SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्र०दे अनुकूलतर्कनिरूपणम] लघुचन्द्रिका । २५५ त्वमीत्वादिनिष्ठसंशयादिप्रकारतावच्छेदकत्वविरोधित्वसम्भवात् सुखादीनामनन्तविरोधित्वकल्पनं न युक्तम् । तस्मान्न जन्यज्ञानादेः स्वप्रकाशत्वम् । चित्तादात्म्येनैव तस्य मातीत्यादिव्यवहारात् स्वान्यभानेत्यादिलक्षणाभावादिति भावः । अज्ञाननिवर्तकमिति । यद्यप्यज्ञानस्य प्रमातृचिदनुपरागम्य वा निवर्तकत्वं वृत्तावेव । आवरणभङ्गश्च वृत्त्येति मूले पूर्वमुक्तं, तथापि तदुपरक्तचित्यपि तदस्तीति तथोक्तम् । न हि तन्निवृत्तिजनकत्वं तत् । येनोक्तचित्त्वरूपेण तदुक्तौ गौरवं स्यात् । किं तु तद्विरुद्धस्वभावत्वम् । ननु, प्रमोत्पत्तेः पूर्वमप्रतीतमप्यज्ञातवटादिकं पश्चादनुमानादिना ज्ञेयत्वात् नासत् । अन्यथा कदाचित् केनचिदप्रतीतिमात्रेणासत्त्वे सर्वमसत् स्यात्। न च तदा केनापि तस्याप्रतीतत्वमिति वक्तुं शक्यम् । नं चाज्ञातताकाले घटादिज्ञानाभावे प्रत्यक्षे तत्कारणेन्द्रियसन्निकर्षे चोक्तघटादेः कारणताग्राहकान्वयव्यतिरेकज्ञानासम्भव इति वाच्यम् । उक्तघटादेरभानापादकाज्ञानकाले अनुमित्यादिनापि तत्सम्भवात्तत्राह-नाभिव्यनक्तीति । नाभिव्यक्त्युद्देश्यकप्रवृत्तिमानित्यर्थः । तथा च यथा जगत्तमोनाशमुद्दिश्य सवितुः प्रवृत्तिः, न तु शशशृङ्गीयतमोनाशमुद्दिश्य । तस्यालीकत्वेनाज्ञानासम्भवात् । तथा . घटाज्ञाननाशार्थ न कस्यापि प्रवृत्तिः स्यात् । घटाज्ञानस्य प्रमाणज्ञानासम्भवात् । अतस्तस्य ज्ञान साक्षिचिदेव । ननु, प्रमाणवृत्त्यभावेऽपि घटादेरज्ञाततया भानस्वीकारे तदा तत्र भातीति व्यवहारः स्यादिति चेत् , अज्ञाततया भातीति स्यादेव । घटादेरनुमित्यादिकाले अनुमितत्वादिना घटो भातीतिवत् । घटो भातीति व्यवहारस्य तु नापत्तिः । अज्ञातत्वज्ञातत्वाभ्यामुपहितस्थैव घटादेस्तदानावृतसाक्षितादात्म्यस्वीकारात् । अत एवोक्तं विवरणे-'अज्ञाततया ज्ञाततया च सर्व साक्षिभास्य'मितीति भावः । आमासस्य वृत्तिप्रतिबिम्बितचितः । ब्रह्मानुभक्तः ब्रह्माभिन्नसाक्षिणः । वदतेति । त्वदाचार्येणेति शेषः । चैतन्यस्य शुद्धचिदुपहितचितोः । एकत्वातादात्म्यात् । इत्यस्मिन्नधिकरणे इति । सर्वदृश्यानुस्यूतत्वात् स्वप्रकाशचिद्रूपत्वाच्चात्मा खेतरसर्वभासक इत्यादि तत्रोक्तम् । आक्षेपस्य अर्थापत्तिकल्प्यस्य । उपपादकत्वं यद्विना आक्षेपकमनुपपन्नं तत्त्वम् । आक्षेपकस्येति । यस्यानुपपन्नत्वधीरर्यापत्तिकरणं तस्येत्यर्थः । अर्थापत्तीति । अनुपपत्तिधीकरणकार्थापत्तीत्यर्थः । अथ वा यत्संशयोऽर्थापत्तिकरणं, सोऽप्याक्षेपकः । तथा च संशयकरणिकाप्यर्थापत्तिः प्रकृते ग्राह्या । यथा हि जीविनो देवदत्तस्य गृहासत्त्वं बहिस्सत्त्वं विना अनुपपन्नमिति धीः उपपादकस्य बहिस्सत्त्वस्य देवदत्ते अर्थापत्तिरूपे ज्ञानविशेषे करणम् । तथा जीविनो देवदत्तस्य गृहासत्त्वज्ञानं पूर्वनिश्चितयोर्जीवनगृहसत्वनियमयो. For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy