________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
चेत्, सत्यम् । तथापि यस्य भ्रमस्य बाधकाले बाधकधीविषयतया यदनुवर्तते,. तत् तद्भमाधिष्ठानमित्यादिव्याप्तिसम्भवः । ज्ञानस्वरूपं हि चैतन्यम् । तथा शुक्तिरूप्यादिभ्रमस्थलेऽपि शुक्त्याद्यवच्छिन्नसद्रूपेण तत्तथा । इयं शुक्तिस्सतीति हि बाधकज्ञानम् । भवति च शुद्धब्रह्मज्ञानमपि सर्वभ्रमवाधने खरूपयोग्यम् । एवं यद्यत् स्वप्रकाशं, तत् न मिथ्या । तबाधकमन वृतस्तेन भास्यत्वासम्भवात् तस्यां भासकान्तरकल्पने च गौरवात् । आदिपदेन विनाशित्वाविनाशित्वसङ्ग्रहः । यद्यद्विनाशि, तत् न सर्वभ्रमाविष्ठानम् । तन्नाशे तस्याधिष्ठानत्वासम्भवादित्यादि बोध्यम् । तत्त्वेति । त्रिकालाबाध्येत्यर्थः । सत्ता त्रिकालाबाध्यता । तादृक् पगेक्षम् । इंडक् अपरोक्षम् । यत्र न प्रसरति । यस्य प्रतीचो न समसत्ताकलक्षणं मूलाज्ञानविषयत्वादिकमपरोक्षमपि न समसत्ताकम् । दुनिरूपत्वतः अनिर्वाच्यत्वस्यैव लक्षणस्योक्तेः । अनिर्वाच्यत्वं सत्यस्य लक्षणादेरनिर्वचनम् । खण्डनोक्तरीत्येति । 'अभीष्टसिद्धावपि खण्डनानामखाण्डि राज्ञामिव नैवमाज्ञा । तत्तानि कस्मान्न यथावदेव सैद्धान्तिकेऽप्यध्वनि योजयध्व'मिति रीत्येत्यर्थः । संसर्गखण्डनादियुक्तिभिः पराभ्युपगतप्रक्रियाखण्डनरूपाभीष्टसिद्धौ सत्यामपि खण्डनानां स्वाभ्युपगतप्रक्रियाखण्डने स्वतन्त्रतारूपा या राज्ञामिवाज्ञा सा नाखण्डि नास्माभिः निरस्ता । तस्माद्यथावत् परप्रक्रिवायामिव स्वप्रक्रियायामपि तानि खण्डनानि कस्मान्न योजयध्वम् । यूयं छैनवादिन इत्युक्तपद्यार्थः । तथा च ब्रह्मण्यानन्दत्वादिसंसर्गखण्डनेग ब्रह्मानानन्दाद्यात्मकमिति भावः । स्वरूपेण सत्त्वान्यरूपेण । तन्निर्वचनेति । सत्त्वेन निर्वचनेत्यर्थः । व्यापकानुपलब्धीति । सत्यत्वव्यापकाविप्रकाद्युपलब्धिविरोधिविप्रकपादिग्राहकमानेत्यर्थः । मिथ्यात्वसाधकमानेति यावत् । लक्षणानुक्तेः सत्यलक्षणानुक्तेः । कीदृगित्यादिना समसत्ताकलक्षणात्मकेन। सत्त्वेन निर्वक्तुं शक्यत्वात् तत्सदित्यस्यानन्दत्वसत्यत्वाग्रुपलक्षितस्वरूपप्रमापकशब्दस्य वक्तुं शक्यत्वात् । प्रतीत्यभावश्चेति । त्रयं विषयस्य वाच्यं, तच्चेति शेषः । तदज्ञानकार्यभ्रमविशेष्यत्वं तज्ज्ञाननिवर्त्यभ्रमविशेप्यत्वं तदनुविद्वतया प्रतीत्यभावश्चेति त्रयं न सम्भवतीत्यर्थः । ज्ञानस्य स्फुरणकाले विषयाध्याससत्त्वादाधद्वितीययोरसम्भवः । अधिष्ठानस्यावृतत्वेन तदनुविद्धतया आरोग्याप्रतीतिर्वाच्या । साऽपि न सम्भवति । 'घटं जानामीति ज्ञानानुविद्धतयैव विषयप्रतीतेरिति तृतीयासम्भव इति भावः । अस्त्येवेति । तथा च सद्रूप इव ज्ञानरूपेऽप्यनुविद्धतया विषयप्रतीतेस्तद्रूपं नाधिष्टानम् । अपि तु शु. द्वचिद्रूपं पूर्णानन्दरूपम् । तदनुविद्धतया चाप्रतीतिरस्त्येवेति भावः ॥
॥ इति लघुचन्द्रिकायां मिथ्यात्वानुमाने अनुकूलतर्कनिर्णयः ॥
For Private and Personal Use Only