________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र.रे अनुकूलतर्कनिरूपणम्]
लघुचन्द्रिका ।
२५१
नित्यत्वस्य लाघवेन स्वीकारात् । अस्मन्मतेऽपि आकाशादिवत्तस्या जन्यत्वेऽपि तद्वदेव कल्पपर्यन्तस्थायित्वे बाधकाभावः । तदिदं मूले वक्ष्यते-उक्तमकारेणेति । जनकज्ञानीयविषयतैव केन चिद्रूपेण जन्येच्छादिसम्बन्ध इत्युक्तप्रकारेणेति तदर्थः । तत्साधकमानेति । 'आद्यकार्य सकर्तृकम् । कार्यत्वात् । घटव'दित्यनुमानरूपनित्यज्ञानेच्छाकृतिमज्जन्यस्वसाधकेत्यर्थः । विलक्षणेति । जन्येच्छायां तजनकज्ञानायविषयत्वं सम्बन्धः । नित्येच्छायां तु तत्समानाधिकरणज्ञानीयं सर्वविषयत्वमिति भावः । जन्येति । तथा च जन्यनित्यज्ञानीयत्वयोर्विशेषयोस्सत्त्वेऽपि स्वकालीनघटत्वाद्यवच्छिन्नविषयतात्वरूपेण विषयता जन्यनित्येच्छयोस्सम्बन्धः । अन्यथा दृष्टान्ते उपादानादिविषयता इच्छादेर्यादृशी तादृशी न सिपाधयिषितसाध्यगतेच्छादौ इति पक्षे साध्यवैकल्याद्यापत्तेरिति भावः । अभ्युपगमादिति । बौद्धाधिकारादौ स्वीकारादित्यर्थः । 'प्रकाशस्य सतस्तदीयतामात्रनिबन्धनः स्वभावविशेषो विषयते'त्युदयनाचार्योक्तौ प्रकाशपदं ज्ञानार्थकम् । इच्छादेहि विषयता यात्रितमण्डनन्यायेन न स्वाभाविकीति वर्धमानादयः । एतेन यदि जनकज्ञानं तद्विषयत्वं वा इच्छादेस्सम्बन्धः, तदा समूहालम्बनमादायातिप्रसङ्गः । अथ यद्विषयकत्वेन ज्ञानस्येच्छादौ जनकता, तद्विषयकज्ञानादिकं तथेत्युच्यते, तदा नित्येच्छायाम्सर्वविषयकत्वं न स्यात् । तेन रूपेण इच्छां प्रत्यजनकत्वात् । अथ यद्विषयकज्ञानस्य स्वसमानाधिकरणयदिच्छासमये तदव्यवहितपूर्वसमये वा नियमतस्सत्त्वं, तद्विषयकज्ञानं तदिच्छासम्बन्धो महाप्रलयाव्यवहितपूर्वक्षण एवेश्वरेच्छासमयाव्यवहितपूर्व इति चेत् । तर्हि पाकादीच्छायामिष्टसाधनत्वादिविषयकत्वं स्यात् । न स्याच कृतेः पाकादिविषयकत्वमित्यादिकं बौद्धाधिकारीयशिरोमण्युक्तदूषगमनवकाशमिति सूचितम् । ज्ञानम्य ज्ञानजन्यत्वस्य । लोष्टेऽपीति । लौहित्यमिति शेषः । तथा च त्वन्मते स्फटिक इव लोष्टेऽपि लौहित्यस्य स्वाश्रयसंयोगेन प्रमा स्यात् । अबाधितप्रत्ययाभावस्तु, समानः । एवं परमते यथा समवायादिसम्बन्धेन घटादेः कार्यतास्वीकारात् समवायो घटादेरेव सम्बन्धो नाभावादेः, तथोक्तसम्बन्धेन इच्छादेर्ज्ञानादिकार्यत्वस्वीकारात्तस्यैवोक्तसम्बन्धो न सुखादेरिति मन्मते स्वीक्रियते इति बोध्यम् । साक्षादेवेति । एतेन यत्र चैतन्ये विषयोऽध्यस्तस्तदेव वृत्त्यवच्छिन्नं सज्ज्ञानम् । अतो ज्ञानस्य विषये अध्यास एव सम्बन्धइति नियमो न व्याहत इति वक्ष्यमाणं सूचितम् । परम्परोति । स्वावच्छेदकवृत्तिविषयत्वेत्यर्थः । न च वृत्तिविषयतादात्म्यविशिष्टा चिदेव ज्ञानमस्तु । तथा सति हि विषये ज्ञानस्य तादात्म्यसम्बन्ध एव लभ्यत इति वाच्यम् । पुरुषान्त
For Private and Personal Use Only