SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५२ अद्वैतमञ्जरी। रीयवृत्तिमादाय निवृत्तिकस्यापि पुंसो 'घटं जानामीति व्यवहारापत्तेः । न च स्वतादात्म्याश्रयविषयकवृत्तिमत्त्वसम्बन्धेनोक्तव्यवहारे ज्ञानं विशेषणमिति वाच्यम् । वृत्तौ चितः परम्परासम्बन्धद्वयनिवेशे गौरवात् । न च चि. देव ज्ञानमस्तु । तस्य चोक्तसम्बन्धेनोक्तव्यवहारविषयत्वमिति वाच्यम् । शुद्धचितो जानातिनानुपस्थितेः किञ्चिद्रूपेणैव लोके ज्ञानपदार्थस्य भानात् । वृत्तिविशिष्टचिद्वाचित्वं विना जानातेः सकर्मकतानुपपत्तेश्च । अत एव धातुवाच्यं यत् चिदूपधातुवाच्यव्यापारव्यधिकरणं वृत्तिरूपं फलं, विषयतासम्बन्धेन तद्विशिष्टत्वात् घटादेः कर्मता । वृत्तेरावरणभङ्गार्थकत्वपक्षे त्वसत्त्वापादकाज्ञानाविषयत्वप्रयोजकविशिष्टचिदेव जानात्यर्थः । उक्ताविषयत्वरूपफलवत्त्वादेव घटादेः कर्मता। सुखादौ वृत्त्यस्वीकारपक्षे तु तादृशप्रयोजकत्वं स्थूलावस्थसुखादितादात्म्यस्य बोध्यम् । सूक्ष्मावस्थे हि सुखादावज्ञानं भ्रमादितत्कार्योदयात् । न तु स्थूलावस्थे इति भावः । ज्ञेयस्य चित्तादात्म्यवतः । निवृत्तेरिति । अध्यासस्सम्बन्ध इत्यनेन योजना । प्रतियोग्यधिकरण इति । सतीति शेषः । तत्र प्रतियोग्यधिकरणे कपालनाशजन्ये घटनाशे व्यभिचारात् सत्यन्तम् । अध्यास एवति । अविद्यानिवृत्तेरविद्योपादानकत्वाभावात् ज्ञानानिवर्त्यत्वान्मिथ्यात्वाभावेन पञ्चमप्रकारत्वेऽपि चित्तादात्म्यं विना स्फुरणसत्तासम्बन्धप्रत्ययासम्भवात्तदावश्यकम् । एवं भावाद्वैतमते प्रपञ्चाभावादेस्सत्यत्वेऽपि तदावश्यकम् । ननु, तत्र चित्तादात्म्यस्वीकारे दृग्दृश्यसम्बन्धानुपपत्तिरूपतर्कसहकतेन दृश्यत्वादिहेतुना मिथ्यात्वसिद्धेः पञ्चमप्रकारत्वादिकमनुपपन्नम् । तत्राह-वस्तुत इति । तदेवेति । ब्रह्माणि घटादिविषयाणां तदाकारवृत्तेश्चाध्यासात् घटाद्यधिष्ठानस्य वृत्त्यवच्छिन्नत्वम् । जीवस्य जगदुपादानत्वेऽप्येवम् । तथा च यत् विषयाधिष्ठानं तत्रावश्यं ज्ञानत्वोपहिताभेद इति नियमः । न तु ज्ञानत्वोपहितत्वरूपेणावश्यमधिष्ठानत्वमिति प्रत्यक्षस्थलेऽपि तदसम्भवादिति भावः । सम्बन्धे 'घटं जानामी'ति सम्बन्धव्यवहारे। निरपेक्षति । तावेवोपाधी स्वोपहितयोमिथो भेदकौ, यो अन्योन्यनैरपेक्ष्येण स्वोपहित ये पधायकौ यथा भिन्नदेशस्थौ घटौ खोपहिताकाशस्य भेदकौ भवतः । तदृत्तिघटयोस्तु स्वोपहिताकाशं प्रति न भेदकता । न चैव 'अविरुद्धविशेषणद्वयप्रभवत्वेऽपि विशिष्टरूपयोः । घटते न यदैकदा तदा सुतरां तद्विपरीतरूपयो'रिति संक्षेपशारीरकवाक्यविरोधः । तस्य ह्ययमर्थः-अविरुद्धे मिलिते ये विशेषणे घटत्वद्रव्यत्वादिरूपे तदुपहितयोर्यदा नैकता घटते, तदा जगत्कारणत्वसंसारित्वरूपविरुद्ध विशेषणोपहितयोस्सुतरामेकता न घटत इतीति वाच्यम् । एकतेत्यस्यात्यन्ताभेदार्थकत्वात् । तथा च मिलितयो For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy