________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
प्रदे प्रतिकर्मव्यवस्था]
लघुचन्द्रिका ।
२६१
जायत इति स्वीक्रियताम् । किं वृत्तिंघटितोपरागेण । तत्राह-केवलानीत्यादि। यथा अनिरनभिव्यक्तिरूपेण सर्वगोऽपि तृणाद्ययःपिण्डाद्यभिव्यक्त एव दहति । न त्वतादृशः । तथा घटादितत्तद्विषयसंश्लिष्टवृत्त्यभिव्यक्त एव साक्षी घटादिकं भासयतीत्यर्थः । तथा च केवलविषयस्यास्वच्छत्वान्मनसः प्रतिबिम्बयोग्यत्वस्य क्लतत्वाच्च क्लुप्तवृत्तिरूपेण परिणतमनस्येव प्रतिबिम्बः स्वीक्रियत इति भावः । चैतन्याभेदेनेति । विषयाधिष्ठानब्रह्मणो मनोऽनवच्छेदप्रयुक्तस्य जीवभेदस्याभावेनेत्यर्थः । गौरवादिति । कल्पितत्वं मिथ्यात्वम् । प्रातीतिकत्वं तु यदा यदा स्वयं तिष्ठति, तदा तदानावृतं यत् तत्त्वम् । तथा च प्रातीतिकत्वे मिथ्यात्वात न गौरवम् । प्रत्युत मिथ्यात्वस्य स्वान्यूनसत्ताकाभावप्रतियोगित्वादिघटितत्वात् प्रातीतिकत्वाद्गुरु । तस्मात् गौरवोक्तिः परस्य भ्रान्त्येति बोध्यम् । नन्विन्द्रियसन्निकर्ष विना प्रत्यक्षवृत्त्यसम्भवात् प्रपञ्चो न भायात् । तत्राह-प्रतीतेरिति । भानस्येत्यर्थः । तथा च तावता प्रपञ्चः सत्योऽस्तु । इन्द्रियजमनोवृत्ति विनापि स्वप्नवत् प्रत्यक्षो वास्त्विति भावः । परीक्षितलेति । मानान्तरसंवादाविसंवादेत्यर्थः । व्यावहारिकस्योक्तपरीक्षितत्वेन स्थायित्वसिद्धिः । प्रातीतिकस्य तु न मानान्तरण संवादो 'नात्ररूप्य'मित्यादिमानेन विसंवादश्चेति भावः । विषयकृतं अनावृतचित्तादात्म्यविशिष्टविषयकत्वम् । सकर्मकवृत्तीति । सकर्मकज्ञानेत्यर्थः । घटप्रकाशरूपा घटकर्तृकस्फुरणरूपा । तथा च एकस्यां क्रियायामेकस्य कर्तृत्वकर्मत्वयोर्विरोधादेकस्याः क्रियायाः सकर्मकत्वाकर्मकत्वयाविरोधादनावृतचिद्रूपस्फुरणक्रिया घटकर्तृकापूर्वोक्तजानात्यर्थरूपक्रिया घटकर्मिकेति भावः । अनुकलयन इति । कालसम्बन्धप्रयोजकयत्न इत्यर्थः । उक्तमेतत् न्यायकुसुमाञ्जल्यादौ-'तथा हि फलानुकूलत्वेनैव करोतिशक्यता । न तु यत्नत्वेन फलानुकूलयत्नत्वेन वा । यततिकरोत्योरेकार्थकत्वापत्तेः । 'रथो गच्छती' त्यादौ करोत्यर्थकाख्यातस्य मख्यार्थकत्वानुपपत्तेश्चेत्याशङ्कच, कृताकृतविभागेन कर्तृरूपव्यवस्थया । यत्न एव कृतिः पूर्वाऽपरस्मिन् सैव भावना॥ यत्नपूर्वकत्वस्य प्रतिसन्धानात् घटादौ कृतत्वव्यवहारात्तदप्रतिसन्धाने सहेतुकत्वप्रतिसन्धानेऽप्यकुरादौ कृतत्वाभावव्यवहारादाश्रयार्थकतृजन्तकर्तृपदस्य कृत्याश्रयएव प्रयोगाच न फलानुकूलमात्रं करोत्यर्थः । किं तु तादृशयत्नः सैव भावना । यतः परस्मिन् स्वकार्ये पूर्वा कारणीभूता भावयतीति व्युत्पत्तेः । तथा च करोतिना विवरणादाख्यातमपि तादृशार्थकम् । 'रथो गच्छती'त्यादौ त्वेकदेशे फलानुकूले प्रयोगः। साङ्गवेदाध्येतृवाचकस्य श्रोत्रियपदस्य ब्राह्मणमात्रे प्रयोग इवे'ति कुसुमाञ्जलौ मूलटकिाभ्यामुक्तम् । तण्डुलक्रयणादिकाले पचतीत्यादिप्रयोगः स्यादित्याशङ्कय याह.
For Private and Personal Use Only