________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी
संशयाहितजीवनसंशयद्वारा करणम् । उक्तनियमसंशयो वा जीवनसंशयद्वारा करणम् । करणस्य सव्यापारत्वानियमात् । जीवनसंशय एव वा करणम् । देवदत्तो बहिरस्तीत्यर्थापत्त्यन्वयव्यतिरेकानुविधानस्याविशेषात् । बहिस्सत्त्वं विनानुपपन्नत्वं तु बहिस्सत्त्वाभावव्यापकाभावप्रतियोगित्वम् । प्रकृते तु 'ढग्दृश्ययोरन्यतरमिथ्यात्वं विना सम्बन्धोऽनुपपन्न' इति धीः पूर्वनिश्चितयोईग्दृश्ये सम्बन्धे एव तयोस्सम्बन्धः सत्य एवेति नियमयोः संशयाहितं दृग्दृश्ये सम्बन्धे न वेति संशयं द्वारीकृत्य विप्रकर्षहेतुकः । तयोस्सत्यसम्बन्धाभावनिश्चयः तादृशसंशयो वा करणमुक्तान्यतरन्मिथ्येत्य
पत्ताविति द्रष्टव्यम् । प्रतिकलमिति । सम्बन्धिमिथ्यात्वे सम्बन्धमिथ्यात्वनियमात् मिथ्यात्वस्य च तुच्छत्वरूपत्वात् सम्बन्धस्वरूपस्य कालादिसम्बन्धिनः प्रतिकूलं सम्बन्धिमिथ्यात्वमिति पराभिमानः । परमते शुक्तिरूप्ये मिथ्यात्वसम्बन्धस्य शुक्तिरूप्याभावस्य च सत्यत्वस्वीकारात् तत्र मिथ्याप्रतियोगिकत्वमिथ्यानुयोगिकत्वयोमिथ्यात्वासाधकत्वान्नेयं परोक्तियुक्ता । मन्मतेऽपि प्रपञ्चाभावे ब्रह्मस्वरूपे व्यभिचारो बोध्यः । उक्तरीत्या इच्छादाविव ज्ञानेऽपि विषयस्य सत्यस्सम्बन्ध इत्यादि. रीत्या सम्बन्धान्तरेण अध्यासान्यसम्बन्धेन आक्षेप्यं विनाक्षेपकस्यानुपपत्तिमाहसत्यत्व इति । दृग्दृश्यसत्यत्वे इत्यर्थः । नन्वनध्यस्तसम्बन्धस्य त्वयानङ्गीकारादध्यस्त एव सम्बन्ध आक्षेपकः । अध्यस्तता च नाक्षेपात्पूर्वं सम्भवति । आक्षेपस्यैव सदृश्यमिथ्यात्वसाधकत्वादित्याशङ्कय निषेधति-न चाध्यस्तत्वस्येति । सम्बन्धत्वेन विप्रकृष्टयोस्सम्बन्धत्वेन । स च तादृशरूपविशिष्टसम्बन्धश्च । अबाधित इति । तथा च मिथ्यात्वरूपेण सम्बन्धस्येव तदभावस्थापि निश्चयो नाक्षेपपूर्वमस्तीति मिथ्यात्वरूपेण सम्बन्धसिद्धौ न बाधकमिति भावः । न विशेष इति । अधिष्ठानारोप्ययोः सम्बन्धः अध्यस्तसम्बन्धशब्दार्थः । स च न सम्भवति । अधिष्ठाने आरोप्यस्य सम्बन्धप्रत्ययासम्भवात् । अधिष्ठानज्ञानं हि आरोप्यसम्बन्धज्ञानविरोधीति भावः । ननूक्तप्रत्ययोऽपि न सम्भवति । शक्तिरूप्ययोस्सम्बन्धविषयकत्वात्तत्राह-चैत्रस्येति । अभावे अभावकाले । तथा च चत्रमैत्रयोः मिथो वैशिष्टयग्रहासम्भवकाले। यथा चैत्रस्य पिता मैत्र इत्यत्र ज्ञाने चैत्रस्य जनकतायां विशेषणत्वं, तथा शुक्तित्वविशिष्टस्य रूप्यसम्बन्धग्रहासम्भवेऽपि भ्रमविशेष्यत्वरूपाधिष्ठानत्वघटके भ्रमे रूप्यस्य सम्बन्धावगाही प्रत्ययो नानुपपन्न इति भावः । वृत्तिगतत्वेऽपीति । ननु, वृत्तौ तुच्छाकारताखीकारे तुच्छे वृत्तिसम्बन्धोऽपि स्वीकृत इति चेन्न । वृत्तौ तुच्छाकारता हि न सार्वदिकी । किं तु, वृत्तिकालावच्छिन्ना । तुच्छे तु वृत्तिविषयत्वं याच्यते, तदा तदपि तादृशमेव
For Private and Personal Use Only