________________
Shri Mahavir Jain Aradhana Kendra
२५४
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
"
1
गानुकूलव्यापारे प्रवृत्तिर्न स्यात् । न च स्मरणसंशयाद्यप्रमाणवृत्त्यैव सात •वाच्यम् । उक्तघटस्याननुभूतत्वस्थले स्मरणासम्भवात् । ' घटोऽज्ञातो न वे 'ति संशयोत्तरं चौचित्यावर्जितः अज्ञातघटेन्द्रियसंयोगादेस्संशय एव स्यात् । न तु निश्चय इति भावः । ननु, अप्रमाणवृत्तिसंशयादिनोक्तघटादिग्रहणासम्भवेऽप्यविद्यावृत्तिस्तद्राहिकास्तु । तत्राह - तद्विलक्षणमित्यादि । वृत्तेर्जडत्वेन मिथ्यात्वेन च मोक्षानन्वयित्वात् अप्रकाशमानसुखरूपस्य मोक्षस्या पुरुषार्थत्वाच्च स्वप्रकाशचिद्रूपत्वं मोक्षस्यावश्यकम् । तथा च तस्य नित्यत्वादेकत्वाच्च वृत्युपहितः स एव ज्ञानम् । अन्यथा वृत्तेर्ज्ञानत्वे ' तदा ज्ञात' मिदानीं ज्ञातं ' घटो ज्ञातः 'पटो ज्ञात' इत्यादिप्रत्ययानामनुगतैकविषयकत्वमानुभाविकमपलप्येत । वृत्तेरपि स्वप्रकाशत्वे कल्प्यमाने गौरवञ्चापद्येत । न च चितः स्वप्रकाशत्वं तत्तद्देहादी संशयाद्ययोग्यत्वम् । तदपि देहादावनावृतत्वम् | चितो हि पूर्णानन्दरूपेणावृतत्वेऽपि स्फुरण रूपेणानावृतत्वमेव । अन्यथा 'अहं स्फुरामि न वा' 'मनस्फुरति न वे 'ति 'न स्फुरती 'ति वा संशयविपर्यासापत्तेः । तथा च वृत्तिज्ञानस्यापि तादृशत्वप्रकाशत्वमस्त्येवेति कथं गौरवम् । तदुक्तं तार्किकादिभिरपि । ' न हि जानन्नेव पुरुषो जानामि न वेति न जानामीति वा जानातीति । 'घटज्ञानवान् पुरुषो ' 'घटमहं जानामि न वेति घटं न जानामी 'ति वा नानुभवतीति तदर्थ इति वाच्यम् । स्वान्यभानानपेक्षभातीतिव्यवहारविषयत्वं स्वप्रकाशत्वमिति हि मूल एवं जडत्वस्य मिथ्यात्वहेतोर्विवेचने उक्तम् । तथा चोक्तविषयत्वे वृत्तौ स्वीक्रियमाणे गौरवम् । 'सुखं भाति' 'चिद्वाती 'त्यादौ चित्तादात्म्यस्यैव प्रयोजकतया क्लृप्तत्वेन वृत्तिभीतीत्यादौ वृत्तितादात्म्यस्य प्रयोजकतया कल्पनीयत्वात् । किं चताकिकादिमते संशयाद्ययोग्यत्वरूपमनावृतत्वं निश्चयविषयत्वम् । न त्वावरणाविषयत्वम् । तैर्भावरूपस्यावरणस्यास्वीकारात् । तथा च वृत्तेर्घटादिवदुक्तविषयत्वेऽपि न स्वप्रकाशत्वम् । न च तन्मते सर्वस्य ज्ञानस्यानुव्यवसायाभावेनोक्तविषयत्वासम्भवात् । संशयादिविषयत्वे ज्ञानतादात्म्यमेव विरोधित्वेन कल्प्यम् । तथा च तादृशतादात्म्यमेव स्वप्रकाशत्वमिति वाच्यम् । उक्तकल्पनायां गौरवात् । तैर्युक्तविषयत्वं प्रति निश्चितत्वमवश्यं विरोधि वाच्यम् । अविद्यमानस्यापि घटादिज्ञानस्यात्मनि निश्वये तत्संशयानुत्पत्तेः । तथा च विद्यमानेऽपि घटादिज्ञाने निश्चितत्वस्यवोक्त• विरोधित्वं सम्भवति । अनुव्यवसायस्य सर्वदोत्पत्त्यसम्भवेऽपि सिद्रूपमित्यानुव्यवसायेन निश्चितत्वसम्भवात् । किं च सुखादेरप्युक्तविरोधित्वं त्वया वाच्यम् । तथा च मुखत्वादिसाधारणस्याहमर्थविशेष्यतानिरूपितनिश्चयप्रकारतावच्छेदकत्वस्य धी
For Private and Personal Use Only