SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra प्र०दे प्रतिकर्मव्यवस्था ] www.kobatirth.org लघुचन्द्रिका | Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only २५९ प्रतिकर्मव्यवस्थायाः कस्य चित्पुंसः कदाचिदेव कश्विदेव विषयो ज्ञानकर्म । न सर्वस्य सर्वदा सर्व इति प्रतिनियतकर्मव्यवस्थायाः । चक्षुर्वदिति । तथा च यथा चक्षुः तेजस्त्वात् प्रभावत् शीघ्रं दूरस्थसूर्यादिसंयुक्तरूपेण परिणमते, तथा मनोऽपीति भावः । यथा नदीत्यादि । यथा नदीजलं नद्या अविभक्तमेव केदारादिना संयुज्यते, तथा देहादविभक्तं मनः विषयेणेति भावः । सर्वगतमिति । यथा गोत्वादिजातिः स्वरूपादिसम्बन्धेन सर्वगतापि गवादिव्यक्तावेवाभिव्यक्तत्वात् तत्रैव समवायेन वर्तत इति प्राचीनतार्किकादय आहुः । तथा जीवः सर्वतादात्म्याविशिष्टचित्तादात्म्यादिसम्बन्धेन सर्वगत इत्यर्थः । जीवचैतन्यमिति । जीवस्य जगदुपादानवे स एव भासकः । तस्य तदभावपक्षे तु तदुपरक्तमा वैष्ठानचैतन्यमेव भासकम् । वक्ष्यते हि 'अधिष्ठानचिदेव भासिका । प्रकाशस्य साक्षात्स्व सम्बन्ध भासकत्वा' दित्यादि । तथा चाद्ये जीवोऽपि भासकः । द्वितीये ब्रह्मैवेत्यर्थः । अनावृतमावृतश्च - ति । जीवस्य जगदुपादानत्वपक्षे मनदेखि घटादेरपि सर्वस्य व्यवहारकाले भातीतिव्यवहारापत्त्या मन आद्यवच्छेदेनानावृतमपि घटाद्यवच्छेदेनावृतं जीवचैतन्यम् । तस्य जगदनुशदानत्वपक्षे तु वक्ष्यमाणस्य भासवः तानियामकसम्बन्धस्य कादाचित्कत्वादेव घटादेरुक्तव्यवहारे कादाचित्कत्वसम्भवादनावृतमेव तदिति भावः । उपरागार्थेति । स्वप्रतिविम्बाश्रमवृत्तितषार्थीत्यर्थः । वृत्ते संश्लेषस्तु संयोगादिराकाराख्यविषयता चेत्युभयरूपो बोध्यः । रूपाकारवृत्तेः संयुक्तसमवायस्य रसादावपि सत्त्वाद्विषयतानिवेशः । परोक्षवृत्त्या रूपादेर्भानवारणाय संयोगादिनिवेशः । उक्तोभयस्थाने अवच्छेदकता निवेश्यते । सा च न परोक्षवृत्तेः, न वा रसादौ रूपाकारवृत्तेः । वृत्त्यवच्छेदकत्वस्येन्द्रियसन्निकर्षादिसामग्रीनियम्यत्वादिति तु वस्तुगतिः । द्वितीये त्विति । तुशब्दादुपरागार्थत्वव्यवच्छेदः । जीवस्योपादानत्वे घ तादात्म्यरूपपरागस्य सिद्धत्वादिति शेषः । आवरणाभिभवार्थेति । एवकारश्शेषः । तेनोपरागार्थत्वपक्षेऽप्यावरणाभिभवार्थत्वलाभः । ब्रह्माकारवृत्तेहिं नोपरागार्थत्वम् । साक्षिणस्तादात्म्यरूपोपरागस्य ब्रह्मणि वृत्तिं विनापि सम्भवात् । न हि वृत्तिघटित एवोपराग सर्वत्रापेक्ष्यते । अविद्यातद्वृत्तिषु मभस्तत्परिणामेषु च तदभावात् । अथ वा साक्षिणः प्रतिविम्बमेव सर्वत्रोपरागोऽपेक्ष्यते । मनआदाविव मनस्त्वादावपि वृत्तिं विनापि साक्षिणः प्रतिविम्बं स्वीक्रियते । घटादावपि वृत्तिसंश्लिष्टे साक्षिणः प्रतिविम्बं स्वीक्रियते । अत एव स्वल्पजलादिसंयुक्तमृदादौ सूर्यादिप्रतिबिम्बमनुभूयते । न च जलादावेव तत्प्रतिविम्बं न तु मृदादाविति वाच्यम् । ज्लादियुक्तमृदाद्यन्तर्गततया सूर्यादेः प्रत्ययात् । तथा च वृत्तिं विना ब्रह्मणि
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy