदुपादानम् । किं त्वविद्ययोपहितं विशिष्टं वेति पक्षे तु शुद्धब्रह्मणि मनस्तादात्म्याभावेन प्रमात्रनुपरागादेवाभानोपपत्तावपि शुद्धं ब्रह्म न जानामात्यावरणानुभवाज्जगदुपादानाच्छुद्धब्रह्मणो मनस्तादात्म्येन प्रमात्रुपरागात्तत्रावरणस्यावश्यकत्वाच्च तदभिभवार्थी वृत्तिरिति भावः । वृत्त्यैवोपरज्यत इति । भासकतानियामकसम्बन्धोऽविधातवृत्तिमनस्तत्परिणामेष्वेव जीवस्येत्यर्थः । 'जीवेशावाभासेन करोते । माया चाविद्या च स्वयमेव भवती'त्यादिश्रुत्या जीवस्याविद्याप्रतिबिम्बत्वान्मनसो जीवस्वरूपमाधारीकृत्य 'अज्ञोऽह ' मित्यारोपादविद्यातवृत्त्योरिव मनस्तत्परिणामयोरपि स्वच्छत्त्वाच्चाविद्यातवृत्तिमनस्तत्परिणामेष्वेव साक्षिणः प्रतिबिम्बरूपोपराग इति भावः । विषयैः अविद्यादिभिन्नैः । असङ्गत्वात् उक्तविषयोक्तोपरागवत्त्वे मानाभावात् । तथा च घटादावुपरागार्थमेव वृत्तिरिति भावः । सम्बन्धान्तरेण संसृएस्यापि नान्यसम्बन्धप्रयुक्तकार्यकरत्वमित्यत्र दृष्टान्तमाह-यथेत्यादि । सर्वगतमपि गोत्वादिकं सास्नादिमत्येव यथाभिव्यज्यते 'अयं गौ'रित्यादिव्यवहारं जनयति, तथा सर्वगतोऽपि जीवः अविद्यातवृत्त्यादावेव वृत्त्यभावे ‘अवि. चां साक्षात्करोमी ति व्यवहारं जनयति ! न तु घटादौ । उक्तव्यवहारजनकत्वं चोकोपरागवत्त्वमेव । ननु, घटादौ साक्षिणः प्रतिबिम्बमेवेन्द्रियसन्निकर्षादिना १. 'यद करा वृत्तिः तदेव पूर्वोक्ततदीयसंश्लेषविशिष्टम् । तत्संश्लिष्टवृत्त्यवच्छिन्नचित एव तत्साक्षाकारत्वात् । न रसायवच्छिन्नचितः तत्साक्षात्कारत्वेन व्यवहार इति ज्ञापनाय ।' इति पाठान्तरम् । For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy