________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे अनुकूलतर्कनिरूपणम्] लघुचन्द्रिका ।
वाच्यम् । सार्वदिकत्वासम्भवात् । तथा च वृत्तिकालस्य तुच्छासम्बन्धित्वेन तुच्छनिष्ठे वृत्तिविषयत्वे अवच्छेदकत्वासम्भवादनुपपनिरिति भावः । उक्तं च माध्वादिभिरपि-ध्वंसादावेव प्रतियोग्यादेस्सम्बन्धो न तु प्रतियोग्यादी ध्वंसादेस्सम्बन्ध इति । न च तुच्छे वृत्तिनिष्ठसम्बन्धनिरूपकत्वं विनोक्तसम्बन्धोऽनुपपन्न इति तइवश्यं वाच्यम् । तथा च तस्याप्यसार्वदिकत्वादुक्तावच्छिन्नत्वस्यावश्यकत्वादनुपपत्तिरिति वाच्यम् । सम्बन्धस्य तदन्यसम्बन्धास्वीकारात् । सामान्यसम्बन्धेन सम्बन्धसामान्येन । इति सत्येनेत्यादिः । प्रसिद्धविशेषे सत्यसम्बन्धे । सामान्यस्य सम्बन्धसामान्यस्य । बाधशङ्कयेत्यादि । यदि सत्यसम्बन्ध एव विशेषः, तदा विप्रकृष्टयोस्सम्बन्धिनोस्तदसम्भवात् सम्बन्धसामान्यं न स्यात् । विप्रकृष्टयोविशिष्टधीस्सम्बन्धाविषयिकैवेति स्वीकारे सन्निकृष्टयोरपि सा तथा स्थादित्यतिप्रसङ्गः । तस्मात् विशेषान्तरं मिथ्यासम्बन्धरूपं वाच्यम् । तच्च कथमुपपद्यत इति निज्ञासा तदुपपादनं च न व्यर्थम् । सम्बन्धसामान्यस्थापनद्वारोक्तातिप्रसङ्गनिरासस्य फलस्य सत्त्वादित्यर्थः । सम्बन्धिभिन्नत्व इति । ढरहस्ययोस्सम्बन्धमात्रस्य रूसम्बन्धिभिन्नत्वे इत्यर्थः । अनवस्थानादिति । घटतद्दशोस्स्वभिन्ने सम्बन्धे ढक्सम्बन्धान्तरं तत्रापि ढक्सम्बन्धान्तरमिति अनवस्थानादित्यर्थः । खनिर्वाहकत्वं खं प्रति सम्बन्धत्वम् । सम्बन्धत्वायोगात् 'खं न स्वस्य न वा स्व. स्मिन्निति प्रतीतेः स्वप्रतियोगिकत्वस्वानुयोगिकत्वयोः कुत्राप्यभावात् स्वं प्रति कस्यापि न सम्बन्धत्वम् । न चैवं घटादाविव दृश्यत्वेऽपि दृशस्तादात्म्यं मिथ्याभूतं स्वीक्रियतामेवं तत्रापीत्यनवस्था तव मतेऽपि दुर्वारेति वाच्यम् । घटादाविव दृश्यत्वादौ तदननुभवात् यावदनुभवमेव मिथ्याभूतस्य स्वीकारात् । भूषणत्वादिति । उक्तं हि खण्डने । 'अनवस्थादयो दोषास्सत्ता निघ्नन्ति वस्तुनः । अद्वैतिनां ते सुहृदः प्रपञ्चे तत्प्रसञ्जकाः ॥ इति । सत्तां निघ्नन्ति सत्ताभावं ज्ञापयन्ति । तत्प्रसञ्जकाः सत्ताभावज्ञापकाः । न चेति । भिन्नत्वे अनवस्थादिनेति शेषः । तदुपपत्त्येति । अधिष्ठानान्यमिथ्यात्वमेव उपपादकमिति भावः । अन्तरेणेति । विनिगमकाभावाद्विषयतत्संबन्धयोमिथ्यात्वमुपपादकम् । न तु तत्सम्बन्धमात्रस्येत्यर्थः । अन्यतराध्यासे विषयविषयिणोरन्यतराध्यासे आवश्यके । अनुवृत्तखेत्यादि । ननु, यत् भ्रमान्तरानुवृत्तं, तदवश्यं तद्भमैतद्भमाधिष्ठानमिति वा तत् एतद्भमेऽनारोपितमिति वा न व्याप्तिः । शुक्तिरूप्याद्यवच्छिन्ने चैतन्ये भ्रमान्तरोदयेन शुक्तिरूप्यादेः स्वभ्रमानधिष्ठानत्वादिना व्यभिचारात् । नापि सर्वभ्रमानुवृत्तत्वमारोपितत्वव्यतिरेके हेतुः । तावतापि शुक्त्यवच्छिन्नचितोऽधिष्ठानत्वासिघ्यादितादवस्थ्यादिति
For Private and Personal Use Only