SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्र०दे अनुकूलतर्कनिरूपणम् ] लघुचन्द्रिका । रुपाध्योर्भेदकत्वेऽपि नात्यन्तभेदकता । अमिलितयोस्तु सा । तस्मान्निरपेक्षोपाधिरमिलितमुपाधिद्वयम्। तयोर्यथा एकोपहितादन्योपहितस्यात्यन्तभेदः, तथा शुक्त्युपहितचितः अविद्यावृत्त्युपहितचिता नेत्यर्थः । तत्र हेतुः-एकेत्यादि । एकावच्छिन्ने शुक्त्युपहिते चैतन्य एवापरावच्छेदेनाविद्यावृत्त्युपहितत्वेन । अभियुक्तैः पञ्चपादिकाविवरणकारादिभिः। फलैक्यात् अभिव्यक्तत्वरूपफलत्वाश्रयस्य चैतन्यस्यैकतापन्नाभ्यां शुक्तिरजतादिभ्यामवच्छिन्नत्वात् । ज्ञानस्य शुक्त्यवच्छिन्नाविद्यावृत्त्यवच्छिन्नचितोः। उच्यते उपचर्यते । तथा च विषययोर्मेलनात् तदाकारप्रत्यक्षवृत्तिद्वय स्यापि मेलनेन तदुपहितचिद्रूपज्ञानयोरत्यन्तभेदाभावात् अत्यन्ताभेद उपचर्यत इति भावः । पञ्चपाद्यामुक्तो कमेव ज्ञानमेकफलमिति । व्याख्यातं च तद्विवरणे-'विषयावच्छिन्नं फलम् । विषयश्च सत्यमिथ्यावस्तुनोरन्योन्यात्मकतयैकतामापन्नः । तेनैकविषयावच्छिन्न फलैकत्वोपाधौ सत्यमिथ्याज्ञानद्वयमप्येकमित्युपर्यत' इति । तथा चानिरपेक्षोपाध्योरत्यन्तभेदकत्वमेतद्न्थविरुद्धम् । अत्यन्तभेदाभावस्य प्रकृते एकत्वोपचारनिमित्तत्वादिति भावः । इदमशेति । शुक्तित्वविशिष्टेत्यर्थः । वृत्त्यवच्छिन्नस्यति। ननु, प्रत्यक्षवृत्त्यवच्छिन्नचितः घटादिविषयेऽपि तादात्म्येन सत्त्वात् 'घटो जानाती' त्यादिव्यवहारापत्तिरिति चेन्न । आख्यातार्थस्यानुकूलव्यापारस्य प्रकते मनोनिष्ठस्यैव प्रत्ययादनुकूलताविशेषस्यैव भाने समभिव्याहारविशेषस्य नियामकत्वात् । अन्यथा तण्डुलक्रयणादिव्यापारस्यापि पचतीत्यादौ बोधापत्तेः । विद्यमानसुखादौ वृत्त्यस्वीकारपक्षे तु स्वप्रतिबिम्बाश्रयो. वृत्तिपदार्थः । स्वपदं विशेष्यभूतचित्परम् । 'सुखं जानामी'त्यादौ द्वितीयार्थस्तादात्म्यम् । स्वप्रतिबिम्बविशिष्टसुखे तदन्वयः । 'घटं जानामी'त्यादौ तु स्वप्रतिबिम्बाश्रयवृत्तौ द्वितीयार्थस्य विषयत्वस्यान्वयः । यदि तु प्रतिविम्बविशिष्टरूपेण सुखादेः केवलसुखादितो भेदसत्त्वात्तद्विषयकत्वं स्वीक्रियते, तदा जानातिसमभिव्याहृतद्वितीयामात्रस्य विषयित्वमेवा. र्थः । असत्त्वापादकाज्ञानविषयत्वाभावप्रयोजकविशिष्टचितो जानात्यर्थत्वे तु तादृशप्रयोजकमेव वृत्तिपदार्थः । उक्ताभावे द्वितीयार्थस्याधेयत्वस्यान्वयः । विस्तरस्तु, सिद्धान्तबिन्दुटीकायां मदीयायां ज्ञातव्यः । अधिष्ठानतादात्म्येन आधारतादात्म्येन । कारणाप्रवृत्तरिति । 'अज्ञातो घट ' इत्याकारा प्रमाणवृत्तिन सम्भवति । प्रमाणवृत्तेरज्ञातताविरोधित्वेन स्वसमानकालीनाज्ञातताविषयत्वासम्भवात्। स्वासमानकालीनाज्ञातताविषयकप्रमाणवृत्तेस्सम्भवेऽपि तस्याज्ञातत्वविशिष्टघटादौ कारणतादिग्रहेऽनुपयोगः । अतस्स्वसमानकालीनाज्ञातत्वविशिष्टघटादिविषयकं चिद्रूपं प्रत्यक्षमेव तदुपयोगि वाच्यम् । किं चोक्तघटादिज्ञानं विनोक्तघटेन्द्रियसंयो For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy